मत्स्यपुराणम्/अध्यायः १७६
देवासुरसंग्रामवर्णनम्।
मत्स्य उवाच।
एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः।
सन्दिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ।। १७६.१ ।।
गच्छ सोम! सहायत्वं कुरुपाशधरस्य वै।
असुराणां विनाशाय जयार्थञ्च दिवौकसाम् ।। १७६.२ ।।
त्वं मत्तः प्रतिवीर्यश्च ज्योतिषाञ्चेश्वरेश्वरः।
त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः।। १७६.३ ।।
क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले।
परिवर्त्तस्यहोरात्रं कालं जगति योजयन्।। १७६.४ ।।
लोकच्छायामयः लक्ष्म तवाङ्कः शशसन्निभः।
न विदुः सोमदेवापि ये च नक्षत्रयोनयः ।। १७६.५ ।।
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः।
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत् ।। १७६.६ ।।
अधिकृत्कालयोगात्मा इष्टो यज्ञस्य सोऽव्ययः।
औषधीशः क्रियायोनिरब्जयोनिरनुष्णभाः ।। १७६.७ ।।
शीतांशुरमृताधार श्चपलः श्वेतवाहनः।
त्वं कान्तिः कान्तिवपुषा त्वं सोमः सोमपायिनाम् ।। १७६.८ ।।
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्।
तद्गच्छत्वं महासेन! वरुणेन वरूथिना
शमयत्वासुरीं मायां यया दह्याम संयुगे ।। १७६.९ ।।
सोम उवाच।
यन्मां वदसि युद्धार्थे देवराज! वरप्रद!।
एवं वर्षामि शिशिरन्दैत्यमायापकर्षणम् ।। १७६.१० ।।
एतान् मच्छीतनिर्दग्धान् पश्य स्वहिमवेष्टितान्।
विमायान् विमदांश्चैव दैत्यसिंहान्महाहवे ।। १७६.११ ।।
तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः।
वेष्टयन्तिस्म तान् घोरान्दैत्यान् मेघगणा इव ।। १७६.१२ ।।
तौ पाशशीतांशुधरौ वरुणेन्दू महाबलौ।
जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान् ।। १७६.१३ ।।
द्वावम्बुनाथौ समरे तौ पाश हिमयोधिनौ।
मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ।। १७६.१४ ।।
ताभ्यामाप्लावितं सैन्यं तद्दानवमदृश्यत।
शमयामासतुर्मायां देवौ दैत्येन्द्र निर्मिताम् ।। १७६.१५ ।।
शीतांशुजालनिर्दग्धाः पाशैश्च स्पन्दिता रणे।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ।। १७६.१६ ।।
शीतांशु निहतास्ते तु दैत्यास्तोय हिमार्दिताः।
हिमाप्लावित सर्वाङ्गा निरूष्माण इवाग्नयः ।। १७६.१७ ।।
तेषान्तु दिवि दैत्यानां विपरीत प्रभाणि वै।
विमाननि विचित्राणि प्रपतन्त्युत्पतन्ति च ।। १७६.१८ ।।
तान् पाशहस्तग्रथितां श्छादितां श्छीतरश्मिभिः।
मयो ददर्श मायावी दानवान्दिवि दानवः ।। १७६.१९ ।।
स शिलाजालविततां खङ्गचर्माट्ट हासिनीम्।
पादपोत्कटकूटाग्रां कन्दराकीर्ण काननाम् ।। १७६.२० ।।
स शिलाजालविततां खङ्गचर्माट्टहासिनीम्।
पादपोत्कटकूटाग्रां कन्दराकीर्ण काननाम् ।। १७६.२१ ।।
सिंहव्याघ्रगणाकीर्णां नदद्भिर्गज यूथपैः।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ।। १७६.२२ ।।
निर्मितां स्वेन यत्नेन कूजितां दिवि कामगाम्।
प्रथितां पार्वतीमायामसृजत्ससमन्ततः ।। १७६.२३ ।।
सासिशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः।
जघान देवसङ्घांश्च दानवांश्चाप्यजीवयत् ।। १७६.२४ ।।
नैशाकरी वारुणी च मायेऽन्तर्दधतुस्ततः।
असिभिश्चायसगणै किरन् देवगणान् रणे ।। १७६.२५ ।।
शाश्मयन्त्रायुध घना द्रुमपर्वतसङ्कटा।
अभवत् घोरसञ्चार्या पृथिवी पर्वतैरिव ।। १७६.२६ ।।
अश्मना प्रहताः केचित् शिलाभिः शकलीकृताः।
नानिरुद्धो द्रुमगणै देवोऽदृश्यत कश्चन ।। १७६.२७ ।।
तदपध्वस्त धनुषं भग्न प्रहरणाविलम्।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ।। १७६.२८ ।।
स हि युद्धगतः श्रीमानीशानोऽश्म व्यकम्पत।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ।। १७६.२९ ।।
कालज्ञः कालमेघाभः समीक्षत् कालमाहवे।
देवासुरविमर्दन्तु द्रष्टुकामस्तदा हरिः ।। १७६.३० ।।
ततो भगवता दृष्टौ रणे पावकमारूतौ।
चोदितौ विष्णुवाक्येन तौ मायामपकर्षताम् ।। १७६.३१ ।।
ताभ्यामुद्भ्रान्त वेगाभ्यां प्रवृद्धाभ्यां महाहवे।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह ।। १७६.३२ ।।
सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः।
दैत्यसेनां ददहतुर्युगान्तेष्विवमूर्च्छितौ ।। १७६.३३ ।।
वायुः प्रधावितस्तत्र पश्चादग्निस्तु मारुतम्।
चेरतुर्दानवानीके क्रीडन्तावनिलानलौ।। १७६.३४ ।।
भस्मावयवभूतेषु प्रपतत्सूत्पतत्सु च।
दानवानां विमानेषु निपतत्सु समन्ततः ।। १७६.३५ ।।
वातस्कन्धापविद्धेषु कृतकर्म्मणि पावके।
मया वधे निवृत्ते तु स्तूयमाने गदाधरे ।। १७६.३६ ।।
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने।
संप्रहृष्टेषु देवेषु साधु साध्विति सर्वशः ।। १७६.३७ ।।
जये दशशताक्षस्य दैत्यानाञ्च पराजये।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्म्मविस्तरे ।। १७६.३८ ।।
अपावृते चन्द्रमसि स्वस्थानस्थे दिवाकरे।
प्रकृतिस्थेषु लोकेषु त्रिषु चारित्रबन्धुषु।। १७६.३९ ।।
यजमानेषु भूतेषु प्रशान्तेषु च पाप्मसु।
अभिन्नबन्धेन मृत्यौ हूयमाने हुताशने ।। १७६.४० ।।
यज्ञशोभिषु देवेषु स्वर्गार्थं दर्शयत्सु च।
लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ।। १७६.४१ ।।
भावे तपसि सिद्धानामभावे पापकर्म्मणाम्।
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ।। १७६.४२ ।।
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे।
अपावृत्ते महाद्वारे वर्त्तमाने च सत्पथे ।। १७६.४३ ।।
लोके प्रवृत्ते धर्मेषु सुधर्मेष्वाश्रमेषु च।
प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ।। १७६.४४ ।।
प्रशान्तकल्मषे लोके शान्ते तमसि दानवे।
अग्निमारुतयोस्तत्र वृत्ते संग्राम कर्म्मणि ।। १७६.४५ ।।
तन्मया विपुला लोकास्ताभ्यां तज्जय कृत्क्रिया।
पूर्वदेवभयं श्रुत्वा मारुताग्नि कृतं महत् ।। १७६.४६ ।।
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत।
भास्कराकारमुकुटः शिञ्जिता भरणाङ्गदः ।। १७६.४७ ।।
बाहुभिस्तुलयन् व्योम क्षिपन् पद्भ्यां महीधरान्।
ईरयन्मुखनिश्वासैर्वृष्टियुक्तान् बलाहकान् ।। १७६.४८ ।।
तिर्यगायतरक्ताक्षं मन्दरोदग्र वर्चसम्।
दिधक्षन्तमिवायान्तं सर्वान् देवगणान् मृधे ।। १७६.४९ ।।
तर्जयन्तं सुरगणां श्छादयन्तं दिशो दश।
संवर्तकाले तृषितं दृष्टं मृत्युमिवोत्थितम् ।। १७६.५० ।।
सुतलेनोच्छ्रयवता विपुलाङ्गुलि पर्वणा।
लम्बाभरणपूर्णेन किञ्चिच्चलित कर्म्मणा ।। १७६.५१ ।।
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता।
दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् ।। १७६.५२ ।।
तं कालनेमिं समरे द्विषतां कालचेष्टितम्।
वीक्षन्ते स्म सुराः सर्वे भयवित्रस्तलोचनाः ।। १७६.५३ ।।
तं वीक्षन्तिस्म भूतानि क्रमन्तं कालनेमिनम्।
त्रिविक्रमाधिकमतं नारायणमिवापरम् ।। १७६.५४ ।।
सोऽत्युच्छ्रयपुरः पादमारुता घूर्णिताम्बरः।
प्रक्रामन्नसुरो युद्धे त्रासयामास देवताः ।। १७६.५५ ।।
समयेनासुरेन्द्रेण परिष्वक्तस्ततो रणे।
कालनेमिर्बभौ दैत्यः स विष्णुरिव मन्दरः ।। १७६.५६ ।।
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमा।
कालनेमिं समायान्तं दृष्ट्वा कालमिवापरम्।। १७६.५७ ।।