मत्स्यपुराणम्/अध्यायः २२६
राजधर्मवर्णने राज्ञो देवसाम्यत्ववर्णनम्।
मत्स्य उवाच।
दण्डप्रणयनार्थाय राजा सृष्टः स्वयम्भुवा।
देवभागानुपादाय सर्वभूतादि गुप्तये ।। २२६.१ ।।
तेजसा यदमुं कश्चिन्नैव शक्नोति वीक्षितुम्।
ततो भवति लोकेषु राजा भास्करवत्प्रभुः ।। २२६.२ ।।
यदास्य दर्शने लोकः प्रसादमुपगच्चति।
नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ।। २२६.३ ।।
यथा यमः प्रियद्वेष्ये प्राप्ते काले प्रयच्छति।
तथा राज्ञा विधातव्याः प्रजास्तद्वि यमव्रतम् ।। २२६.४ ।।
वरुणेन यथा पाशैर्बद्ध एव प्रदृश्यते।
तथा पापान्निगृह्णीयाद् व्रतमेतद्वि वारुणम् ।। २२६.५ ।।
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यति मानवः।
तथा प्रकृतयो यस्मिन् स चन्द्रप्रतिमो नृपः ।। २२६.६ ।।
प्रतापयुक्तस्तेजस्वी नित्यं स्यात् सर्वकर्मसु।
दुष्टसामन्त हिंस्रेषु राजाग्नेयव्रते स्थितः ।। २२६.७ ।।
यथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्।
इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ।। २२६.८ ।।
चन्द्रस्याग्नेः पृथिव्याश्च तेजो व्रतं नृपश्चरेत्।
वार्षिकान् चतुरो मासान् यथेन्द्रोप्यथवर्षति ।। २२६.९ ।।
तथाभिवर्षेत्स्वं राज्यं काममिन्द्रव्रतं स्मृतम्।
अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः ।। २२६.१० ।।
प्रविश्य सर्वभूतानि यथा चरति मारुतः।
तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्।। २२६.११ ।।