मत्स्यपुराणम्/अध्यायः १०९
मार्कण्डेय उवाच।
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे।
तीर्थानान्तु सहस्राणि शतानि नियुतानि च।।
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता।। १०९.१ ।।
सोमतीर्थं महापुण्यं महापातकनाशनम्।
स्नानमात्रेण राजेन्द्र! पुरुषांस्तारयेच्छतान्।।
तस्मात् सर्वप्रयत्नेन तत्र स्नानं समाचरेत्।। १०२.२ ।।
युधिष्ठिर उवाच।
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम्।
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते।। १०९.३ ।।
सर्वाणि तानि सन्त्यज्य कथमेकं प्रशंससि।
अप्रमाणन्तु तत्रोक्तमश्रद्धेयमनुत्तमम्।। १०९.४ ।।
गतिञ्च परमां दिव्यां भोगांश्चैव यथेप्सितान्।
किमर्थमल्पयोगेन बहु धर्मं प्रशंससि।।
एतन्मे संशयं ब्रूहि यथाद्रृष्टं यथाश्रुतम्।। १०९.५ ।।
मार्कण्डेय उवाच।
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद् भवेत्।
नरस्याश्रद्दधानस्य पापोपहतचेतसः।। १०९.६ ।।
अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः।
एते पातकिनः सर्वे तेनेदं भाषितं त्वया।। १०९.७ ।।
श्रृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम्।
प्रत्यक्षञ्च परोक्षञ्च यथान्यस्तं भविष्यति।। १०९.८ ।।
यथैवान्यदद्रृष्टञ्च यथाद्रृष्टं यथाश्रुतम्।
शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः।। १०९.९ ।।
क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात्।
जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः।। १०९.१० ।।
यथा योगसहस्रेण योगो लभ्येत मानवैः।
यस्तुसर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति।। १०९.११ ।।
तेन दानेन दत्तेन योगं नाभ्येति मानवः।
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा।। १०९.१२ ।।
प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत!
यथा सर्वेषु भूतेषु ब्राह्म सर्वत्र दृश्यते।। १०९.१३ ।।
ब्रह्मणे वास्ति यत् किञ्चिदब्राह्ममिति वोच्यते।
एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते।। १०९.१४ ।।
यथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः।
पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर!।। १०९.१५ ।।
ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम्।
तीर्थराजमनुप्राप्य न चान्यत् किञ्चिदर्हति।। १०९.१६ ।।
कोहि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति।
अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर।
यथा पुण्यतमं चास्ति तथैव कथितं मया।। १०९.१७ ।।
युधिष्ठिर उवाच।
श्रुतं चेदं त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः।
कथं योगेन तत् प्राप्तिः स्वर्गवासस्तु कर्मणा।। १०९.१८ ।।
दाता वै लभते भोगान् गां च यत्कर्मणः फलम्।
तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही।। १०९.१९ ।।
मार्कण्डेय उवाच।
श्रृणु राजन्महाबाहो! यथोक्तकरणं महीम्।
गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः ।। १०९.२० ।।
मातरं पितरञ्चैव ये निन्दन्ति नराधमाः।
न तेषामूद्र्ध्वगमनमिदमाह प्रजापतिः।। १०९.२१ ।।
एवं योगस्य सम्प्राप्तिस्थानं परमदुर्लभम्।
गच्छन्ति नरकं घोरं ये नराः पापकर्मिण।। १०९.२२ ।।
हस्त्यश्वङ्गामनड्वाहं मणिमुक्तादि काञ्चनम्।
परोक्षं हरते यस्तु यश्च दानं प्रयच्छति।। १०९.२३ ।।
न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः।
अनेककर्मणा युक्ताः पच्यन्ते नरके पुनः।। १०९.२४ ।।
एवं योगञ्चधर्मञ्च दातारञ्च युधिष्ठिर!।
यथा सत्यमसत्यं वा अस्ति नास्तीति यत् फलम्।
निरुक्तन्तु प्रवक्ष्यामि यथाह स्वयमंशुमान्।। १०९.२५ ।।