मत्स्यपुराणम्/अध्यायः २७८
गोसहस्रप्रदानाख्य-महादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
गोसहस्रप्रदानाख्यं सर्वपापहरं परम् ।। २७८.१
पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकीम्।
पयोव्रतं त्रिरात्रं स्यादेकरात्रमथापि वा ।। २७८.२
लोकेशावाहनं कुर्यात् तुला पुरुषदानवत्।
पुण्याहवाचनं कुर्याद्धोमः कार्यस्तथैव च।। २७८.३
गोसहस्रं बहिः कुर्याद् वस्त्रमाल्य विभूषणम्।
सुवर्णश्रृङ्गाभरणं रौप्यपाद समन्वितम् ।। २७८.४
अन्तः प्रवेश्य दशकं वस्त्रमाल्यैश्च पूजयेत्।
सुवर्णघण्टिकायुक्तं कांस्य दोहनकान्वितम् ।। २७८.५
सुवर्णतिलकोपेतं हेमपट्टैरलङ्कृतम्।
कौशेयवस्त्रसम्वीतं माल्यगन्धसमन्वितम् ।। २७८.६
हेमरत्नमयैः श्रुङ्गैः चामरैरुपशोभितम्।
पादुकोपानहच्छत्र भाजनासन संयुतम् ।। २७८.७
गवां दशक मध्ये स्यात् काञ्चनो नन्दिकेश्वरः।
कौशेयवस्त्रसम्वीतो नानाभरणभूषितः ।। २७८.८
लवणद्रोमशिखरे मालयेक्षु फलसंयुतः।
कुर्यात् पलशतादूर्ध्वं सर्वमेतदशेषतः ।। २७८.९
शक्तितः पलसाहस्र त्रितयं यावदेव तु।
गोशतेऽपि दशांशेन सर्वमेतत् समाचरेत् ।। २७८.१०
पुण्यकालं समासाद्य गीतमङ्गल निःस्वनैः।
सर्वौषध्युदकस्नान स्नापितो वेदपुङ्गवैः ।। २७८.११
इममुच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः।
नमोऽस्तु विश्वमूर्तिभ्यो विश्वमातृभ्य एव च।। २७८.१२
लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो नमः।
गवामङ्गेषु तिष्ठन्ति भुवनान्येकविंशतिः ।। २७८.१३
ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः।
गावो मे अग्रतः सन्तु गावः पृष्ठत एव च ।। २७८.१४
गावः शिरसि मे नित्यं गवां मध्ये वसाम्यहम्।
यस्मात्त्वं वृषरूपेण धर्म एव सनातनः ।। २७८.१५
अष्टमूर्तेरधिष्ठानमतः पाहि सनातन!।
इत्यामन्त्र्य ततो दद्याद् गुरवे नन्दिकेश्वरम् ।। २७८.१६
सर्वोपकरणोपेतं गोयुतञ्च विचक्षणः।
ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेत् ।। २७८.१७
गवाञ्च शतमेकैकं तदर्द्धं वाथ विंशतिम्।
दश पञ्चाथ वा दद्यादन्येभ्यस्तदनुज्ञया ।। २७८.१८
नैका बहुभ्यो दातव्या यतो दोषकरी भवेत्।
बह्व्यश्चैकस्य दातव्या धीमतारोग्यवृद्धये ।। २७८.१९
पयोव्रतः पुनस्तिष्ठेदेकाहं गोसहस्रदः।
श्रावयेच्छृणुयाद्वापि महादानानुकीर्तनम् ।। २७८.२०
तद्दिने ब्रह्मचारी स्यात् यदीच्छेद्विपुलां श्रियम्।
अनेन विधिनायस्तु गोसहस्रप्रदो भवेत्
सर्वपाप विनिर्मुक्तः सिद्धचारणसेवितः ।। २७८.२१
विमानेनार्कवर्णेन किङ्किणीजालमालिना।
सर्वेषां लोकपालानां लोके संपूज्यतेऽमरैः ।। २७८.२२
प्रतिमन्वन्तरं तिष्ठेत् पुत्रपौत्रसमन्वितः।
सप्तलोकानतिक्रम्य ततः शिवपुरं व्रजेत् ।। २७८.२३
शतमेकोत्तरन्तद्वत् पितॄणां तारयेद् बुधः।
मातामहानां तद्वच्च पुत्रपौत्रसमन्वितः
यावत्कल्पशतन्तिष्ठेत् राजराजो भवेत् पुनः ।। २७८.२४
अश्वमेधशतं कुर्याच्छिवध्यानपरायणः।
वैष्णवं योगमास्थाय ततो मुच्येत बन्धनात् ।। २७८.२५
पितरश्चाभिनन्दन्ति गोसहस्रप्रदं सुतम्।
अपिस्यात्स कुलेऽस्माकं पुत्रो दौहित्र एव वा
गोसहस्रप्रदो भूत्वा नरकादुद्धरिष्यति ।। २७८.२६
तस्य कर्मकरो वा स्यादपि द्रष्टा तथैव च।
संसारसागरादस्माद्योऽस्मान् सन्तारयिष्यति ।। २७८.२७
इति पठति य एतत् गोसहस्रप्रदानं।
सुरभुवनमुपेयात् संस्मरेद्वाथ पश्येत्।
अनुभवति मुदं वा मुच्यमानो निकामं।
प्रहतकलुषदेह सोऽपि यातीन्द्रलोकम् ।। २७८.२८