मत्स्यपुराणम्/अध्यायः १७२
विष्णोः प्रादुर्भाव वर्णनम्।
मत्स्य उवाच।
विष्णुत्वं श्रृणु विष्णोश्च हरित्वञ्च कृते युगे।
वैकुण्ठत्वञ्च देवेषु कृष्णत्वं मानुषेषु च ।। १७२.१ ।।
ईश्वरस्य हितस्यैषा कर्म्मणां गहनागतिः।
संप्रत्यतीतान् भव्यांश्च श्रृणु राजन्! यथातथम् ।। १७२.२ ।।
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः।
नारायणोह्यनन्तात्मा प्रभवोऽव्यय एव च ।। १७२.३ ।।
एष नारायणो भूत्वा हरिरासीत् सनातनः।
ब्रह्मा वायुश्च सोमश्च धर्म्मः शक्रो बृहस्पतिः ।। १७२.४ ।।
अदितेरपि पुत्रत्वं समेत्य रविनन्दन!।
एष विष्णुरितिख्यात इन्द्रस्यावरजो विभुः ।। १७२.५ ।।
प्रसादजं ह्यस्य विभोरदित्याः पुत्रकारणम्।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। १७२.६ ।।
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः।
सोऽसृजत् पूर्वपुरुषः पुराकल्पे प्रजापतीन् ।। १७२.७ ।।
असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान्।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ।। १७२.८ ।।
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम्।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ।। १७२.९ ।।
वृत्ते वृत्रवधे तत्र वर्तमाने कृते युगे।
आसीत्त्रैलोक्य विख्यातः संग्रामस्तारकामयः ।। १७२.१० ।।
यत्र ते दानवा घोराः सर्वे संग्रामदुर्जयाः।
घ्नन्तिदेवगणान् सर्वान् सयक्षोरगराक्षसान् ।। १७२.११ ।।
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे।
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुः ।। १७२.१२ ।।
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः।
सार्कचन्द्रग्रहगणं छादयन्तोः नभस्तलम् ।। १७२.१३ ।।
वेणुर्विद्युद् गणोपेता घोरनिह्राद कारिणः।
अन्योन्य- वेगांभिहताः प्रववुः सप्त मारुताः ।। १७२.१४ ।।
दीप्त तोयाशनिघनैर्वज्रवेगानलानिलैः।
रवैः सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम् ।। १७२.१५ ।।
तत उल्कासहस्राणि निपेतुः खगतान्यपि।
दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ।। १७२.१६ ।।
चतुर्युगान्ते पर्याये लोकानां यद्भयं भवेत्।
अरूपवन्ति रूपाणि तस्मिन्नुत्पात लक्षणे ।। १७२.१७ ।।
जातञ्च निष्प्रभं सर्वं न प्राज्ञायत किञ्चन।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ।। १७२.१८ ।।
विवेश रूपिणी काली कालमेघावगुण्ठिता।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ।। १७२.१९ ।।
तान् घनौघान् सतिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः।
वपुः सर्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः ।। १७२.२० ।।
बलाहकाञ्जनमिमं बलाहकतनूरुहम्।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ।। १७२.२१ ।।
दीप्ता पीताम्बरधरं तप्तकाञ्चन भूषणम्।
धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ।। १७२.२२ ।।
चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्द्धजम्।
बभौ चामीरप्रख्यै रायुधैरुपशोभितम् ।। १७२.२३ ।।
चन्द्रार्क किरणोद्योतं गिरिकूटमिवोच्छ्रितम्।
नन्दकानन्दितकरं शराशी विष धारिणम्।। १७२.२४ ।।
शक्तिचित्रफलोदग्र शङ्ख चक्र गदाधरम्।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ।। १७२.२५ ।।
त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम्।
सर्वलोकमनः कान्तं सर्वसत्वमनोहरम् ।। १७२.२६ ।।
नानाविमानविटपन्तोयदाम्बु मधुस्रवम्।
विद्याहङ्कारसाराद्यं महाभूत प्ररोहणम् ।। १७२.२७ ।।
विशेषपत्रैर्निचितं ग्रहनक्षत्र पुष्पितम्।
दैत्यलोकमहास्कन्धं मर्त्यलोके प्रकाशितम् ।। १७२.२८ ।।
सागराकारनिर्हादं रसातल महाश्रयम्।
मृगेन्द्रपाशैर्विततं पक्षजन्तु निषेवितम् ।। १७२.२९ ।।
शीलार्थ चारु गन्धाढ्यं सर्वलोकमहाद्रुमम्।
अव्यक्तानन्तसलिलं व्यक्ताहङ्कारफेनिलम् ।। १७२.३० ।।
महाभूततरङ्गौघं ग्रहनक्षत्र बुद्बुदम्।
विमानगरुतव्याप्तं तोयदाडम्बरा कुलम् ।। १७२.३१ ।।
जन्तुमत्सजनाकीर्णं शैल शङ्ख कुलैर्युतम्।
त्रैगुण्यविषयावर्तं सर्वलोक तिमिङ्गिलम् ।। १७२.३२ ।।
वीरवृक्षलतागुल्मं भुजगोत्कृष्ट शैवलम्।
द्वादशार्कमहाद्वीपं रुद्रैकादश पत्तनम् ।। १७२.३३ ।।
वस्वष्ट पर्वतोपेतं त्रैलोक्याम्भो महोदधिम्।
सन्ध्या सङ्ख्योर्मि सलिलं सुपर्णानिल सेवितम् ।। १७२.३४ ।।
दैत्यरक्षोगणग्राहं यक्षोरग झषाकुलम्।
पितामहमहावीर्य्यं सर्वस्त्री रत्नशोभितम् ।। १७२.३५ ।।
श्रीर्कीर्तिकान्तिलक्ष्मीभिर्नदीभिरुपशोभितम्।
कालयोगि महापर्व प्रलयोत्पत्ति वेगिनम् ।। १७२.३६ ।।
तन्तु योगमहापारं नारायणमहार्णवम्।
देवाधिदेवं वरदं भक्तानां भक्ति वत्सलम् ।। १७२.३७ ।।
अनुग्रहकरं देवं प्रशान्तिकरणं शुभम्।
हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ।। १७२.३८ ।।
ग्रहचन्द्रार्करचिते मन्दराक्ष-वरावृते।
अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ।। १७२.३९ ।।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे।
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।। १७२.४० ।।
ददृशुस्तेस्थितं देवं दिव्ये लोकमये रथे।
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।। १७२.४१ ।।
जयशब्दं पुरस्कृत्य शरण्यं शरणङ्गताः।
स तेषां ताङ्गिरं श्रुत्वा विष्णुर्दैवत दैवतम् ।। १७२.४२ ।।
मनश्चक्रे विनाशाय दानवानां महामृधे।
आकाशे तु स्थितो विष्णुरुत्तमं वपुरास्थितः ।। १७२.४३ ।।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः।
शान्तिं व्रजत भद्रं वो मा भैष्ट मरुताङ्गणाः ।। १७२.४४ ।।
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्।
ते तस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः ।। १७२.४५ ।।
देवाः प्रीतिं समाजग्मुः प्राश्यामृतमनुत्तमम्।
ततस्तमः संहृतं तद्विनेशुश्च बलाहकाः ।। १७२.४६ ।।
प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश।
शुद्धप्रभाणि ज्योतींषि सोमञ्चक्रुः प्रदक्षिणम् ।। १७२.४७ ।।
न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः।
विरजस्का भवन्मार्गा नाकवर्गादयस्त्रयः ।। १७२.४८ ।।
यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः।
आसंश्छुभानीन्द्रियाणि नराणामन्तरात्मसु ।। १७२.४९ ।।
महर्षयो वीतशोका वेदानुच्चैरधीयत।
यज्ञेषु च हविः पाकं शिवमाप च पावकः ।। १७२.५० ।।
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः।
विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारि-निधने गिरम् ।। १७२.५१ ।।