मत्स्यपुराणम्/अध्यायः २५३
गृहनिर्माणकालवर्णनम्।
सूत उवाच।
अथातः सम्प्रवक्ष्यामि गृहकालविनिर्णयम्।
यथा कालं शुभं ज्ञात्वा सदा भवनमारभेत् ।। २५३.१
चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः।
वैशाखे धेनुरत्नानि ज्यैष्ठे मृत्युं तथैव च ।। २५३.२
आषाढे भृत्यरत्नानि पशुवर्गमवाप्नुयात्।
श्रावणे भृत्यलाभन्तु हानिं भाद्रपदे तथा।। २५३.३
पत्नीनाशोऽशिवने विन्द्यात्कार्तिके धनधान्यकम्।
मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ।। २५३.४
लाभञ्च बहुशो विन्द्यात् अग्निं माघे विनिर्दिशेत्।
फाल्गुने काञ्चनं पुत्रानिति कालबलं स्मृतम् ।। २५३.५
अश्विनी रोहिणीमूलं उत्तरात्रयमैन्दवम्।
स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ।। २५३.६
आदित्यभौमवर्ज्यास्तु सर्वे वाराः शुभावाहाः।
वर्ज्यं व्याघात शूले च व्यतीपातातिगण्डयोः ।। २५३.७
विष्कम्भगण्डपरिघ वज्रयोगेषु कारयेत्।
श्वेते मैत्रेऽथ माहेन्द्रे गान्धर्वाभिजिति रौहिणे ।। २५३.८
तथा वैराजसावित्रे मुहूर्ते गृहमारभेत्।
चन्द्रादित्यबलं लब्ध्वा शुभलग्नं निरीक्षयेत् ।। २५३.९
स्तम्भोच्छ्रयादिकर्तव्यमन्यत्तु परिवर्जयेत्।
प्रासादेष्वेवमेवं स्यात् कूपवापीषु चैव हि ।। २५३.१०
पूर्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत्।
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः। २५३.११
विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम्।
विप्राणां मधुरा स्वादा कटुका क्षत्रियस्य तु ।। २५३.१२
तिक्ता कषाया च तथा वैश्यशूद्रेषु शस्यते।
अरत्निमात्रेवैगर्ते स्वनुलिप्ते च सर्वशः ।। २५३.१३
घृतमामशरावस्थं कृत्वा वर्तिचतुष्टयम्।
ज्वालयेद् भूपरीक्षार्थं तत्पूर्णं सर्वदिङ्मुखम् ।। २५३.१४
दीप्तौ पूर्वादि गृह्णीयाद् वर्णानामनुपूर्वशः।
वास्तुः सामूहिको नाम दीप्यते सर्वतस्तु यः ।। २५३.१५
शुभदः सर्ववर्णानां प्रासादेषु गृहेषु च।
अरत्निमात्रमधोगर्ते परीक्ष्यं खातपूरणे ।। २५३.१६
अधिके श्रियमाप्नोति न्यूने हानिं समे समम्।
फालकृष्टेऽथवादेशे सर्वबीजानि वापयेत् ।। २५३.१७
त्रिपञ्चसप्तरात्रे च यत्रारोहन्ति तान्यपि।
ज्येष्टोत्तमा कनिष्ठा भूर्वर्जनीयतरा सदा ।। २५३.१८
पञ्चगव्यौषधिजलैः परीक्षित्वा च सेचयेत्।
एकाशीति पदं कृत्वा रेखाभिः कनकेन च ।। २५३.१९
पश्चात्पिष्टेनवालिप्य सूत्रेणालोड्य सर्वतः।
दशपूर्वायतालेखा दशचैवोत्तरायताः ।। २५३.२०
सर्ववास्तु विभागेषु विज्ञेया नवका नव।
एकाशीति पदं कृत्वा वास्तुवित्सर्ववास्तुषु ।। २५३.२१
पदस्थान् पूजयेद्देवां स्त्रिंशत्पञ्चदशैव तु।
द्वात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदशः ।। २५३.२२
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत।
ईशानकोणादिषु तान् पूजयेद्धविषा नरः ।। २५३.२३
शिखीचैवाथपर्जन्यो जयन्तः कुलिशायुधः।
सूर्य्यसत्यौ भृशश्चैव आकाशो वायुरेव च।। २५३.२४
पूषा च वितथश्चैव गृहक्षतयमावुभौ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।। २५३.२५
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः।
असुरः सोषपाणौ च रोगो हिर्मुख्य एव च ।। २५३.२६
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा।
बहिर्द्वार्त्रिंशदेते तु तदन्तस्तु ततः श्रुणु ।। २५३.२७
ईशानादि चतुष्कोण संस्थितान् पूजयेद् बुधः।
आपश्चैवाथ सावित्रो जयोरुद्रस्तथैव च ।। २५३.२८
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान्।
साध्यानेकान्तरान् विद्यात्पूर्वाद्यान्नामतः श्रुणु ।। २५३.२९
अर्य्यमासविता चैव विवस्वान् विबुधाधिपः।
मित्रोऽथराजयक्ष्मा च तथा पृथ्वीधरः स्मृतः ।। २५३.३०
अष्टमश्चापवत्सस्तु परितो ब्रह्मणः स्मृतः।
आपश्चैवापवत्सश्च पर्ज्जन्योऽग्निर्दितिस्तथा ।। २५३.३१
पदिकानान्तु वर्गोऽयमेवं कोणेष्वशेषतः।
तन्मध्ये तु बहिर्विंश द्विपदास्ते तु सर्वशः ।। २५३.३२
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वशः ।। २५३.३३
वंशानिदानीं वक्ष्यामि ऋजूनपि पृथक् पृथक्।
वायुं यावत्तथा रोगात् पितृभ्यः शिखिनं पुनः ।। २५३.३४
मुख्यात्भृशं तथा शोषाद्वितथं यावदेव तु।
सुग्रीवाददितिं यावन् मृगात्पर्जन्यमेव च ।। २५३.३५
एते वंशाः समाख्याताः कविञ्च जयमेव तु।
एतेषां यस्तुसम्पातः पदं मध्यं समं तथा ।। २५३.३६
मर्मचैतत्समाख्यातं त्रिशूलं कोपगञ्च यत्।
स्तम्भं न्यासेषु वर्ज्यानि तुला विधिषु सर्वदा ।। २५३.३७
कीलोच्छिष्टोपघातादि वर्जयेद् यत्नतो जनः।
सर्वत्र वास्तुर्निर्दिष्टो पितृवैश्वानरायतः ।। २५३.३८
मूर्द्धन्यग्निः समादिष्टो मुखे चापः समाश्रितः।
पृथ्वी धरोऽर्यमा चैव स्तनयो स्तावधिष्ठितौ ।। २५३.३९
वक्षस्थले चापवत्सः पूजनीयः सदा बुधैः।
नेत्रयोदितिपर्जन्यौ श्रोत्रेऽदितिजयन्तकौ ।। २५३.४०
सर्पेन्द्रावंससंस्थौ तु पूजनीयौ प्रयत्नतः।
सूर्यसोमादयस्तद्वत् बाह्वोः पञ्च च पञ्च च ।। २५३.४१
रुद्रश्च राजयक्ष्मा च वामहस्ते समास्थितौ।
सावित्रः सविता तद्वद्धस्तं दक्षिणमास्थितौ ।। २५३.४२
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ।
पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ।। २५३.४३
तथैवासुरशेषौ च वामपार्श्वं समाश्रितौ।
पार्श्वेतु दक्षिणे तद्वत् वितथः सगृहक्षतः ।। २५३.४४
ऊर्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकौ।
जङ्घयोर्भृगुसुग्रीवौ स्फिक्स्थौ दौवारिकौ मृगः ।। २५३.४५
जयशक्रौ तथा मेढ्रे पादयोः पितरस्तथा।
मध्ये नव पदे ब्रह्मा हृदये स तु पूज्यते ।। २५३.४६
चतुःषष्टि पदो वास्तुः प्रासादे ब्रह्मणा स्मृतः।
ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्धपदास्तथा ।। २५३.४७
बहिः कोणेषु वास्तौ तु सार्धाश्चोभयसंस्थिताः।
विंशति द्विपदाश्चैव चतुःषष्टि पदे स्मृताः ।। २५३.४८
गृहारम्भेषु कण्डूतिः स्वाम्यङ्गे यत्र जायते।
शल्यं त्वपनयेत्तत्र प्रासादे भवने तथा ।। २५३.४९
सशल्यं भयदं यस्मादशल्यं शुभदायकम्।
हीनाधिकां गतावास्तो सर्वथातु विवर्जयेत् ।। २५३.५०
नगरग्रामदेशेषु सर्वत्रैवं विवर्जयेत्।
चतुः शालं त्रिशाल़ञ्च द्विशालं चैकशालकम् ।
नामतस्तान् प्रवक्ष्यामि स्वरूपेण द्विजोत्तमाः ।। २५३.५१