मत्स्यपुराणम्/अध्यायः १६७
यज्ञावतारवर्णनम्।
मत्स्य उवाच।
एकार्णवीभूते शेते लोके महाद्युतिः।
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा ।। १६७.१ ।।
महतो रजसो मध्ये महार्णव सरःसु वै।
विरजस्कं महाबाहुमक्षयं ब्रह्म यं विदुः ।। १६७.२ ।।
आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः।
मनः सात्त्विकमाधाय यत्र तत् सत्यमासत ।। १६७.३ ।।
याथातथ्यं परं ज्ञानं भूतन्तद्ब्रह्मणा पुरा!
रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम् ।। १६७.४ ।।
पुरुषो यज्ञ इत्येतत् यत्परं परिकीर्तितम्।
यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः ।। १६७.५ ।।
ये च यज्ञ करा विप्रा येचर्त्विज इति स्मृताः।
अस्मादेवपुरा भूता यज्ञेभ्यः श्रूयतां तथा ।। १६७.६ ।।
ब्रह्माणं प्रथमं वक्त्रादुद्गातारञ्च सागरम्।
होतारमपि चाध्वर्युं बाहुभ्यामसृजत् प्रभुः ।। १६७.७ ।।
ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारञ्च सर्वशः।
तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च ।। १६७.८ ।।
उदरात् प्रतिहर्त्तारं होतारञ्चैव पार्थिव!।
अच्छावाकमथोरुभ्यां न्नेष्टारञ्चैव पार्थिव!।। १६७.९ ।।
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यञ्च जानुतः।
ग्रावस्तुतन्तु पादाभ्यामुन्नेतारञ्च याजुषम् ।। १६७.१० ।।
एवमेवैष भगवान् षोडशैव जगत्पतिः।
प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ।। १६७.११ ।।
तदेष वै वेदमयः पुरुषो यज्ञसंस्थितः।
वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः ।। १६७.१२ ।।
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत् पुरा।
श्रूयन्तां तद्यथा विप्रा! मार्कण्डेय कुतूहलम्।। १६७.१३ ।।
गीर्णा भगवतस्तस्य कुक्षावेव महामुनिः।
बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ।। १६७.१४ ।।
अटंस्तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरान्।
आश्रमाणि च पुण्यानि देवतायतनानि च ।। १६७.१५ ।।
देशान् राष्ट्राणि चित्राणि पुराणि विविधानि च।
जप होमपरः शान्तस्तपोघोरं समास्थितः ।। १६७.१६ ।।
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्त्राद्विनिः सृतः।
स निष्क्रामन्नचात्मानं जानीते देवमायया ।। १६७.१७ ।।
निष्क्रम्याप्यस्य वदनादेकार्णवमथो जगत्।
सर्वतस्तमसाच्छन्नं मार्कण्डेयोऽन्ववैक्षत ।। १६७.१८ ।।
तस्योत्पन्नं भयन्तीव्रं संशयश्चात्मजीविते।
देवदर्शन संहृष्टो विस्मयं परमङ्गतः ।। १६७.१९ ।।
चिन्तयन् जलमध्यस्थो मार्कण्डेयोऽन्ववैक्षतः।
किन्तु स्यान्मम चिन्तेयं मोहः स्वप्नोऽनुभूयते ।। १६७.२० ।।
व्यक्तमन्यतमोभावस्तेषां सम्भावितो मम।
नहीदृशं जगत् क्लेशमयुक्तं सत्यमर्हति ।। १६७.२१ ।।
नष्टचन्द्रार्कपवने नष्टपर्वतभूतले।
कतमः स्यादयं लोक इति चिन्तामवस्थितः ।। १६७.२२ ।।
ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम्।
सलिलेऽर्द्धमथो मग्नं जीमूतमिव सागरे ।। १६७.२३ ।।
ज्वलन्तमिव तेजोभिः गोयुक्तमिव भास्करम्।
शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा ।। १६७.२४ ।।
देवं द्रष्टुमिहायातः को भवानिति विस्मयात्।
तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः ।। १६७.२५ ।।
सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयोऽतिविस्मयः।
तथैव च पुनर्भूयो विजानन् स्वप्नदर्शनम् ।। १६७.२६ ।।
स तथैव यथा पूर्वं यो धरामटते पुरा।
पुण्यतीर्थ जलोपेतां विविधान्याश्रमाणि च ।। १६७.२७ ।।
क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणान्।
अपश्यद्दैवकुक्षिस्थान् याजकान् शतशोद्विजान् ।। १६७.२८ ।।
सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः।
चत्वारश्चाश्रमाः सम्यग्यथोद्दिष्टा मया तव ।। १६७. २९ ।।
एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः।
चरतः पृथिवीं सर्वान्न कुक्ष्यन्तः समीक्षितः ।। १६७.३० ।।
ततः कदाचिदथ वै पुनर्वक्त्राद्विनिस्सृतः।
गुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत ।। १६७.३१ ।।
तथैवैकार्णव जले नीहारेणावृताम्बरे।
अव्यग्रः क्रीडते लोके सर्वभूत विवर्जिते ।। १६७.३२ ।।
स मुनिर्विस्मयाविष्टः कौतूहल समन्वितः।
बालमादित्यसङ्काशं नाशक्नोदभिवीक्षितुम् ।। १६७.३३ ।।
स चिन्तयन् तथैकान्ते स्थित्वा सलिलसन्निधौ।
पूर्वदृष्टमिदं मन्ये शङ्कितो देवमायया ।। १६७.३४ ।।
अगाधसलिले तस्मिन् मार्कण्डेयः सुविस्मयः।
प्लवंस्तथार्त्तिमगमत् भयात् सन्त्रस्तलोचनः ।। १६७.३५ ।।
स तस्मै भगवानाह स्वागतं बालयोगवान्।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ।। १६७.३६ ।।
माभै र्वत्स! न भेतव्यमिहैवायाहि मेऽन्तिकम्।
मार्कण्डेयो मुनिस्त्वाह बालन्तं श्रमपीडितः ।। १६७.३७ ।।
मार्कण्डेय उवाच।
कोमान्नाम्ना कीर्तयति तपः परिभवन्मम।
दिव्यं वर्षसहस्राख्यं धर्षयन्निवमेव यः ।। १६७.३८ ।।
नह्येष वः समाचारो देवेष्वपि ममोचितः।
मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते ।। १६७.३९ ।।
कस्तपो घोरमासाद्य मामद्य त्यक्तजीवितः।
मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति ।। १६७.४० ।।
एवमाभाष्य तं क्रोधान्मार्कण्डेयो महामुनिः।
तथैव भगवान् भूयो बभाषे मधुसूदनः ।। १६७.४१ ।।
भगवानुवाच।
अहं ते जनको वत्स! हृषीकेशः पिता गुरुः।
आयुः प्रदाता पौराणः किं मां त्वन्नोपसर्पसि ।। १६७.४२ ।।
मां पुत्रकामः प्रथमं पिता तेऽङ्गिरसो मुनिः।
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ।। १६७.४३ ।।
ततस्त्वां घोरतपसा प्रावृणोदमितौजसम्।
उक्तवानहमात्मस्थं महर्षिममितौजसम् ।। १६७.४४ ।।
कः समुत्सहते चान्यो यो न भूतात्मकात्मजः।
द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना ।। १६७.४५ ।।
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः।
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ।। १६७.४६ ।।
नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः।
तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ।। १६७.४७ ।।
मार्कण्डेय उवाच।
इच्छेयं तत्त्वतो मायामिमां ज्ञातुं तवानघ!।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ।। १६७.४८ ।।
किं संज्ञश्चैव भगवन्! लोके विज्ञायसे प्रभो!
तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ।। १६७.४९ ।।
श्रीभगवानुवाच।
अहं नारायणो ब्रह्मन्! सर्वभूः सर्वनाशनः।
अहं सहस्रशीर्षाख्यैः यः पदैरभिसंज्ञितः ।। १६७.५० ।।
आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः।
अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ।। १६७.५१ ।।
अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः।
अहं योगी युगाख्यश्च युगान्तावर्त एव च ।। १६७.५२ ।।
अहं सर्वाणि सत्वानि दैवतान्यखिलानि तु।
भुजङ्गानामहं शेषो तार्क्ष्यो वै सर्वपक्षिणाम् ।। १६७.५३ ।।
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः।
अहं धर्म्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ।। १६७.५४ ।।
अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः।
यत्तत् सत्यं च परममहमेकः प्रजापतिः ।। १६७.५५ ।।
अहं सांख्यमहं योगोऽप्यहं तत्परमम्पदम्।
अहमिज्या क्रिया चाहमहं विद्याधिपःस्मृतः ।। १६७.५६ ।।
अहं ज्योतिरहं वायुरहं भूमिरहं नभः।
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ।। १६७.५७ ।।
अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः।
क्षीरोदसागरे चाहं समुद्रे वडवामुखः ।। १६७.५८ ।।
वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः।
अहं पुराणः परमं तथैवाहं परायणम्।। १६७.५९ ।।
अहं भूतस्य भव्यस्य वर्तमानस्य सम्भवः।
यत् किञ्चित् पश्यसे विप्र! यच्छृणोषि च किञ्चन ।। १६७.६० ।।
यल्लोके चानुभवसि तत् सर्वं मामनुस्मर।
विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम् ।। १६७.६१ ।।
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत्।
तदेतदखिलं सर्वं मार्कण्कडेयावधारय ।। १६७.६२ ।।
शुश्रूषुर्मम धर्माश्च कुक्षौ चर सुखं मम।
मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह ।। १६७.६३ ।।
व्यक्तमव्यक्तयोगं मामवगच्छासुरद्विषम्।
अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव तारकः ।। १६७.६४ ।।
परस्त्रिवर्गादोङ्कार स्त्रिवर्गार्थनिदर्शनः।
एवमादिपुराणेशो वदन्नेव महामतिः ।। १६७.६५ ।।
वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम्।
ततो भगवतः कुक्षि प्रविष्टो मुनिसत्तमः ।। १६७.६६ ।।
स तस्मिन् सुखमेकान्ते शुश्रूषुर्हंसमव्ययम्।
योऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे।
शनैश्चरन् प्रभुरपि हंससंज्ञितोऽसृजं जगद्विरहितकालपर्यये ।। १६७.६७ ।।