मत्स्यपुराणम्/अध्यायः ७६
फलसप्तमीव्रतकथनम्।
ईश्वर उवाच।
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्।
यामुपोष्य नरः पापाद्विमुक्तः स्वर्गभाग्भवेत्।। ७६.१ ।।
मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः।
तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम्।
शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने।
रविं कांञ्चनकं कृत्वा पलस्यैकस्य धर्म्मवित्।।
दद्यात् द्विकालवेलायां भानुर्मे प्रीयतामिति।। ७६.३ ।।
भक्त्या तु विप्रान् संपूज्य चाष्टम्यां क्षीरभोजनम्।
दत्त्वा कुर्यात् फलयुतं यावत् स्यात् कृष्णसप्तमी।। ६.४ ।।
तामप्युपोष्य विधिवदनेनैव क्रमेण तु।
तद्वद् हेमफलं दत्त्वा सुवर्णकमलान्वितम्।। ७६.५ ।।
शर्करा पात्रसंयुक्तं वस्त्रमाल्यसमन्वितम्।
सम्वत्सरञ्च तेनैव विधिनोभयसप्तमीम्।। ७६.६ ।।
उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत्।
भानुरर्कोरविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः।।
श्रीमान् विभावसुस्त्वष्टा वरुणः प्रीयतामिति।। ७६.७ ।।
प्रतिमासञ्च सप्तम्यामेकैकं नाम कीर्त्तयेत्।
प्रतिपक्षं फलत्यागमेतत् कुर्वन् समाचरेत्।। ७६.८ ।।
व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः।
शर्कराकलशं दद्याद् हेमपद्मदलान्वितम्।। ७६.९ ।।
यथा न विफला कामास्त्वद्भक्तानां सदा रवे।
तथाऽनन्तफलावाप्तिरस्तु मे सप्तजन्मसु।। ७६.१० ।।
इमामनन्तफलदां यः कुर्य्यात् फलसप्तमीम्।
सर्वपापविशुद्धात्मा सूर्य्यलोके महीयते।। ७६.११ ।।
सुरापानादिकं किञ्चिद् यदत्रामुत्र वा कृतम्।
तत्सर्वं नाशमायाति यः कुर्य्यात् फलसप्तमीम्।। ७६.१२ ।।
कुर्वाणः सप्तमीञ्चैमां सततं रोगवर्जितः।
भूतान् भव्यांश्च पुरुषांस्तारयेदेकविंशतिम्।।
यः श्रृणोति पठेद्वापि सोऽपि कल्याणभाग्भवेत्।। ७६.१३ ।।