मत्स्यपुराणम्/अध्यायः १४७
तारकासुरोपाक्यानवर्णनम्।
वराङ्ग्युवाच।
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ।। १४७.१
दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता।
पुत्रं मे तारकं देहि दुःख शोक महार्णवात् ।। १४७.२
एवमुक्तः स दैत्येन्द्रः कोपव्याकुल लोचनः।
शक्तोऽपि देवराजस्य प्रतिकर्तुं महासुरः ।। १४७.३
तपः कर्तुं पुनर्दैत्यो व्यवस्यत महाबलः।
ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ।। १४७.४
आजगाम तदा तत्र यत्रासौ दितिनन्दनः।
उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ।। १४७.५
ब्रह्मोवाच।
किमर्थं पुत्रभूयस्त्वं नियमं क्रूरमिच्छसि।
आहाराभिमुखो दैत्यस्तन्नो ब्रूहि महाव्रत ।। १४७.६
यावदब्दसहस्रेण निराहारस्य यत् फलम्।
क्षणेनैकेन तल्लब्धा त्यत्त्वा हारमुपस्थितम् ।। १४७.७
त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः।
यथा प्राप्तं परित्यज्य कामं कमललोचन ।। १४७.८
श्रुत्वैतद् ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत्।
चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ।। १४७.९
वज्राङ्ग उवाच।
उत्थितेन मया दृष्टा समाधानात् त्वदाज्ञया।
महिषी भीषिता दीना रुदन्ती शाखिनस्तले ।। १४७.१०
सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा।
किमेव वर्त्तसे भीरु! वद त्वं किञ्चिकीर्षसि ।। १४७.११
इत्युक्ता सा मया देव! प्रोवाच स्खलिताक्षरम्।
वाक्यं वाचस्पते! भीता तन्वङ्गी हेतुसंहितम् ।। १४७.१२
वराङ्ग्युवाच।
त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ।। १४७.१३
दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता।
पुत्रं मे तारकं देहि ह्यस्माद्दुःखमहार्णवात् ।। १४७.१४
एवमुक्तस्तु संक्षुब्धस्तस्याः पुत्रार्थमुद्यतः।
तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ।। १४७.१५
एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा।
उवाच दैत्यराजानं प्रसन्नश्चतुराननः ।। १४७.१६
ब्रह्मोवाच।
अलन्ते तपसा वत्स! मा क्लेशे दुस्तरे विश।
पुत्रस्ते तारको नाम भविष्यति महाबलः ।। १४७.१७
देवसीमन्तिनी कान्त धम्मिल्लस्य विमोक्षण।
इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ।। १४७.१८
आगत्यानन्दयामास महिषीं हर्षिताननः।
तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ।। १४७.१९
वज्राङ्गनाहितं गर्भं वराङ्गा वरवर्णिनी।
पूर्णं वर्षसहस्रञ्च दधारोदर एव हि ।। १४७.२०
ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम्।
जायमाने तु दैत्येन्द्रे तस्मिन् लोकभयङ्करे ।। १४७.२१
चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे।
चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ।। १४७.२२
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि।
चन्द्रसूर्या जहुः कान्तिं सनीहारा दिशोऽभवन् ।। १४७.२३
जाते महासुरे तस्मिन् सर्वे चापि महासुराः।
आजग्मुर्दृषितास्तत्र तथाचासुर योषितः ।। १४७.२४
जग्मुः हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः।
ततो महोत्सवो जातो दानवानां द्विजोत्तमाः।। १४७.२५
विषण्ण मनसो देवाः समहेन्द्रास्तदाभवन्।
वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ।। १४७.२६
बहु मेने न देत्येन्द्र विजयन्तु तदैव सा।
जातमात्रस्तु दैत्येन्द्रस्तारकश्चण्डविक्रमः ।। १४७.२७
अभिषिक्तोऽसुरैः सर्वैः कुजम्भमहिषादिभिः।
सर्वासुरमहाराज्ये पृथिवी तुलन क्षमैः ।। १४७.२८
स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः।
उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ।। १४७.२९