मत्स्यपुराणम्/अध्यायः ६७
चन्द्रादित्योपरागे स्नानविधिकथनम्।
मनुरुवाच।
चन्द्रादित्योपरागे तु यत् स्नानमभिधीयते।
तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित्।। ६७.१ ।।
मत्स्य उवाच।
यस्य राशिं समासाद्य भवेद् ग्रहणसंप्लवः।
तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः।। ६७.२ ।।
चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम्।
संपूज्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः।। ६७.३ ।।
पूर्वमेवोपरागस्य समासाद्यौषधादिकम्।
स्थापयेच्चतुरः कुम्भानव्रणान् सागरानिति।। ६७.४ ।।
गजाश्वरथ्यावल्मीकसङ्गमाद्ध्रदगोकुलात्।
राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत्।। ६७.५ ।।
पञ्चगव्यञ्च कुम्भेषु शुद्धमुक्ताफलानि च।
रोचनां पद्मशङ्कौ च पञ्चरत्नसमन्वितम्।। ६७.६ ।।
स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम्।
राजदन्तं सकुमुदं तथैवोशारगुग्गुलम्।
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत् सुरान्।। ६७.७ ।।
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः
आयान्तु यजमानस्य दुरितक्षयकारकाः।। ६७.८ ।।
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः।
सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु।। ६७.९ ।।
मुखं यः सर्वदेवानां सप्तार्विरमितद्युतिः।
चन्द्रोपरागसम्भूतां अग्निः पीडां व्यपोहतु।। ६७.१० ।।
यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः।
यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु।। ६७.११ ।।
नागपाशधरो देवः साक्षान्मकरवाहनः।
स जलाधिपतिश्चन्द्रग्रह पीडां व्यपोहतु।। ६७.१२ ।।
प्राणरूपेण यो लोकान् पाति कृष्ण मृगप्रियः।
वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु।। ६७.१३ ।।
योऽसौ निधिपतिर्देवः खङ्गशूलगदाधरः।
चन्द्रोपरागकलुषं धनदो मे व्यपोहतु।। ६७.१४ ।।
योऽसौ विन्दुधरो देवः पिनाकी वृषवाहनः।
चन्द्रोपरागजां पीडा विनाशयतु शङ्करः।। ६७.१५ ।।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च।
ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै।। ६७.१६ ।।
एवमामन्त्र्यतैः कुम्भैरभिषिक्तो गुणान्वितैः।
ऋग्यजुः साममन्त्रैश्च शुक्लमाल्यानुलेपनैः।
पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः।। ६७.१७ ।।
एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान्।
वस्त्र पट्टेऽथ वा पद्मे पञ्चरत्नसमन्वितान्।। ६७.१८ ।।
यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः।
ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम्।। ६७.१९ ।।
प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम्।
चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः।
कृतस्नानायतं पट्टं ब्राह्मणाय निवेदयेत्।। ६७.२० ।।
अनेन विधिना यस्तु ग्रहस्नानं समाचरेत्।
न तस्य ग्रहपीडा स्यान्नच बंधुजनक्षयः।। ६७.२१ ।।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्।
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत्।। ६७.२२ ।।
अधिकाः पद्मरागाः स्युः कपिलाञ्च सुशोभनाम्।
प्रयच्छेच्च निशाम्पत्ये चन्द्रसूर्योपरागयोः।। ६७.२३ ।।
य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः।
सर्वपापविनिर्मुक्तो शक्रलोके महीयते।। ६७.२४ ।।