मत्स्यपुराणम्/अध्यायः २१३
सावित्र्युपाख्यानम्।
सावित्र्युवाच।
धर्मामर्मविधानज्ञ! सर्वधर्मप्रवर्त्तक!।
त्वमेव जगतो नाथः प्रजासंयमनो यमः ।। २१३.१ ।।
कर्मणामनुरूपेण यस्माद्यमयसे प्रजा-।
तस्माद्वै प्रोच्यसे देव! यम इत्येव नामतः ।। २१३.२ ।।
धर्मेणेमाः प्रजाः सर्वा यस्माद्रञ्जयसे प्रभो!।
तस्मात्ते धर्मराजेति नाम सद्भिर्निगद्यते ।। २१३.३ ।।
सुकृतं दुष्कृतं चोभे पुरोधाय यदा जनाः।
त्वत्सकाशं मृता यान्ति तस्मात्त्वं मृत्युरुच्यसे ।। २१३.४ ।।
कालं कलार्द्धं कलयन् सर्वेषां त्वं हि तिष्ठसि।
तस्मात् कालेति ते नाम प्रोच्यते तत्त्वदर्शभिः ।। २१३.५ ।।
सर्वेषामेव भूतानां यस्मादन्तकरो महान्।
तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते! ।। २१३.६ ।।
विवस्वतस्त्वं तनयः प्रथमं परिकीर्तितः।
तस्माद्वैवस्वतो नाम्ना सर्वलोकेषु कथ्यते ।। २१३.७ ।।
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभञ्जनम्।
तदा त्वं कथ्यसे लोके सर्वप्राणिहरेति वै ।। २१३.८ ।।
तव प्रसादाद्देवेश! सङ्करो न प्रजायते।
सतां सदा गतिर्देव! त्वमेव परिकीर्तितः ।। २१३.९ ।।
जगतोऽस्य जगन्नाथ! मर्यादापरिपालकः।
पाहिमां त्रिदशश्रेष्ठ! दुःखितां शरणागताम्
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ।। २१३.१० ।।
यम उवाच।
स्तवेन भक्त्या धर्मज्ञे! मया तुष्टेन सत्यवान्।
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले! ।। २१३.११ ।।
राज्यं कृत्वा त्वया सार्द्धं वत्सराशीतिपञ्चकम्।
नाकपृष्ठमथारुह्या त्रिदशैः सह रंस्यते।। २१३.१२ ।।
त्वयि पुत्रशतञ्चापि सत्यवान् जनयिष्यति।
ते चापि सर्वे राजानः क्षत्रियास्त्रिदशोपमाः ।। २१३.१३ ।।
मुख्यास्त्वन्नाम पुत्राख्या भविष्यन्ति हि शाश्वताः।
पितुश्च ते पुत्रशतं भविता तव मातरि ।। २१३.१४ ।।
मालव्यां मालवी नाम शाश्वताः पुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ।। २१३.१५ ।।
स्तोत्रेणानेन धर्मज्ञे! कल्पमुत्थाय यस्तु माम्।
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ।। २१३.१६ ।।
एतावदुक्ता भगवान् यमस्तु प्रमुच्य तं राजसुतं महात्मा।
अदर्शनं तत्र यमो जगाम कालेन सार्द्धं सह मृत्युना च ।। २१३.१७ ।।