मत्स्यपुराणम्/अध्यायः ९०
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम्।
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः।। ९0.१ ।।
मध्यमः पञ्चशतकस्त्रिशतेनाधमः स्मृतः।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः।। ९0.२ ।।
पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः।
पद्मरागयुतः कार्य्यो विद्वद्भिर्गन्दमादनः।। ९0.३ ।।
वैढूर्य्यविद्रुमैः पश्चात्संमिश्रोविमलाचलः।
पद्मरागैः ससौवर्णैरुत्तरेण च विन्यसेत्।। ९0.४ ।।
धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत्।
तद्वदावाहनं कुर्य्याद्वृक्षान् देवांश्च काञ्चनान्।। ९0.५ ।।
पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः।
पूर्ववद्गुरुऋत्विग्भ्य इमान् मन्त्रानुदीरयेत्।। ९0.६ ।।
यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः।
त्वञ्च रत्नमयो नित्यं नमस्तेऽस्तु सदाचल।। ९0.७ ।।
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः।
सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत।। ९0.८ ।।
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्।
स याति विष्णुसालोक्यममरेश्वरपूजितः।। ९0.९ ।।
यावत्कल्पशतं साग्रं वसेच्चेह नराधिप। ‘
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।। ९0.१0 ।।
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम्।
तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा।। ९0.११ ।।