मत्स्यपुराणम्/अध्यायः २३०
शान्तिविधानवर्णनम् ।
गर्ग उवाच।
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं तथा वसाम् ।। २३०.१ ।।
आरयन्ति रुदन्त्येताः प्रस्विद्यन्ति हसन्ति च।
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्ति च ।। २३०.२ ।।
भुञ्जते विक्षिपन्ते वा कोशप्रहरणध्वजान्।
अवाङ्मुखा वै भवन्ति स्थानात् स्थानं भ्रमन्ति च ।। २३०.३ ।।
एवमाद्या हि दृश्यन्ते विकाराः सहसोत्थिताः।
लिङ्गायतन विप्रेषु तत्र वासं नरोचयेत् ।। २३०.४ ।।
राज्ञो वा व्यसनन्तत्र स च देशो विनश्यति।
देवयात्रासु चोत्पातात् दृष्ट्वा देशभयं वदेत् ।। २३०.५ ।।
पितामहस्य हर्म्येषु तत्र वासं न रोचयेत्।
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् ।। २३०.६ ।।
ज्ञेयं सेनापतीनान्तु यत्स्यात् कन्दविशाखजम्।
लोकानां विष्णुवस्वीन्द्र विश्वकर्मसमुद्भवम् ।। २३०.७ ।।
विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः।
देवप्रेष्यान्नृपप्रेष्यादेव स्त्रीभिर्नृपस्त्रियः ।। २३०.८ ।।
वासुदेवोद्भवं ज्ञेयं ग्रहाणामेव नान्यथा।
देवतानां विकारेषु श्रुतिवेत्ता पुरोहितः ।। २३०.९ ।।
देवतार्चान्तु गत्वा वै स्नानमाच्छाद्य भूषयेत्।
पूजयेच्च महाभाग! गन्धमाल्यान् न सम्पदा ।। २३०.१० ।।
मधुपर्केण विधिवत् उपतिष्ठेदनन्तरम्।
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ।। २३०.११ ।।
विप्राश्च पूज्या मधुरान्नपानैः सदक्षिणं सप्तदिनं नरेन्द्र!।
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शान्तिमुपैति पापम् ।। २३०.१२ ।।