मत्स्यपुराणम्/अध्यायः ३५
ययात्युपाख्यानम्।
शौनक उवाच।
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः।। ३५.१ ।।
उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः।
फलमूलाशनोदान्तो यथा स्वर्गमितो गतः।। ३५.२ ।।
स गतः स्वर्गवासन्तु न्यवसन् मुदितः सुखी।
कालस्य नातिमहतः पुनः शक्रेण पातितः।। ३५.३ ।।
विवशः प्रच्युतः स्वर्गादप्राप्तो मेदिनी तलम्।
स्थितश्चासीदन्तरीक्षे स तदेति श्रुतं मया।। ३५.४ ।।
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः।
राज्ञा वसुमता सार्द्धमष्टकेन च वीर्य्यवान्।।
प्रतर्दनेन शिबिना समेत्य किल संसदि।। ३५.५ ।।
शतानीक उवाच।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः।
कथमिन्द्रेण भगवन्! पातितो मेदिनीतले।। ३५.६ ।।
सर्वमेदशेषेण श्रोतुमिच्छामि तत्वतः।
कथ्यमानं त्वया विप्र! देवर्षिगणसन्निधौ।। ३५.७ ।।
देवराजसमोह्यासीद्ययातिः पृथिवीपतिः।
वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः।। ३५.८ ।।
तस्य विस्तीर्ण यशसः सत्यकीर्तेर्महात्मनः।
श्रोतुमिच्छामि देवेश! दिवि चेह च सर्वशः।। ३५.९ ।।
शौनक उवाच।
हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम्।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्।। ३५.१० ।।
ययाति र्नाहुषो राजा पूर्वं पुत्रं कनीयसम्।
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा।। ३५.११ ।।
अन्तेषु स विनिक्षिप्य पुत्रान् यदु पुरोगमान्।
फलमूलाशनो राजा वनेऽसौ न्यवसच्चिरम्।। ३५.१२ ।।
स जितात्मा जितक्रोध स्तर्पयन् पितृदेवताः।
अग्नींश्च विधिवज्जुह्वन् वानप्रस्थ विधानतः।। ३५.१३ ।।
अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः।
शिलोञ्छवृत्तिमास्थाय शेषान्न कृतभोजनः।। ३५.१४ ।।
पूर्णं सहस्रं वर्षाणामेवं वृत्तिरभून्नृपः।
अम्बुभक्षः स चाब्दास्त्रीनासीन्नियतवाङ्मनाः।। ३५.१५ ।।
ततस्तु वायुभक्षोऽभूत्सम्वत्सरमतन्द्रितः।
पञ्चाग्निमध्ये च तपस्तेपे सम्वत्सरं पुनः।। ३५.१६ ।।
एक पादस्थितश्चासीत् षण्मासाननिलाशनः।
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्यरोदसी।। ३५.१७ ।।