मत्स्यपुराणम्/अध्यायः २१९
मनुमत्स्यसंवादे राजधर्मवर्णनम्।
मनुरुवाच।
राजरक्षारहस्यानि यानि दुर्गे निधापयेत्।
कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च ।। २१९.१ ।।
मत्स्य उवाच।
शिरीषोदुम्बर-शमी वीजपूरं घृतप्लुतम्।
क्षुद्योगः कथितो राजन्! मासार्द्धं तु पुरातनैः ।। २१९.२ ।।
कशेरुफलमूलानि इक्षुमूलं तथा बिसम्।
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः ।। २१९.३ ।।
नरं शस्त्रहतं प्राप्तो न तस्य मरणं भवेत्।
कल्माषवेणुना तत्र जनयेत्तु विभावसुम् ।। २१९.४ ।।
गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव!।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ।। २१९.५ ।।
कार्पासस्था भुजङ्गस्य तेन निर्मोचनं भवेत्।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ।। २१९.६ ।।
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप! ।। २१९.७ ।।
दिवा च दुर्गे रक्ष्योऽग्निर्वाति वाते विशेषतः।
विषाच्च रक्ष्योनृपतिस्तत्र युक्तिं निबोध मे ।। २१९.८ ।।
क्रीड़ा-निमित्तं नृपतिर्धारयेन्मृगपक्षिणः।
अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरेषु च ।। २१९.९ ।।
वस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा।
नापरीक्षितपूर्वन्तु स्पृशेदपि महामतिः ।। २१९.१० ।।
स्याच्चासौ वक्त्रसन्तप्त- सोद्वेगञ्च निरीक्षते।
विषदोऽथ विषं दत्तं यच्च तत्र परीक्षते ।। २१९.११ ।।
स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा।
प्रच्छादयति चात्मानं लज्जते त्वरते तथा ।। २१९.१२ ।।
भुवं विलिखति ग्रीवां तथा चालयते नृप!।
कण्डूयति च मूर्द्धानं परिलोड्याननन्तथा ।। २१९.१३ ।।
क्रियासु त्वरितो राजन्! विपरीतास्वपि ध्रुवम्।
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ।। २१९.१४ ।।
समीपैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः।
इन्द्रायुधसवर्णन्तु रूक्षं स्फोटसमन्वितम् ।। २१९.१५ ।।
एकावर्तन्तु दुर्गंन्धि भृशञ्चटचटायते।
तद्धूमसेवनाज्जन्तोः शिरो-रोगश्च जायते ।। २१९.१६ ।।
सविषेऽऽन्ने विलीयन्ते न च पार्थिव! मक्षिकाः।
निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा ।। २१९.१७ ।।
विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम!।
विकृतिश्च स्वरो याति कोकिलस्य तथा नृप! ।। २१९.१८ ।।
गतिस्खलति हंसस्य भृङ्गराजश्च कूजति।
क्रौञ्चो मदमथाभ्येति कृकवाकुर्विरौति च ।। २१९.१९ ।।
विक्रोशति शुको राजन्! सारिका वमते ततः।
चामीकरोऽन्यतोयाति मृत्युं कारण्डवस्तथा ।। २१९.२० ।।
मेहते वानरो राजन्! ग्लायते जीवजीवकः।
दृष्टरोमा भवेद्वभ्रुः पृषतश्चैव रोदिति ।। २१९.२१ ।।
हर्षमायाति च शिखी विषसन्दर्शनान्नृप!।
अन्नञ्च सविषं राजंश्चिरेण च विपद्यते ।। २१९.२२ ।।
तदा भवति निःश्राव्यं पक्षपर्युषितोपमम्।
व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथा युतम् ।। २१९.२३ ।।
व्यञ्जनानान्तु शुष्कत्वं द्रवाणां बुद्बुदोद्भवः।
ससैन्धवानां द्रव्याणां जायते फेनमालिता ।। २१९.२४ ।।
सस्यराजिश्च ताम्रा स्यात् नीला च पयसस्तथा।
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम! ।। २१९.२५ ।।
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च।
मधुश्यामा च तक्रस्य नीला पीता तथैव च।। २१९.२६ ।।
घृतस्योदकसङ्काशा कपोताभा च सत्तनुः।
हरिता माक्षिकस्यापि तैलस्य च तथारुणा ।। २१९.२७ ।।
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते।
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ।। २१९.२८ ।।
मृदुता कठिनानां स्यात् मृदूनाञ्च विपर्ययः।
सूक्ष्माणां रूपदलनं तथा चैवातिरङ्गता ।। २१९.२९ ।।
श्याममण्डलता चैव वस्त्राणां वै तथैव च।
लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्धता।। २१९.३० ।।
अनुलेपनगन्धानां माल्यानाञ्च नॄपोत्तम।
विगन्धता च विज्ञेया तथा राजन्! जलस्य तु ।। २१९.३१ ।।
दन्तकाष्ठत्वचः श्यामाः तनुसत्वास्तथैव च।
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम!।। २१९.३२ ।।
तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधां गणैः।
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ।। २१९.३३ ।।
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम्।
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र! ।। २१९.३४ ।।