मत्स्यपुराणम्/अध्यायः १७५
देवासुरसंग्रामवर्णनम्।
मत्स्य उवाच।
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा।
सुराणामसुराणाञ्च परस्पर जयैषिणाम् ।। १७५.१ ।।
दानवा दैवतैः सार्द्धं नाना प्रहरणोद्यताः।
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ।। १७५.२ ।।
तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ।। १७५.३ ।।
ततो रथैर्विप्रयुक्तैर्वारणैश्च प्रचोदितैः।
उत्पतद्भिश्च गगनमसिहस्तैः समन्ततः ।। १७५.४ ।।
क्षिप्यमाणैश्च मुसलैः सम्पतद्भिश्च सायकैः।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ।। १७५.५ ।।
तद्युद्धमभवद् घोरं देवदानव सङ्कुलम्।
जगतस्त्रास जननं युगसंवर्तकोपमम् ।। १७५.६ ।।
हस्तमुक्तैश्च परिघैर्विप्रयुक्तैश्च पर्वतैः।
दानवाः समरे जघ्नुर्देवानिन्द्र पुरोगमान् ।। १७५.७ ।।
ते बध्यमाना बलिभिर्दानवैर्जयकाशिभिः।
विषण्णवदना देवा जग्मुरार्तिं परामृधे ।। १७५.८ ।।
तेऽस्त्र शूल प्रमथिताः परिघैर्भिन्नमस्तकाः।
भिन्नोरस्का दितिसुतैर्वेमूरक्तं व्रणैर्बहु ।। १७५.९ ।।
वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः।
प्रविष्टा दानवीं मायान्न शेकुस्ते विचेष्टितुम् ।। १७५.१० ।।
अस्तं गतमिवाभाति निष्प्राण सदृशाकृति।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ।। १७५.११ ।।
दैत्यचापच्युतान् घोरां श्छित्वा वज्रेण तांश्छरान्।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ।। १७५.१२ ।।
स दैत्यप्रमुखान् हत्वा तद्दानव बलं महत्।
तामसेनास्त्रजालेन तमो भूतमथाकरोत् ।। १७५.१३ ।।
तेऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ।। १७५.१४ ।।
मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः।
वपूंषि दैत्यसिंहानाम् तमोभूतान्यपातयन् ।। १७५.१५ ।।
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाद्रयः ।। १७५.१६ ।।
तद्घनीभूतदैत्येन्द्रमन्धकार इवार्णवे।
दानवन्देवकदनन्तमोभूतमिवाभवत् ।। १७५.१७ ।।
तदासृजन्महामायां मयस्तां तामसीन्दहन्।
युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ।। १७५.१८ ।।
सा ददाह ततः सर्वान् मायामयविकल्पिता।
दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ।। १७५.१९ ।।
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः।
भेजिरे चेन्द्रविषयं शीतांशुं सलिलप्रदम् ।। १७५.२० ।।
ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः।
शशंसुर्वज्रिणं देवाः सन्तप्ताः शरणैषिणः ।। १७५.२१ ।।
सन्तप्ते मायया सैन्ये हन्यमाने च दानवैः।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ।। १७५.२२ ।।
और्वो ब्रह्मर्षिजः शक्र! तपस्तेपे सुदारुणम्।
और्वः स पूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ।। १७५.२३ ।।
तं तपन्तमिवादित्यं तपसा जगदव्ययम्।
उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सहः ।। १७५.२४ ।।
हिरण्यकशिपुञ्चैव दानवो दानवेश्वरः।
ऋषिं विज्ञापयामासुः पुरा परम तेजसम् ।। १७५.२५ ।।
ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम्।
ऋषिवंशेषु भगवं श्छिन्नमूलमिदं पदम् ।। १७५.२६ ।।
एकस्त्वमनपत्यश्च गोत्रायान्यो न वर्तते।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्त्तसे।। १७५.२७ ।।
बहूनि विप्र! गोत्राणि मुनीनां भावितात्मनाम्।
एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ।। १७५.२८ ।।
एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम्
भवांस्तु तपसा श्रेष्ठो प्रजापतिसमद्युतिः ।। १७५.२९ ।।
तत्र वर्तस्व वंशाय वर्द्धयात्मानमात्मना।
त्वया धर्मोऽर्जितस्तेन द्वितीयाङ्कुरु वै तनुम् ।। १७५.३० ।।
स एवमुक्तो मुनिभिर्ह्यौर्वो मर्मसु ताडितः।
जगर्हे तान् ऋषिगणान् वचनं चेदमब्रवीत् ।। १७५.३१ ।।
यथायं विहितो धर्मो मुनीनां शाश्वतस्तु सः।
आर्षं वै सेवतः कर्म वन्यमूल फलाशिनः ।। १७५.३२ ।।
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ।। १७५.३३ ।।
जनानां वृत्तयस्तिस्रो यद् गृहाश्रम वासिनाम्।
अस्माकन्तु वरं वृत्तिर्वनाश्रम निवासिनाम् ।। १७५.३४ ।।
अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा।
अश्मकुट्टा दश तथा पञ्चातपसहाश्च ये ।। १७५.३५ ।।
एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति पराङ्गतिम् ।। १७५.३६ ।।
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते।
एवमाहुः परे लोके ब्रह्मचर्य विदो जनाः ।। १७५.३७ ।।
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणा दिवि संस्थिता ।। १७५.३८ ।।
नास्ति योगं विना सिद्धिर्न वा सिद्धिं विना यशः।
नास्ति लोके यशो मूलं ब्रह्मचर्यात् परन्तपः ।। १७५.३९ ।।
यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम्।
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ।। १७५.४० ।।
अयोगे केशधरणमसङ्कल्प व्रतक्रिया।
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम् ।। १७५.४१ ।।
क्व दाराः क्व च संयोगः क्व च भाव विपर्ययः।
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ।। १७५.४२ ।।
यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम्।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ।। १७५.४३ ।।
मनसा निर्मिता योनिराधातव्या तपस्विभिः।
न दारयोगे बीजं वा व्रतमुक्तं तपस्विनाम् ।। १७५.४४ ।।
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् ।। १७५.४५ ।।
वपुर्दीप्तान्तरात्मानमेतत् कृत्वा मनोमयम्।
दारयोगं विना स्रक्ष्ये पुत्रमात्म तनूरुहम् ।। १७५.४६ ।।
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति।
वन्येनानेन विधिना दिधिक्षन्तमिव प्रजाः ।। १७५.४७ ।।
और्वस्तु तपसाविष्टो निवेश्योरुं हुताशने।
ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ।। १७५.४८ ।।
तस्योरुं सहसा भित्वा ज्वालामाली ह्यनिन्धनः।
जगतो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ।। १७५.४९ ।।
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः।
दिघक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ।। १७५.५० ।।
उत्पन्नमात्रश्चोवाच पितरं श्लक्ष्णया गिरा।
क्षुधामे बाधते तात! जगद् भक्ष्ये त्यजस्व माम् ।। १७५.५१ ।।
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश।
निर्दयन् सर्वभूतानि ववृधे सोऽन्तकोऽनलः ।। १७५.५२ ।।
एतस्मिन्नन्तरे ब्रह्मा मुनिपूर्वं सभाजयन्।
उवाच वार्यतां पुत्रो जगतश्च दयाङ्कुरु ।। १७५.५३ ।।
अस्यापत्यस्य ते विप्र! करिष्ये स्थानमुत्तमम्।
तथ्यमेतद्वचः पुत्र! श्रुणु त्वं वदताम्वरः ।। १७५.५४ ।।
ऊर्व उवाच।
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवांच्छिशोः।
मतिमेतां ददातीह परमानुग्रहाय वै ।। १७५.५५ ।।
प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे।
भगवन्! तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ।। १७५.५६ ।।
कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम्।
विधास्यतीह भगवान् वीर्य तुल्यं महौजसः ।। १७५.५७ ।।
ब्रह्मोवाच।
वडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति।
मम योनिर्जलं विप्र!तस्य पीतवतः सुखम् ।। १७५.५८ ।।
यत्राहमास नियतं पिबन् वारिमयं हविः।
तद्धविस्तव पुत्रस्य विसृजाम्यालयञ्च तत् ।। १७५.५९ ।।
ततो युगान्ते भूतानामेष चाहञ्च पुत्रक!।
सहितौ विचरिष्यावो निष्पुत्राणामृणापहः।। १७५.६० ।।
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः।
दहनः सर्वभूतानां सदेवासुर रक्षसाम् ।। १७५.६१ ।।
एवमस्त्वितितं सोऽग्निः संवृतज्वाल मण्डलः।
प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ।। १७५.६२ ।।
प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः।
ऊर्वस्याग्ने प्रभां ज्ञात्वा स्वां स्वाङ्गतिमुपाश्रिताः ।। १७५.६३ ।।
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्।
ऊच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ।। १७५.६४ ।।
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्।
तपसा ते मुनिश्रेष्ठ! परितुष्टः पितामहः ।। १७५.६५ ।।
अहन्तु तव पुत्रस्य तव चैव महाव्रत!।
भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ।। १७५.६६ ।।
तन्मां पश्य समापन्नं तवैवाराधने रतम्।
यदि सीदे मुनिश्रेष्ठ! तवैव स्यात् पराजयः ।। १७५.६७ ।।
ऊर्व उवाच।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्यतेऽहं गुरुःस्थितः।
नास्ति मे तपसानेन भयमद्येह सुव्रत! ।। १७५.६८ ।।
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्।
निरिन्धनामग्निमयीन्दुर्धर्षां पावकैरपि ।। १७५.६९ ।।
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे।
संरक्षत्यात्मपक्षञ्च विपक्षञ्च प्रधर्षति ।। १७५.७० ।।
एवमस्त्विति तां प्रणम्य मुनिपुङ्गवम्।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ।। १७५.७१ ।।
एषा दुर्विषहा माया देवैरपि दुरासदा।
और्वेण निर्मिता पूर्वं पावकेनोर्व सूनुना ।। १७५.७२ ।।
तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः।
शापोह्यस्याः पुरा दत्तो सृष्टा येनैव तेजसा ।। १७५.७३ ।।
यद्येषा प्रतिहन्तव्या कर्त्तव्यो भगवान् सुखी।
दीयतां मे सखा शक्र! तोय योनिर्निशाकरः ।। १७५.७४ ।।