मत्स्यपुराणम्/अध्यायः ६१
सप्तलोकाधिपत्यप्राप्तिव्रतकथनम्।
नारद उवाच।
भूलोकोऽथभुवर्लोकः स्वर्लोकोऽथमहर्जनः।
तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः।। ६१.१ ।।
पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्।
इह लोके शुभं रूपमायुः सौभाग्यमेव च।
लक्ष्मीश्च विपुला नाथ! कथं स्यात् पुरसूदन!।। ६१.२ ।।
पुरा हुताशनः सार्द्धं मारुतेन महीतले।
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्।। ६१.३ ।।
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः।
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः।
विरोचनश्च संग्रामादपलायं स्तपोधन!।। ६१.४ ।।
अम्भः सामुद्रमाविश्य सन्निवेशमकुर्वत।
अशक्या इति तेऽप्यग्नि मारुताभ्यामुपेक्षिताः।। ६१.५ ।।
ततः प्रभृति ते देवान् मनुष्यान् सह जङ्गमान्।
संपीड्य च मुनीन् प्रविशन्ति पुनर्जलम्।। ६१.६ ।।
एवं वर्षसहस्राणि वीराः पञ्च स सप्त च।
जलदुर्गबलाद् ब्रह्मन्! पीडयन्ति जगत्त्रयम्।। ६१.७ ।।
ततः परमथो वह्नि मारुतावमराधिपः।
आदिदेश चिरादम्बु निधिरेष विशोष्यताम्।। ६१.८ ।।
यस्मादस्माद् द्विषामेष शरणं वरुणालयः।
तस्माद् भवद्भ्यामद्यैव क्षयमेष प्रणीयताम्।। ६१.९ ।।
तावूचतुस्ततः शक्रमुभौ शम्बरसूदनम्।
अधर्म्म एष देवेन्द्र! सागरस्य विनाशनम्।। ६१.१० ।।
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्।
तस्मान्न पापमद्यावाङ्करवावः पुरन्दर!।। ६१.११ ।।
अस्य योजनमात्रेऽपि जीवकोटिशतानि च।
निवसन्ति सुरश्रेष्ठ! सकथं नाशमर्हति।। ६१.१२ ।।
एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः।
उवाचेदं वचो रोषान्निर्दहन्निवपावकम्।। ६१.१३ ।।
न धर्माधर्म्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्।
भवतस्तु विशेषेण माहात्म्यञ्चाधितिष्ठति।। ६१.१४ ।।
मदाज्ञालङ्घनं यस्मान्मारुतेन समन्त्वया।
मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम्।।
धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो!।। ६१.१५ ।।
तस्मादेकेन वपुषा मुनिरूपेण मानुषे।
मारुतेन समं लोके तव जन्म भविष्यति।। ६१.१६ ।।
यदा च मानुषत्वेऽपि त्वयाऽगस्त्येन शोषितः।
भविष्यत्युदधिर्वह्ने! तदा देवत्वमाप्स्यसि।। ६१.१७ ।।
इतीन्द्रशापात् पतितौ तत्क्षणात् तौ महीतले।
अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन!।। ६१.१८ ।।
मित्रावरुणयोर्व्वीर्य्याद्वसिष्ठस्यानुजोऽभवत्।
अगस्त्य इत्युग्रतपाः सम्बभूव पुनर्मुनिः।। ६१.१९ ।।
नारद उवाच।
सम्भूतः सकथं भ्राता वसिष्ठस्याभवन्मुनिः।
कथञ्च मित्रावरुणौ पितरावस्य तौ स्मृतौ।।
जन्मकुम्भादगस्त्यस्य कथं स्यात् पुरसूदन!।। ६१.२० ।।
ईश्वर उवाच।
पुरा पुराणपुरुषः कदाचिद् गन्धमादने।
भूत्वा धर्मसुतो विष्णुश्चचार विपुलन्तपः।। ६१.२१ ।।
तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ।
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ।। ६१.२२ ।।
तदा तद्गीतवाद्येन नाङ्गरागादिना हरिः।
न काममाधवाभ्याञ्च विषयान् प्रतिचुक्षुभे।। ६१.२३ ।।
तदा काममधुस्त्रीणां विषादमगमद् गणः।
संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः।।
नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम्।। ६१.२४ ।।
संक्षुब्धास्तु तया देवास्तौ तु देववरावुभौ।
अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः।। ६१.२५ ।।
अप्सरा इति सामान्या देवानामब्रवीद्धरिः।
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति।। ६१.२६ ।।
ततः कामयमानेन मित्रेणाहूय सोर्वशी।
उक्ता मां रमयस्वेति बाढमित्यब्रवीत्तु सा।। ६१.२७ ।।
गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा।
वरुणेन धृता पश्चात् वरुणां नाभ्यनन्दत ।। ६१.२८ ।।
मित्रेणाहं वृतापूर्वमद्य भार्या न ते विभो!।
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम्।। ६१.२९ ।।
गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा।
तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम्।। ६१.३० ।।
भजस्वेति यतो वेश्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च।
प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ।। ६१.३१ ।।
निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यतः।
तत्रान्तरेऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः।। ६१.३२ ।।
तस्य पूजामकुर्वन्तं शशाप समुनिर्नृपम्।
विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः।। ६१.३३ ।।
अन्योन्यशापाच्च तयो र्विगते इव चेतसी।
जग्मतुः शापमानाय ब्रह्माणं जगतः पतिम्।। ६१.६.३४ ।।
अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः।
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद!।। ६१.३५ ।।
वसिष्ठोऽप्यभवत् तस्मिन् जलकुम्भे च पूर्ववत्।
ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः।।
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः।। ६१.३६ ।।
मलयस्यैकदेशे तु वैखानसविधानतः।
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुश्चरम्।। ६१.३७ ।।
ततः कालेन महता तारकादतिपीडितम्।
जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम्।। ६१.३८ ।।
ततोऽस्य वरदाः सर्वे बभूवुः शङ्करादयः।
ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः।
वरं वृणीष्व भद्रन्ते यदभीष्टञ्च वै मुने!।। ६१.३९ ।।
यावद् ब्रह्मसहस्राणां पञ्चविंशतिकोटयः।
वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि।। ६१.४० ।।
मद्विमानोदये कुर्याद्यः कश्चित् पूजनं मम।
स सप्तलोकाधिपतिः पर्यायेण भविष्यति।। ६१.४१ ।।
ईश्वर उवाच।
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्।
तस्मादर्घः प्रदातव्यो ह्यगस्त्यस्य सदा बुधैः।। ६१.४२ ।।
नारद उवाच।
कथमर्घप्रदानन्तु कर्त्तव्यं तस्य वै विभो!।
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे।। ६१.४३ ।।
ईश्वर उवाच।
प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि।
स्नानं शुक्लतिलैस्तद्वत् शुक्लमाल्याम्बरो गृही।। ६१.४४ ।।
ख्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम्।
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम्।। ६१.४५ ।।
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमेवायतबाहुदण्डम्।
चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि।। ६१.४६ ।।
सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्यात् द्विजपुङ्गवाय।
उत्क्षिप्य लम्बोदरदीर्घबाहुमनन्यचेता यमदिङ्मुखः सन्।। ६१.४७ ।।
श्वेताञ्च दद्याद्यदि शक्तिरस्ति रोप्यैः खुरैर्हेममुखीं सवत्साम्।
धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय।। ६१.४८ ।।
आसप्तरात्रोदयमेतदस्य दातव्यमेतत् सकलं नरेण।
यावत् समाः सप्तदशाथ वास्युरथोर्ध्वमप्यत्र वदन्ति केचित्।। ६१.४९ ।।
काशपुष्पप्रतीकाश! अग्निमारुतसम्भव।
मित्रावरुणयोः पुत्र! कुम्भयोने! नमोऽस्तु ते ।
प्रत्यब्दन्तु फलैर्यागमेवं कुर्वन्न सीदति।। ६१.५० ।।
होमं कृत्वा ततः पश्चाद्वर्जयेन्मानवः फलम्।
अनेन विधिनायस्तु पुमानर्घ्यं निवेदयेत्।। ६१.५१ ।।
इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः।
द्वितीयेन भुवर्लोकं स्वर्लोकञ्च ततः परम्।। ६१.५२ ।।
सप्तैव लोकानाप्नोति सप्तार्घ्यान्यः प्रयच्छति।
यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति।। ६१.५३ ।।
इह पठति श्रृणोति वा य एतद्युगलमुनिप्रभवार्घ्यसंप्रदानम्।।
मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूज्यतेऽमरौघैः।। ६१.५४ ।।