मत्स्यपुराणम्/अध्यायः १७८
कालनेमिना सह विष्णुयुद्धम्
मत्स्य उवाच।
पञ्च तन्नाभ्यवर्तन्त विपरीतेन कर्म्मणा।
वेदो धर्म्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ।। १७८.१ ।।
स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः।
वैष्णवं पदमन्विच्छन् ययौ नारायणान्तिकम् ।। १७८.२ ।।
स ददर्श सुपर्णस्थं शङ्ख चक्रगदाधरम्।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम्।। १७८.३ ।।
सजलाम्भोद सदृशं विद्युत्सदृश वाससम्।
स्वारूढं स्वर्णपक्षाढ्यं शिखिनं काश्यपं खगम् ।। १७८.४ ।।
दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम्।
दानवो विष्णुमक्षोभ्यं बभाषे लुब्ध मानसः ।। १७८.५ ।।
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ।। १७८.६ ।।
अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते।
अनेन संयुगेष्वद्य दानवा बहवो हताः ।। १७८.७ ।।
अयं स निर्घृणो लोके स्त्री बाल निरपत्रपः।
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ।। १७८.८ ।।
अयं सविष्णुर्देवानां वैकुण्ठश्च दिवैकसाम्।
अनन्तो भोगिनामप्सु स्वपन्नाद्यः स्वयम्भुवः ।। १७८.९ ।।
अयं स नाथो देवानामस्माकं व्यथितात्मनाम्।
अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः ।। १७८.१० ।।
अस्य च्छायामुपाश्रित्य देवा मखमुखे श्रिताः।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ।। १७८.११ ।।
अयं स निधने हेतुः सर्वेषाममरद्विषाम्।
यस्य चक्रे प्रविष्टानि कुलान्यस्माकमाहवे ।। १७८.१२ ।।
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः।
सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ।। १७८.१३ ।।
अयं स कालो दैत्यानां कालभूतः समास्थितः।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति केशवः ।। १७८.१४ ।।
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः।
अद्य मद्बाहु निष्पिष्टो मामेव प्रणमिष्यति ।। १७८.१५ ।।
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे।
इमं नारायणं हत्वा दानवानां भयावहम् ।। १७८.१६ ।।
क्षिप्रमेव हनिष्यामि रणेऽमरगणांस्ततः।
जात्यन्तरगतो ह्येष बाधते दानवान् मृधे ।। १७८.१७ ।।
एषोऽनन्तः पुरा भूत्वा पद्मनाभ इति श्रुतः।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ।। १७८.१८ ।।
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च।
पितरं मे जघानैको हिरण्यकशिपुं पुरा ।। १७८.१९ ।।
शुभं गर्भमधत्तैनमदितिर्देवतारणिः।
त्रीन् लोकानुज्जहारैको क्रममाणस्त्रिभिः क्रमैः ।। १७८.२० ।।
भूयस्त्त्विदानीं संग्रामे संप्राप्ते तारकामये।
मया सह समागम्य स देवो विनशिष्यति ।। १७८.२१ ।।
एवमुक्त्वा बहुविधं क्षिपन्नारायणं रणे।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ।। १७८.२२ ।।
क्षिप्यमाणो सुरेन्द्रेण न चुकोप गदाधरः।
क्षमा बलेन महता सस्मितं चेदमब्रवीत् ।। १७८.२३ ।।
अल्पं दर्पबलं दैत्य! स्थिरमक्रोधजं बलम्।
हतस्त्वं दर्पजैर्दोषैर्हित्वा यद् भाषसे क्षमम् ।। १७८.२४ ।।
अधीरस्त्वं मम मतो धिगेतत्तव वाग्बलम्।
न यत्र पुरुषाः सन्ति तत्र गर्जन्ति योषितः ।। १७८.२५ ।।
अहं त्वां दैत्य! पश्यामि पूर्वेषां मार्गगामिनम्।
प्रजापतिकृतं सेतुं भित्वा कः स्वस्तिमान् व्रजेत् ।। १७८.२६ ।।
अद्य त्वां नाशयिष्यामि देवव्यापारघातकम्।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ।। १७८.२७ ।।
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि।
जहास दानवः क्रोधाद्धस्तां श्चक्रे सहायुधान् ।। १७८.२८ ।।
स बाहुशतमुद्यम्य सर्वास्त्र-ग्रहणं रणे।
क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ।। १७८.२९ ।।
दानवाश्चापि समरे मयतारपुरोगमाः
उद्यतायुध निस्त्रिंशा विष्णुमभ्यद्रवन् रणे ।। १७८.३० ।।
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वोद्यतायुधैः।
न चचाल ततो युद्धे कम्पमान इवाचलः ।। १७८.३१ ।।
संसक्तश्च सुपर्णेन कालनेमी महासुरः।
सर्व प्राणेन महतीं गदामुद्यम्य बाहुभिः ।। १७८.३२ ।।
घोरां ज्वलन्तीं मुमुचे संरब्धो गरुडोपरि।
कर्म्मणा तेन दैत्यस्य विष्णुर्विस्मयमाविशत् ।। १७८.३३ ।।
यदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा।
सुपर्णं व्यथितं दृष्ट्वा कृतञ्च वपुरात्मनः ।। १७८.३४ ।।
क्रोध संरक्तनयनो वैकुण्ठश्चक्रमाददे।
व्यवर्द्धत स वेगेन सुपर्णेन समं विभुः ।। १७८.३५ ।।
भुजाश्चास्य व्यवर्द्धन्त व्याप्नुवन्तो दिशो दश।
प्रदिशश्चैव खं गां वै पूरयामास केशवः ।। १७८.३६ ।।
ववृधे च पुनर्लोकान् क्रान्तुकाम इवौजसा।
तर्जनायासुरेन्द्राणां वर्द्धमानं नभस्तले ।। १७८.३७ ।।
ऋषयश्चैव गन्धर्वास्तुष्टुवुर्मधुसूदनम्।
सर्वान् किरीटेन लिहन् साभ्रमम्बरमम्बरैः ।। १७८.३८ ।।
पद्भ्यमाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः।
स सूर्य करतुल्याभं सहस्रारमरिक्षयम् ।। १७८.३९ ।।
दीप्ताग्नि सदृशं घोरं दर्शनेन सुदर्शनम्।
सुवर्णरेणु पर्यन्तं वज्रनाभं भयापहम् ।। १७८.४० ।।
मेदोऽस्थि मज्जा रुधिरैः सिक्तन्दानवसम्भवैः।
अद्वितीय प्रहरणं क्षुरपर्यन्त मण्डलम् ।। १७८.४१ ।।
स्रग्दाममालाविततं कामगं कामरूपिणम्।
स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ।। १७८.४२ ।।
महर्षि रोषैराविष्टं नित्यमाहवदर्पितम्।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।। १७८.४३ ।।
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे।
तदप्रतिमकर्मोग्रं समानं सूर्यवर्चसा ।। १७८.४४ ।।
चक्रमुद्यम्य समरे क्रोधधीप्तो गदाधरः।
समुष्णन् दानवं तेजः समरे स्वेन तेजसा ।। १७८.४५ ।।
चिच्छेद बाहू चक्रेण श्रीधरः कालनेमिनः।
तच्च वक्त्रशतं घोरं साग्नि पूर्णाट्टहासि वै ।। १७८.४६ ।।
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः।
सच्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।। १७८.४७ ।।
कबन्धोऽवस्थितः संख्ये विशाख इव पादपः।
सम्वितत्यमहापक्षौ वायोः कृत्वा समञ्जसम् ।। १७८.४८ ।।
उरसा पातयामास गरुडः कालनेमिनम्।
स तस्य देहो विमुखो विबाहुश्च परिभ्रमन् ।। १७८.४९ ।।
निपपात दिवन्त्यक्त्वा क्षोभयन् धरणीतलम्।
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ।। १७८.५० ।।
साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्।
अपसर्पन्तु दैत्यश्च युद्धे दृष्टपराक्रमाः ।। १७८.५१ ।।
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे।
कांश्चित् केशेषु जग्राह कांश्चित् कण्ठेष्वपीडयन् ।। १७८.५२ ।।
चकर्ष कस्यचिद्वक्त्रं मध्येऽगृह्णद्दयापरम्।
ते गदा चक्रनिर्दग्धा गतसत्वा गतासवः ।। १७८.५३ ।।
गगनाद् भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले।
तेषु दैत्येषु सर्वेषु हतेषु पुरुषोत्तमः ।। १७८.५४ ।।
तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः।
तस्मिन् विमर्दे निर्वृत्ते संग्रामे तारकामये ।। १७८.५५ ।।
तं देशमाजगामाशु ब्रह्मा लोकपितामहः।
सर्वैर्ब्रह्मर्षिभिः सार्द्धं गन्धर्वाप्सरसाङ्गणैः ।। १७८.५६ ।।
देवदेवो हरिं देवं पूजयन् वाक्यमब्रवीत्।
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ।। १७८.५७ ।।
वधेनानेन दैत्यानां वयं च परितोषिताः।
योऽयं त्वया हतो विष्णो! कालनेमी महासुरः ।। १७८.५८ ।।
त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते।
एष देवान् परिभवन् लोकांश्च ससुरासुरान् ।। १७८.५९ ।।
ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति।
तदनेन तवाग्य्रेण परितुष्टोऽस्मि कर्मणा ।। १७८.६० ।।
यदयं कालकल्पस्तु कालनेमी निपातितः।
तदा गच्छस्व भद्रन्ते गच्छाम दिवमुत्तमम् ।। १७८.६१ ।।
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः।
कञ्चाहं तव दास्यामि वरं वरवताम्वर! ।। १७८.६२ ।।
सुरेष्वथ च दैत्येषु वराणां वरदो भवान्।
निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ।। १७८.६३ ।।
अस्मिन्नेव मृधे विष्णो!शक्राय सुमहात्मने।
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ।। १७८.६४ ।।
देवांश्छक्रमुखान् सर्वानुवाच शुभया गिरा।
विष्णुरुवाच।
श्रृण्वन्तु त्रिदशाः सर्वे यावन्तोऽत्र समागताः ।। १७८.६५ ।।
श्रवणावहितैः श्रोत्रैः पुरस्कृत्य पुरन्दरम्।
अस्मिन् महति संग्रामे दैतेयौ द्वौ विनिःसृतौ।। १७८.६६ ।।
विरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ।। १७८.६७ ।।
याम्यां यमः पालयितामुत्तराञ्च धनाधिपः।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ।। १७८.६८ ।।
याम्यां यमः पालयितामुत्तराञ्च धनाधिपः।
ऋक्षेः सह यथायोगं गच्छतां चैव चन्द्रमाः ।। १७८.६९ ।।
अब्दं ऋतुमुखे सूर्यो भजतामयनैः सह।
आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ।। १७८.७० ।।
हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा।
देवाश्चाप्यग्निहोमेन स्वाध्यायेन महर्षयः ।। १७८.७१ ।।
श्राद्धेन पितरश्चैव तृप्ति यान्तु यथासुखम्।
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ।। १७८.७२ ।।
त्रींस्तु वर्णांश्च लोकांस्त्रींस्तर्पयंश्चात्मजैर्गुणैः।
क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ।। १७८.७३ ।।
दक्षिणाश्चोपपाद्यन्तां याज्ञिकेभ्यः पृथक् पृथक् ।
गान्तु सूर्यो रसान् सोमो वायुः प्राणांश्च प्राणिषु ।। १७८.७४ ।।
तर्पयन्तः प्रवर्तन्तां सर्व एव स्वकर्मभिः।
यथावदानुपूर्व्येण महेन्द्रमलयोद्भवाः ।। १७८.७५ ।।
त्रैलोक्यमातरः सर्वाः समुद्रं यान्तु सिन्धवः।
दैत्येभ्यस्त्यज्यतां भीश्च शांन्ति व्रजत देवताः ।। १७८.७६ ।।
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम्।
स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः ।। १७८.७७ ।।
विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः।
छिद्रेषु प्रहरन्त्येते न तेषां संस्थितिर्ध्रुवा ।। १७८.७८ ।।
सौम्यानामृजुभावानां भवतामार्जबन्धनम्।
एवमुक्त्वा सुरगणान् विष्णुसत्य पराक्रमः ।। १७८.७९ ।।
जगाम ब्रह्मणा सार्द्धं स्वलोकन्तु महायशाः।
एतदाश्चर्यमभवत् संग्रामे तारकामये।
दानवानाञ्च विष्णोश्च यन्मान्त्वं परिपृष्टवान् ।। १७८.८० ।।