मत्स्यपुराणम्/अध्यायः १८८
त्रिपुरविनाशार्थं रुद्रस्य बाणपुरे गमनम्।
मार्कण्डेय उवाच।
यन्मां पृच्छसि कौन्तेय! तन्मे कथयतः श्रुणु।
एतस्मिन्नन्तरे रुद्रो नर्मदा तटमाश्रितः ।। १८८.१ ।।
नाम्ना महेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम्।
तस्मिन्स्थाने महादेवो चिन्तयत्त्रिपुरे वधम् ।। १८८.२ ।।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम्।
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ।। १८८.३ ।।
शल्येचाग्निं प्रतिष्ठाप्य मुखे वायुं समर्पयन्।
हयांश्च चतुरो वेदान् सर्वदेवमयं रथम् ।। १८८.४ ।।
अभीषवोऽश्विनौ देवावक्षोवज्रधरः स्वयम्।
स तस्याज्ञां समादाय तोरणे धनदः स्थितः ।। १८८.५ ।।
यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः।
चक्रे त्वमरकोट्यस्तु गन्धर्वा लोक विश्रुताः ।। १८८.६ ।।
प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः।
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ।। १८८.७ ।।
सोऽतिष्ठत् स्थाणुभूतस्तु सहस्र परिवत्सरान्।
यदा त्रीणि समेतानि अन्तरिक्षे स्थितानि वै ।। १८८.८ ।।
त्रिपर्वाणि त्रिशल्येन तदा तानि व्यभेदयत्।
शरः प्रवोदितस्तेन रुद्रेण त्रिपुरं प्रति ।। १८८.९ ।।
भ्रष्टतेजा स्त्रियो जाता बलन्तासां व्यशीर्यत।
उत्पाताश्च पुरे तस्मिन् प्रादुर्भूताः सहस्रशः ।। १८८.१० ।।
त्रिपुरस्य विनाशाय कालरूपा भवंस्तदा।
अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तदा ।। १८८.११ ।।
निमेषोन्मेषणञ्चैव कुर्वन्ते चित्ररूपिणः।
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बर विभूषितम् ।। १८८.१२ ।।
स्वप्ने तु सर्वे पश्यन्ति विपरीतानि यानि तु।
एतान् पश्यन्ति उत्पातास्तत्र स्थाने तु ये जनाः ।। १८८.१३ ।।
तेषां बलञ्च बुद्धिश्च हर कोपेन नाशिते।
ततः सांवर्तको वायुर्युगान्त प्रतिमो महान् ।। १८८.१४ ।।
समीरितोऽनलस्तेन उत्तमाङ्गेन धावति।
ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च।। १८८.१५ ।।
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम्।
भग्नोद्यानानि सर्वाणि क्षिप्रं तत् प्रत्यभज्यत ।। १८८.१६ ।।
तेनैव पीडितं सर्वं ज्वलितं त्रिखिखैः खरैः।
द्रुमाश्चाराम खण्डानि गृहाणि विविधानि च ।। १८८.१७ ।।
दश दिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः।
मनः शिलानां पुञ्जानि दिशो दश विभागशः ।। १८८.१८ ।।
शिखाशतैरनेकैस्तु प्रजज्वाल हुताशनः।
सर्वं किंशुकवर्णाभं ज्वलितं दृश्यते पुरम् ।। १८८.१९ ।।
गृहाद् गृहान्तरं नैव गन्तुं धूमेन शक्यते।
हरकोपानलैर्दग्धं क्रन्दमानं सुदुःखितम् ।। १८८.२० ।।
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम्।
प्रासाद शिखराग्राणि व्यशोर्यन्त सहस्रशः ।। १८८.२१ ।।
नानामणिविचित्राणि विमानान्यप्यनेकधा।
गृहाणि चैव रम्याणि दह्यन्ते दीप्तवह्निना ।। १८८..२२ ।।
धावन्ति द्रुमखण्डेषु वलभीषु तता जनाः।
देवागारेषु सर्वेषु प्रज्वलन्तः प्रधाविताः ।। १८८.२३ ।।
क्रन्दन्ति चानलस्पृष्टा रुदन्ति विविधैः स्वरैः।
दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ।। १८८.२४ ।।
हंसकारण्डवाकीर्णा नलिन्यः सह पङ्कजाः।
दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ।। १८९.२५ ।।
अम्लान-पङ्कजच्छन्ना विस्तीर्णां योजनायताः।
गिरिकूटनिभास्तत्र प्रासादा रत्नभूषिताः ।। १८८..२६ ।।
पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव।
वरस्त्री बालवृद्धेषु गोषु पक्षिषु वाजिषु ।। १८८.२७ ।।
निर्दयो व्यदहद्वह्निर्हरक्रोधेन प्रेरितः।
सहस्रशः प्रबुद्धाश्च सुप्ताश्च बहवो जनाः ।। १८८.२८ ।।
पुत्रमालिङ्ग्य ते गाढं दह्यन्ते त्रिपुराग्निना।
अथ तस्मिन् पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः ।। १८८.२९ ।।
अग्निज्वालाहतास्तत्र ह्यपतन् धरणीतले।
काचिच्छ्यामा विशालाक्षी मुक्तावलिविभूषिता ।। १८८.३० ।।
धूमेनाकुलिता सा तु पतिता धरणीतले।
काचित् कनकवर्णाभा इन्द्रनीलविभूषिता ।। १८८.३१ ।।
भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि।
काचिदादित्यसङ्काशा प्रमुक्ता च गृहे स्थिता ।। १८८..३२ ।।
अग्निज्वालाहता सा तु पतिता गतचेतना।
उत्थितो दानवस्तत्र खड्गहस्तो महाबलः ।। १८८.३३ ।।
वैश्वानरहतः सोऽपि पतितो धरणीतले।
मेघवर्णापरा नारी हारकेयूर भूषिता ।। १८८.३४ ।।
श्वेतरूपधरा नारी बालं स्तन्यं न्यधापयत्।
दह्यन्तं बालकं दृष्ट्वा रुदते मेघशब्दवत् ।। १८८.३५ ।।
एवं स तु दहन्तग्निर्हरक्रोधेन प्रेरितः।
काचिच्चन्द्रप्रभा सौम्या वज्रवैढूर्यभूषिता ।। १८८.३६ ।।
सुतमालिङ्ग्य वेपन्ती दग्धा पतति भूतले।
काचित् कुन्देन्दुवर्णाभा या शयाना गृहे स्थिता ।। १८८.३७ ।।
गृहे प्रज्वलिते सा तु प्रतिबुद्धा सुदुःखिता।
पश्यन्ती ज्वलितं सर्वं स्वसुतो मे दिवङ्गतः ।। १८८.३८ ।।
सुतं सन्दग्धमालिंग्य पतिता धरणीतले।
काचित् सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ।। १८८.३९ ।।
धूमेनाकुलिता सा तु प्रसुप्ता धरणीतले।
अन्या गृहीतहस्ता तु सखि! दह्यति बालिकाम् ।। १८८.४० ।।
अनेकदिव्यरत्नाढ्या दृष्ट्वा दहनमोहिता।
शिरसि ह्यञ्जलिं कृत्वा विज्ञापयति पावकम् ।। १८८.४१ ।।
भगवन्। यदि वैरन्ते पुरुषेष्वपकारिषु।
स्त्रियः किमपराधन्ते गृहपञ्जरकोकिलाः ।। १८८.४२ ।।
पापनिर्दयनिर्लज्ज! कस्ते कोपः स्त्रियः प्रति।
न दाक्षिण्यं न ते लज्जा न सत्यं शौर्य्यवर्जितम् ।। १८८.४३ ।।
अनेन ह्यपसर्गेण तूपालम्भं शिखिन्यदात्।
किं त्वया न श्रुतं लोके ह्यबध्याः शत्रुयोषितः ।। १८८.४४ ।।
किन्तु तुभ्यं गुणा ह्येते दहनोत्सादनं प्रति।
न कारुण्यं दया वापि दाक्षिण्यं न स्त्रियः प्रति ।। १८८.४५ ।।
दयां कुर्वन्ति म्लेच्छापि दहन्तीं वीक्ष्य योषितम्।
म्लेच्छानामपि कष्टोऽसि दुर्निवारो ह्यचेतनः ।। १८८.४६ ।।
एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति।
असावपि दुराचारः स्त्रीणां किं ते निपातने ।। १८८.४७ ।।
दुष्टनिर्घृण निर्लज्ज! हुताशिन्! मन्दभाग्यक!।
निराशत्वं दुरावास बलाद्दहसि निर्दय! ।। १८८.४८ ।।
एवं विलप्यमानास्ता जल्पन्त्यश्च बहून्यपि।
अन्याः क्रोशन्ति संक्रुद्धा बालशोकेन मोहिताः ।। १८८.४९ ।।
दहते निर्दयो वह्निः संक्रुद्धः पूर्वशत्रुवत्।
पुष्करिण्यां जलं दग्धं कूपेष्वपि तथैव च ।। १८८.५० ।।
अस्मान् सन्दह्य म्लेच्छ! त्वं कां गतिं प्रापयिष्यसि।
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ।। १८८.५१ ।।
अग्निरुवाच।
स्ववशेनैव युष्माकं विनाशन्तु करोम्यहम्।
अहमादेशकर्ता वै नाहं कर्तास्म्यनुग्रहम् ।। १८८.५२ ।।
रुद्रक्रोदसमाविष्टो विविशामि यथेच्छया।
ततो बाणो महातेजा स्त्रिपुरं वीक्ष्य दीपितम् ।। १८८.५३ ।।
सिंहासनस्थः प्रोवाच ह्यहं देवैर्विनाशितः।
अल्पसत्वैर्दुराचारैरीश्वरस्य निवेदितम् ।। १८८.५४ ।।
अपरीक्ष्य त्वहं दग्धः शङ्करेण महात्मना।
नान्यः शक्तस्तु मा हन्तुं वर्जयित्वा त्रिलोचनम् ।। १८८.५५ ।।
उत्थितः शिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरम्।
निर्गतः सपुरद्वारात् परित्यज्य सुहृत् सुतान् ।। १८८.५६ ।।
रत्नानि यान्यनर्घाणि स्त्रियो नानाविधास्तथा।
गृहीत्वा शिरसा लिङ्गं गच्छन् गगनमण्डलम् ।। १८८.५७ ।।
स्तुवंश्च देवदेवेशं त्रिलोकाधिपतिं शिवम्।
त्यक्त्वा पुरी मया देव! यदि बध्योऽस्मि शङ्कर ।। १८८.५८ ।।
त्वत्प्रसादान् महादेव! मा मे लिङ्गं विनश्यतु।
अर्चितं हि मया देव!भक्त्या परमया सदा ।। १८८.५९ ।।
त्वत्कोपाद्यदि बध्योऽहं तदिदं मा विनश्यतु।
श्लाध्यमेतन्महादेव! त्वत्कोपाद्दहनं मम ।। १८८.६० ।।
प्रतिजन्म महादेव! त्वत्पादनिरतो ह्यहम्।
त्रो(तो)टकच्छन्दसा देवं स्तौमि त्वां परमेश्वर ।। १८८.६१ ।।
शिवशङ्करशर्वहराय नमो भव भीम महेश्वर शर्व नमः।
कुसुमायुधदेहविनाशकर त्रिपुरान्तक अन्धक शूलधर ।। १८८.६२ ।।
प्रमदाप्रिय कान्त विभक्त नमः ससुरासुरसिद्धगणैर्नमित।
हयवानरसिद्धगजेन्द्रमुखादतिभास्वरदीर्घविशालमुख ।। १८८.६३ ।।
उपलब्धुमशक्यतरैरमरैरसुरैः प्रथितोऽस्मि च बाहुशतैः।
प्रणतोऽस्मि भवं भवभक्तिरतो चलचन्द्रकलाकुलदेव नमः ।। १८८.६४ ।।
न च पुत्रकलत्रहयादि धनं मम तु त्वदनुस्मरणं शरणम्।
व्यथितोऽस्मि तु बाहुशतैर्बहुभिर्गमिता च महानरकस्य गतिः ।। १८८.६५ ।।
न निवर्तति जन्म न पापमतिः शुचिकर्मनिबद्धमपि त्यजति।
अनुकम्पति विभ्रमति सति मम चैव कुकर्म निवारयति ।। १८८.६६ ।।
यः पठेत्त्रोटकन्दिव्यं प्रायः शुचिमानसः।
बाणस्येव यथा रुद्रस्तस्यापि वरदो भवेत्।। १८८.६७ ।।
इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः।
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ।। १८८.६८ ।।
महेश्वर उवाच।
न भेतव्यं त्वया वत्स! सौवर्णे तिष्ठ दानव!।
पुत्रपौत्रसुहृद्बन्धु भार्याबन्धुजनैः सह ।। १८८.६९ ।।
अद्य प्रभृति बाण! त्वमबध्यस्त्रिदशैरपि।
भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव!।। १८८.७० ।।
अक्षयश्चाव्ययो लोके विचरस्वाकुतोभयः।
ततो निवारयामास रुद्रः सप्तशिखं तदा ।। १८८.७१ ।।
तृतीयं रक्षितं तस्य पुरं तेन महात्मना।
भ्रमत्तु गगने दिव्यं रुद्रतेजः प्रभावतः ।। १८८.७२ ।।
एवं तु त्रिपुरं दग्धं शङ्करेण महात्मना।
ज्वालमालाप्रदीप्तं तत्पतितं धरणीतले ।। १८८.७३ ।।
एकं निपतितं तत्र श्रीशैले त्रिपुरान्तके।
द्वितीयं पतितं तस्मिन् पर्वतेऽमरकण्टके ।। १८८.७४ ।।
दग्धेषु तेषु राजेन्द्र! रुद्रकोटिः प्रतिष्ठिता।
ज्वलत्तदपत्तत्र तेन ज्वालेश्वरः स्मृतः ।। १८८.७५ ।।
ऊर्ध्वेन प्रस्थितास्तस्य दिव्यज्वाला दिवङ्गताः।
हाहाकारस्तदा जातो देवासुरकृतो महान् ।। १८८.७६ ।।
शरमस्तं भवद्रुद्रो माहेश्वरपुरोत्तमे।
एवं वृत्तं तदा तस्मिन् पर्वतेऽमरकण्टके ।। १८८.७७ ।।
चतुर्दशाख्यं भुवनं भुक्त्वा पाण्डुनन्दन!।
वर्षकोटिसहस्रन्तु त्रिंशत्कोट्यस्तथापराः ।। १८८.७८ ।।
ततो महीतलं प्राप्य राजा भवति धार्मिकः।
पृथिवीमेकच्छत्रेण भुङ्क्ते स तु न संशयः ।। १८८.७९ ।।
एवं पुण्यो महाराज! पर्वतोऽमरकण्टके।
चन्द्रसूर्योपरागे तु गच्छेद् योऽमरकण्टकम् ।। १८८.८० ।।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः।
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ।। १८८.८१ ।।
ब्रह्महत्या गमिष्यन्ति राहुग्रस्ते दिवाकरे।
तदेवं निखिलं पुण्यं पर्वतेऽमरकण्टके ।। १८८.८२ ।।
मनसापि स्मरेद्यस्तां गिरि त्वमरकण्टकम्।
चान्द्रायणशतं साग्रां लभते नात्र संशयः ।। १८८.८३ ।।
त्रयाणामपिलोकानां विख्यातोऽमरकण्टकः।
एष पुण्यो गिरिश्रेष्ठः सिद्धगन्धर्वसेवितः ।। १८८.८४ ।।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः।
मृगव्याघ्रसहस्रैस्तु सेव्यमानो महागिरिः ।। १८८.८५ ।।
यत्र सन्निहितो देवो देव्या सह महेश्वरः।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ।। १८९.८६ ।।
ऋषिभिः किन्नरैर्यक्षैर्नित्यमेव निषेवितः।
वासुक्तिः सहितस्तत्र क्रीडते यन्नगोत्तमे ।। १८८.८७ ।।
प्रदक्षिणन्तु यः कुर्यात् पर्वतेऽमरकण्टके ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ।। १८८.८८ ।।
तत्र ज्वालेश्वरं नाम तीर्थं सिद्धनिषेवितम्।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ।। १८८.८९ ।।
ज्वालेश्वरे महाराज! यस्तु प्राणान् परित्यजेत्।
चन्द्रसूर्य्योपरागेषु तस्यापि श्रृणु यत् फलम् ।। १८९.९० ।।
सर्वकर्म्मविनिर्मुक्ते ज्ञानविज्ञानसंयुतः।
रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् ।। १८८.९१ ।।
अमरेश्वरदेवस्य पर्वतस्य उभे तटे।
तत्र ता ऋषिकोट्यस्तु तपस्तप्यन्ति सुव्रत! ।। १८८.९२ ।।
समन्ताद्योजनक्षेत्रो गिरिश्चामरकण्टकः।
अकामो वा सकामो वा नर्मदायां शुभे जले
स्नात्वा मुच्यति तैः पापै रुद्रलोकं स गच्छति।। १८८.९३ ।।