मत्स्यपुराणम्/अध्यायः २३९
ग्रहयज्ञादीनां विधानवर्णनम्।
मनुरुवाच।
ग्रहयज्ञः कथं कार्यो लक्षहोमः कथं नृपैः।
कोटिहोमोऽपि वा देव! सर्वपापप्रणाशनः ।। २३९.१ ।।
क्रियते विधिना येन यद्दृष्टं शान्तिचिन्तकैः।
तत्सर्वं विस्तराद्देव! कथयस्व जनार्दन! ।। २३९.२ ।।
मत्स्य उवाच।
इदानीं कथयिष्यामि प्रसङ्गादेव ते नृप।
राज्ञा धर्मप्रसक्तेन प्रजानाञ्च हितेप्सुना ।। २३९.३ ।।
ग्रहयज्ञः सदा कार्यो लक्षहोमसमन्वितः।
नदीनां सङ्गमे चैव सुराणामग्रतस्तथा ।। २३९.४ ।।
सुसमे भूमिभागे च दैवज्ञाधिष्ठितो नृपः।
गुरुणा चैव ऋत्विग्भिः सार्द्धं भूमिं परिक्षयेत् ।। २३९.५ ।।
खनेत् कुण्डञ्च तत्रैव सुसमं हस्तमात्रकम्।
द्विगुणं लक्षहोमे तु कोटिहोमे चतुर्गुणम् ।। २३९.६ ।।
युग्मासु ऋत्विजः प्रोक्ता अष्टौ वै वेदपारगाः।
कन्दमूलफलाहारा दधिक्षीराशिनोऽपि वा ।। २३९.७ ।।
वेद्यां निधापयेच्चैव रत्नानि विविधानि च।
सिकतापरिवेषाश्च ततोऽग्निञ्च समिन्धयेत् ।। २३९.८ ।।
गायत्र्या दशसाहस्रं मानस्तोकेन षड्गुणः।
त्रिंशद्ग्रहादिमन्त्रैश्च चत्वारो विष्णुदैवतैः ।। २३९.९ ।।
कुष्माण्डैर्जुहुयात्पञ्च कुसुमाद्यैस्तु षोडश।
होतव्या दशसाहस्रं बादरैर्जातवेदसि ।। २३९.१० ।।
श्रियोमन्त्रेण होतव्याः सहस्राणि चतुर्दश।
शेषाः पञ्चसहस्रास्तु होतव्यास्त्विन्द्रदैवतैः ।। २३९.११ ।।
हुत्वा शतसहस्रस्तु पुण्यस्नानं समाचरेत्।
कुम्भैः षोडशसङ्ख्यैश्च सहिरण्यैः सुमङ्गलैः ।। २३९.१२ ।।
स्नापयेद्यजमानन्तु ततः शान्तिर्भविष्यति।
एवं कृते ते यत्किञ्चिद् ग्रहपीडा-समुद्भवम् ।। २३९.१३ ।।
तत्सर्वं नाशमायाति दत्त्वा वै दक्षिणां नृप!।
तस्मात्सर्वप्रयत्नेन प्रधाना दक्षिणा स्मृता ।। २३९.१४ ।।
हस्त्यश्वरथयानानि भूमिवस्त्रयुगानि च।
अनडुद्गोशतं दद्यादृत्विजां चैव दक्षिणाम् ।। २३९.१५ ।।
यथा विभवसारन्तु वित्तशाठ्यं न कारयेत्।
मासे पूर्णे समाप्तस्तु लक्षहोमो नराधिप! ।। २३९.१६ ।।
लक्षहोमस्य राजेन्द्र! विधानं परिकीर्तितम्।
इदानीं कोटिहोमस्य श्रुणु त्वं कथयाम्यहम् ।। २३९.१७ ।।
गङ्गातटेऽथ यमुना सरस्वत्योः नरेश्वर! ।
नर्मदा देविकायास्तु तटे होमो विधीयते ! ।। २३९.१८ ।।
तत्रापि ऋत्विजः कार्या रविनन्दन! षोडश।
सर्वहोमेतु राजर्षे! दद्याद्विप्रेऽथ वा धनम् ।। २३९.१९ ।।
ऋत्विगाचार्यसहितो दीक्षां साम्वत्सरीं स्थितः।
चैत्रे मासे तु सम्प्राप्ते कार्तिके वा विशेषतः ।। २३९.२० ।।
प्रारम्भः करणीयो वा वत्सरं वत्सरं नृप!।
यजमानः पयो भक्षी फलाशी च तथानघ! ।। २३९.२१ ।।
यवादिव्रीहयो माषास्तिलाश्च सह सर्षपैः।
पालाशाः समिधः शस्ता वसोर्धारा तथोपरि ।। २३९.२२ ।।
मासेऽथ प्रथमे दद्यात् ऋत्विग्भ्यः क्षीरभोजनम्।
द्वितीये कृसरां दद्याद्धर्मकामार्थसाधनीम् ।। २३९.२३ ।।
तृतीये मासि संयावो देयो वै रविनन्दन!।
चतुर्थे मोदका देया विप्राणां प्रीतिमावहन् ।। २३९.२४ ।।
पञ्चमे दधिभक्तन्तु षष्ठे वै सक्तुभोजनम्।
पूपाश्च सप्तमे देया ह्यष्टमे घृतपूपकाः ।। २३९.२५ ।।
षष्ठ्योदनञ्च नवमे दशमे यवषष्टिका।
एकादशे समाषन्तु भोजनं रविनन्दन! ।। २३९.२६ ।।
द्वादशे त्वथ सम्प्राप्ते मासे रविकुलोद्वहः।
षड्रसैः सह भक्ष्यैश्च भोजनं सार्वकामिकम् ।। २३९.२७ ।।
देया द्विजानां राजेन्द्र! मासि मासि च दक्षिणाः।
अहतवासाः सम्वीतो दिनार्द्धं होमयेच्छुचिः ।। २३९.२८ ।।
तस्मात् सदोत्थितैर्भाव्यं यजमानैः सह द्विजैः ।
इन्द्राद्यादिसुराणाञ्च प्रीणनं सर्वकामिकम् ।। २३९.२९ ।।
कृत्वा सुराणां राजेन्द्र! पशुघातसमन्वितम्।
सर्वदानानि देवानामग्निष्टोमञ्च कारयेत् ।। २३९.३० ।।
एवं कृत्वा विधानेन पूर्णाहुतिः शते शते।
सहस्रे द्विगुणा देव्या यावच्छतसहस्रकम् ।। २३९.३१ ।।
पुरोडाशस्ततः साध्यो देवतार्थे च ऋत्विजैः।
युक्तो वसन् मानवैश्च पुनः प्राप्तार्चनान् द्विजान् ।। २३९.३२ ।।
प्रीणयित्वा सुरान् सर्वान् पितॄनेव ततः क्रमात्।
कृत्वा शास्त्रविधानेन पिण्डानाञ्च समर्पणम् ।। २३९.३३ ।।
समाप्तौ तस्य होमस्य विप्राणामथ दक्षिणाम्।
समाञ्चैव तुलां कृत्वा बद्ध्वा शिक्यद्वयं पुनः।। २३९.३४ ।।
आत्मानं तोलयेत्तत्र पत्नीञ्चैव द्वितीयकाम्।
सुवर्णेन तथात्मानं रजतेन तथा प्रियाम् ।। २३९.३५ ।।
तोलयित्वा ददेद्राजा वित्तशाठ्य विवर्जितः।
ददेच्छतसहस्रन्तु रूप्यस्य कनकस्य च ।। २३९.३६ ।।
सर्वस्वं वा ददेत्तत्र राजसूयफलं लभेत्।
एवं कृत्वा विधानेन विप्रांस्तांश्च विसर्जयेत् ।। २३९.३७ ।।
प्रीयतां पुण्डरीकाक्षः सर्वयज्ञेश्वरो हरिः।
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं भवेत् ।। २३९.३८ ।।
एवं सर्वोपघाते तु देवमानुषकारिते।
एवं शान्तिस्तवाख्याता यां कृत्वा सुकृती भवेत् ।। २३९.३९ ।।
न शोचेज्जन्ममरणे कृताकृत विचारणे।
सर्वतीर्थेषु यत्स्नानं सर्वयज्ञेषु यत्फलम्।
तत्फलं समवाप्नोति कृत्वा यज्ञत्रयं नृप! ।। २३९.४० ।।