मत्स्यपुराणम्/अध्यायः ८०
शुभसप्तमीव्रतकथनम्।
श्रीभगवानुवाच।
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम्।
यामुपोष्य नरो रोगशोकदुःखैः प्रमुच्यते।। ८०.१ ।।
पुण्ये चाश्वयुजेमासिकृतस्नानजपः शुचिः।
वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीम्।। ८०.२ ।।
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः।
नमामि सूर्य्यसम्भूतामशेषभुवनालयाम्।।
त्वामहं शुभकल्याणशरीरां सर्वसिद्धये।। ८०.३ ।।
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम्।
काञ्चनं वृषभं तद्वद्गन्धमाल्यगुड़ान्वितैः।। ८०.४ ।।
फलैर्नानाविधैर्भक्ष्यै र्घृतपायससंयुतैः।
दद्याद्विकालवेलायामर्यमा प्रीयतामिति।। ८०.५ ।।
पञ्चगव्यञ्च संप्राश्य स्वपेद्भूमौ विमत्सरः।
ततः प्रभाते सञ्जाते भक्त्या संपूजयेद्द्विजान्।। ८०.६ ।।
अनेन विधिना दद्यान्मासि मासि यदा नरः।
वाससी वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम्।। ८०.७ ।।
सम्वत्सरान्ते शयनमिक्षुदण्डगुड़ान्वितम्।
सोपधानकविश्रामं भाजनासनसंयुतम्।। ८०.८ ।।
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा।
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति।। ८०.९ ।।
अनेन विधिना विद्वान् कुर्य्याद्यः शुभसप्तमीम्।
तस्य श्रीर्विपुला कीर्तिर्भवेज्जन्मनि जन्मनि।। ८०.१० ।।
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये।
वसेद् गणाधिपो भूत्वा यावदाभूतसंप्लवम्।।
कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत्।। ८०.११ ।।
ब्रह्महत्या सहस्रस्य भ्रूणहत्या शतस्य च।
नाशायालमियं पुण्या पठ्यते शुभसप्तमी।। ८०.१२ ।।
इमां पठेद्यः श्रृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम्।
सोऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्।। ८०.१३ ।।
यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्।
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारे।। ८०.१४ ।।