मत्स्यपुराणम्/अध्यायः १३४
त्रिपुरे नारदागमनम्।
सूत उवाच।
पूज्यमाने रथे तस्मिन् लोकैर्देवे रथे स्थिते।
प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति।। १३४.१ ।।
ईश्वरस्वरघोषेण नर्दमाने महावृषे।
जयत्सु विप्रेषु तथा गर्ज्जत्सु तुरगेषु च।। १३४.२ ।।
रणाङ्गणात् समुत्पत्य देवर्षिर्नारदः प्रभुः।
कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः।। १३४.३ ।।
औत्पातिकन्तु दैत्यानां त्रिपुरे वर्त्तते ध्रुवम्।
नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः।। १३४.४ ।।
आगतं जलदाभासं समेताः सर्वदानवाः।
उत्तस्थुर्नारदं द्रृष्ट्वा अभिवादनवादिनः।। १३४.५ ।।
तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः।
नारदं पूजयामासुर्ब्रह्माणमिव वासवः।। १३४.६ ।।
तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः।
नारदः सुखमासीनः काञ्चने परमासने।। १३४.७ ।।
मयस्तु सुखमासीने नारदे नारदोद्भवे।
यथार्हं दानवैः सार्द्धमासीनो दानवाधिपः।। १३४.८ ।।
आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः।
अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः।। १३४.९ ।।
औत्पातिकं पुरेऽस्माकं यथा नान्यत्र कुत्रचित्।
वर्त्तते वर्तमानज्ञ! वद त्वं हि च नारद!।। १३४.१० ।।
द्रृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम्।
विना च वायुना केतुः पतते च तथा भुवि।। १३४.११ ।।
अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः।
हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे।। १३४.१२ ।।
नाहं बिभेमि देवानां सेन्द्राणामपि नारद! ।
मुक्त्वैकवरदं स्थाणुं भक्ताभयकरं हरम्।। १३४.१३ ।।
भगवन्नास्त्यविदितमुत्पातेषु तवानघ!।
अनागतमतीतञ्च भवान् जानाति तत्त्वतः।। १३४.१४ ।।
तदेतन्नोभयस्थानमुत्पाताभिनिवेदितम्।
कथयस्व मुनिश्रेष्ठ! प्रपन्नस्य तु नारद!।। १३४.१५ ।।
इत्युक्त्वा नारदस्तेन मयेनामयवर्जितः।
नारद उवाच।
श्रृणु दानव! तत्त्वेन भवन्त्यौत्पातिका यथा।। १३४.१६ ।।
धर्मेति धारणे धातुर्माहात्म्ये चैव पठ्यते।
धारणाच्च महत्त्वेन धर्म एव निरुच्यते।। १३४.१७ ।।
स इष्टप्रापको धर्म आचार्यैरुपदिश्यते।
इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते।। १३४.१८ ।।
उत्पथान् मार्गमागच्छेत् मार्गाच्चैव विमार्गताम्।
विनाशस्तस्य निर्देश्य इति वेदविदो विदुः।। १३४.१९ ।।
सस्वधर्म रथारूढ़ सहैभिर्मत्तदानवैः।
अपकारिषु देवानां कुरुषे त्वं सहायताम्।। १३४.२० ।।
तदेतान्येवमादीनि उत्पातावेदितानि च।
वैनाशिकानि द्रृश्यन्ते दानवानां तथैव च।। १३४.२१ ।।
एष रुद्रः समास्थाय महालोकमयं रथम्।
आयाति त्रिपुरं हन्तुं मय! त्वामसुरानपि।। १३४.२२ ।।
सत्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम्।
यास्यसे सह पुत्रेण दानवैः सह मानद!।। १३४.२३ ।।
इत्येवमावेद्य भयं दानवोपस्थितं महत्।
दानवानां पुनर्देवो देवेशपदमागतः।। १३४.२४ ।।
नारदे तु मुनौ याते मयो दानवनायकः।
शूरसंमतमित्येवं दानवानाह दानवः।। १३४.२५ ।।
शूराः स्थ जात पुत्राः स्थ कृतकृत्याः स्थ दानवाः।
युध्यध्वं दैवतैः सार्द्धं कर्तव्यं चापिनो भयम्।। १३४.२६ ।।
जित्वा वयं भविष्यामः सर्वेऽमरसभासदः।
देवांश्च सेन्द्रकान् हत्वा लोकान् भोक्ष्या महेसुराः।। १३४.२७ ।।
अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः।
दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः।। १३४.२८ ।।
पुराणि त्रीणि चैतानि यथा स्थानेषु दानवाः।
तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च।। १३४.२९ ।।
न भोगतास्तथा शूरा देवता विदिता हि वः।
ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः।। १३४.३० ।।
इति दनुतनयान्मयस्तथोक्वा सुरगणवारणवारणे वचांसि।
युवतिजनविषण्ण मानसं तत् त्रिपुरपुरं सहसा विवेश राजा।। १३४.३१ ।।
अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः।
शरणमुपजगाम देवदेवं मदनार्यन्धक यज्ञदेहघातम्।। १३४.३२ ।।
मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः।
तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवोऽभूत्।। १३४.३३ ।।