मत्स्यपुराणम्/अध्यायः १२९
ऋषय ऊचुः
कथं जगाम भगवान्पुरारित्वं महेश्वरः
ददाह च कथं देवस्तन्नो विस्तरतो वद 129.1
पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः
त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम्
देवेनैकेषुणा दग्धं तथा नो वद मानद 2
सूत उवाच
शृणुध्वं त्रिपुरं देवो यथा दारितवान्भवः
मयो नाम महामायो मायानां जनकोऽसुरः 3
निर्जितः स तु संग्रामे तताप परमं तपः
तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् 4
तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः
विद्युन्माली च बलवांस्तारकाख्यश्च वीर्यवान् 5
मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ
लोका इव यथा मूर्तास्त्रयस्त्रय इवाग्नयः 6
लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा 7
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः
सेवानाः फलमूलानि पुष्पाणि च जलानि च 8
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः
मग्नाः शैवालपङ्केषु विमलाविमलेषु च 9
निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः
तेषां तपःप्रभावेन प्रभावविधुतं यथा 10
निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम्
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः 11
तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः
ततः साहसकर्तारः प्राहुस्ते सहसागतम् 12
स्वकं पितामहं दैत्यास्तं वै तुष्टुवुरेव च
अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् 13
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा
वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः 14
व्रियताम् ईप्सितं यच्च साभिलाषं तदुच्यताम्
इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् 15
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः
देव दैत्याः पुरा देवैः संग्रामे तारकामये 16
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि
देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः 17
शरणं नैव जानीमः शर्म वा शरणार्थिनः
सोऽहं तपःप्रभावेन तव भक्त्या तथैव च 18
इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम्
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर 19
भूम्यानां जलजानां च शापानां मुनितेजसाम्
देवप्रहरणानां च देवानां च प्रजापतेः 20
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम्
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा 21
उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम्
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव 22
तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम्
पितामहवचः श्रुत्वा तदैवं दानवो मयः 23
प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम्
यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् 24
समं स संयुगे हन्यादवध्यं शेषतो भवेत्
एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः 129.25
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ
गते पितामहे दैत्या गता मयरविप्रभाः 26
वरदानाद्विरेजुस्ते तपसा च महाबलाः
स मयस्तु महाबुद्धिर्दानवो वृषसत्तमः 27
दुर्गं व्यवसितः कर्तुमिति चाचिन्तयत्तदा
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् 28
वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः
यथाचैकेषुणा तेन तत्पुरं न हि हन्यते 29
देवैस्तथा विधातव्यं मया मतिविचारणम्
विस्तारो योजनशतमेकैकस्य पुरस्य तु 30
कार्यस्तेषां च विष्कम्भश्चैकैकशतयोजनम्
पुष्ययोगेण निर्माणं पुराणं च भविष्यति 31
पुष्ययोगेण च दिवि समेष्यन्ति परस्परम्
पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति 32
पुराण्येकप्रहारेण शतानि निहनिष्यति
आयसं तु क्षितितले राजतं तु नभस्तले 33
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम्
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति
शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम् 34
अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च
द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् 35
सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् 36
इति श्रीमात्स्ये महापुराणे त्रिपुरोपाख्यान एकोनत्रिंशदधिकशततमोऽध्यायः 129