मत्स्यपुराणम्/अध्यायः २२१
दैवे पुरुषकारे च किं ज्याय्य इति मनुप्रश्ने मत्स्योत्तरम्।
मनुरुवाच।
दैवे पुरुषकारे च किं ज्यायस्तद् ब्रवीहि मे।
अत्र मे संशयो देव! च्छेतुमर्हस्य शेषतः ।। २२१.१ ।।
मत्स्य उवाच।
त्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम्।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ।। २२१.२ ।।
प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते।
मङ्गलाचार युक्तानां नित्यमुत्थान शालिनाम् ।। २२१.३ ।।
येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम!।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ।। २२१.४ ।।
कर्मणा प्राप्यते लोके राजसस्य तथा फलम्।
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ।। २२१.५ ।।
पौरुषेणाप्यते राजन्! प्रार्थितव्यं फलं नरैः।
दैवमेव विजानन्ति नराः पौरुषवर्जिताः ।। २२१.६ ।।
तस्मात्त्रिकालं संयुक्तं दैवन्तु सफलं भवेत्।
पौरुषं दैवसम्पत्त्या काले फलति पार्थिव!। २२१.७ ।।
दैवं पुरुषकारश्च कालश्च पुरुषोत्तम!।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ।। २२१.८ ।।
कृष्टि वृष्टि समा योगा दृश्यन्ते फलसिद्धयः।
तास्तु काले प्रदृश्यन्ते नैव काले कथञ्चन ।। २२१.९ ।।
तस्मात्सदैव कर्तव्यं सधर्मं पौरुषं नरैः।
विपत्तावपि यस्येह परलोके ध्रुवं फलम् ।। २२१.१० ।।
नालसाः प्राप्नुवन्त्यर्थान् न च दैवपरायणाः।
तस्मात्सर्वप्रयत्नेन आचरेद्धर्ममुत्तमम् ।। २२१.११ ।।
त्यक्त्वाऽलसान् दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः।
अन्विष्य यत्नाद् वृणुयान्नृपेन्द्र! तस्मात्सदोत्थानवता हि भाव्यम् ।। २२१.१२ ।।