मत्स्यपुराणम्/अध्यायः १७०
मधुकैटभाख्यानवर्णनम्।
मत्स्य उवाच।
विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः।
तेनैव च सहोद्भूतो रजसा कैटभस्ततः ।। १७०.१ ।।
तौ रजस्तमसौ विघ्नसम्भूतौ तामसौ गणौ।
एकार्णवे जगत् सर्वं क्षोभयन्तौ महाबलौ ।। १७०.२ ।।
दिव्यरक्ताम्बरधरौ श्वेतदीप्ताग्र-दंष्ट्रिणौ।
किरीटकुण्डलोदग्रौ केयूरबलयोज्वलौ ।। १७०.३ ।।
महाविक्रमताम्राक्षौ पीनोरस्कौ महाभुजौ।
महागिरेः संहननौ जङ्गमाविव पर्वतौ।। १७०.४ ।।
नगमेघप्रतीकासावादित्य सदृशाननौ।
विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ ।। १७०.५ ।।
तौ पादयोस्तु विन्यासादुत्क्षिपन्ताविवार्णवम्।
कम्पयन्ताविव हरिं शयानं मधुसूदनम् ।। १७०.६ ।।
तौ तत्र विचरन्तौ स्म पुष्करै विश्वतोमुखम्।
योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा ।। १७०.७ ।।
नारायण समाज्ञातं सृजन्तमखिलाः प्रजाः।
दैवतानि च विश्वानि मानसानसुरानृषीन् ।। १७०.८ ।।
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ।
दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणी ।। १७०.९ ।।
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः।
आधाय नियमं मोहादास्ते त्वं विगतज्वरः ।। १७०.१० ।।
एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव!।
आवाभ्यां परमीशाभ्यामशक्तस्त्वमिहार्णवे ।। १७०.११ ।।
तत्र कश्चोद्भवस्तुभ्यं केन वासि नियोजितः।
कः स्रष्टा कश्चते गोप्ता केन नाम्ना विधीयसे ।। १७०.१२ ।।
ब्रह्मोवाच।
एक इत्युच्यते लोकैरविचिन्त्यः सहस्रदृक्।
तत्संयोगेन भवतोः कर्म नामावगच्छताम् ।। १७०.१३ ।।
मधुकैटभावूचतुः।
नावयोः परमं लोके किञ्चिदस्ति महामते!।
आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै ।। १७०.१४ ।।
रजस्तमो मयावावामृषीणामवलम्बितौ।
छाद्यमानो धर्म्मशीलौ दुस्तरौ सर्वदेहिनाम् ।। १७०.१५ ।।
आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे।
आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः ।। १७०.१६ ।।
सुखं यत्रमुदा युक्तं यत्र श्रीः कीर्तिरेव च।
येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ।। १७०.१७ ।।
ब्रह्मोवाच।
यत्नाद्योगवतो दृष्ट्या योगः पूर्वं मयार्जितः।
तं समाधाय गुणवत् सत्वं चास्मि समाश्रितः ।। १७०.१८ ।।
यः परो योगमतिमान्योगाख्यः सत्वमेव च।
रजसस्तमसश्चैव यः स्रष्टा विश्वसम्भवः ।। १७०.१९ ।।
ततो भूतानि जायन्ते सात्विकानीतराणि च।
स एव हि युवा नाशे वशी देवो हनिष्यति ।। १७०.२० ।।
स्वपन्नेव ततः श्रीमान् बहुयोजन विस्तृतम्।
बाहुं नारायणो ब्रह्म कृतवानात्ममायया ।। १७०.२१ ।।
कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः।
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ ।। १७०.२२ ।।
ततस्तावाहतुर्गत्वा तदा देवं सनातनम्।
पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ।। १७०.२३ ।।
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्।
त्वामावां पाहि हेत्वर्थमिदं नौ बुद्धिकारणम् ।। १७०.२४ ।।
अमोघदर्शनः सत्वं यतस्त्वां विद्धि शाश्वतम्।
ततस्त्वामागतावावामभितः प्रसमीक्षितुम् ।। १७०.२५ ।।
तदिच्छामो वरं देव! त्वत्तोऽद्भुतमरिन्दम!।
अमोघदर्शनोऽसित्वं नमस्ते समितिञ्जय!।। १७०.२६ ।।
श्रीभगवानुवाच।
किमर्थमद्भुतं ब्रूथ वरं ह्यसुरसत्तमौ!।
दत्तायुष्कौ पुनर्भूयो रहो जीवितुमिच्छथ ।। १७०.२७ ।।
मधुकैटभावूचतुः।
यस्मिन्न कश्चिन् मृतवान् देव! तस्मिन् प्रभो! वधम्।
तमिच्छावो वधं चैव त्वत्तो नोऽस्तु महाव्रत! ।। १७०.२८ ।।
श्रीभगवानुवाच।
बाढं युवान्तु प्रवरौ भविष्यत्कालसम्भवे।
भविष्यतो न सन्देहः सत्यमेतद् ब्रवीमि वाम् ।। १७०.२९ ।।
वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः।
रजस्तमोवर्ग भवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः ।। १७०.३० ।।