मत्स्यपुराणम्/अध्यायः २१६
राजकृत्यवर्णनम्।
मत्स्य उवाच।
यथा न वर्तितव्यं स्यान्मनो राज्ञोऽनुजीविना।
तथा ते कथयिष्यामि निबोध गदतो मम ।। २१६.१ ।।
राजा यत्तु वदेद्वाक्यं श्रोतव्यं तत्प्रयत्नतः।
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ।। २१६.२ ।।
अनुकूलं प्रियं तस्य वक्तव्यं जनसंसदि।
रहो गतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।। २१६.३ ।।
परार्थमस्य वक्तव्यं समे चेतसि पार्थिव।
स्वार्थः सुहृद्भिः वक्तव्यो न स्वयं तु कथञ्चन ।। २१६.४ ।।
कार्य्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः।
नच हिंस्यं धनं किञ्चत् नियुक्तेन च कर्मणि ।। २१६.५ ।।
नोपेक्ष्यस्तस्य मानश्च तथा राज्ञः प्रियो भवेत्।
राज्ञश्च न तथा कार्य्यं वेषभाषित चेष्टितम् ।। २१६.६ ।।
राजलीला न कर्तव्या तद्विद्विष्टञ्च वर्जयेत्।
राज्ञः समोऽधिको वानकार्य्यो वेषो विजानता।। २१६.७ ।।
द्युतादिषु तथैवान्यत् कौशलं तु प्रदर्शयेत्।
प्रदर्श्यकौशलं चास्य राजानन्तु विशेषयेत् ।। २१६.८ ।।
अन्तःपुरजनाध्यक्षै र्वैरिदूतैः निराकृतैः।
संसर्गं न व्रजेद्राजन् विना पार्थिवशासनात् ।। २१६.९ ।।
निस्नेहताञ्चावमानं प्रयत्नेन तु गोपयेत्।
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ।। २१६.१० ।।
नृपेण श्रावितं यत्स्याद् वाच्यावाच्यं नृपोत्तम!।
न तत् संश्रावयेल्लोके तथा राज्ञोऽप्रियो भवेत् ।। २१६.११ ।।
आज्ञाप्यमाने वान्यस्मिन् समुत्थायत् वरान्वितः।
किमहङ्करवाणीति वाच्यो राजा विजानता ।। २१६.१२ ।।
कार्यावस्थां च विज्ञाय कार्यमेव यथा भवेत्।
सततं क्रियमाणेऽस्मिन् लाघवन्तु व्रजेद् ध्रुवम् ।। २१६.१३ ।।
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनः पुनः।
महासुशीलस्तु भवेत् न चापि भृकुटीमुखः ।। २१६.१४ ।।
नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा।
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ।। २१६.१५ ।।
दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत् क्वचित्।
वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारधेत् ।। २१६.१६ ।।
औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता।
तत्रैवात्मासनं कार्यं दिवा स्वप्नं न कारयेत् ।। २१६.१७ ।।
नानिर्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन।
न च पश्येत्तु राजानमयोग्यासु च भूमिषु ।। २१६.१८ ।।
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा।
पुरस्ताच्च तथापश्चादासनन्तु विगर्हितम् ।। २१६.१९ ।।
जृम्भां निष्ठीवनङ्कासं कोपं पर्यस्तिकाश्रयम्।
भृकुटिं वान्तमुद्गारन्तत्समीपे विवर्जयेत् ।। २६१.२० ।।
स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः।
स्वगुणाख्यापने युक्ता परमेव प्रयोजयेत् ।। २६१.२१ ।।
हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ।। २६१.२२ ।।
शाठ्यं लौल्यं च पैशून्यं नास्तिक्यं क्षुद्रता तथा।
चापल्यञ्च परित्याज्यं नित्यं राज्ञोऽनुजीविभिः ।। २६१.२३ ।।
श्रुति-विद्या-सुशीलैश्च संयोज्यात्मानमात्मना।
राजसेवान्ततः कुर्याद् भूतये भूतिवर्द्धनीम् ।। २६१.२४ ।।
नमस्कार्याः सदा चास्य पुत्रवल्लभ मन्त्रिणः।
सचिवैः चास्य विश्वासो न तु कार्यः कथञ्चन ।। २६१.२५ ।।
अपृष्टश्चास्य न ब्रूयात् कामं ब्रूयात्तथा यदि।
हितं तथ्यञ्च वचनं हितैः सह सुनिश्चितम् ।। २६१.२६ ।।
चित्तञ्चैवास्य विज्ञेयं नित्यमेवानुजीविना।
भर्त्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ।। २६१.२७ ।।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता।
त्यजेद्विरक्तो नृपती रक्त वृत्तिन्तु कारयेत् ।। २६१.२८ ।।
विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा।
आशावर्द्धनकं कृत्वा फलनाशं करोति च ।। २६१.२९ ।।
अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः।
वाक्यं च समदं वक्ति वृत्तिच्छेदं करोति वै ।। २६१.३० ।।
प्रदेशवाक्यमुदितो न सम्भावयतेऽन्यथा।
आराधनासु सर्वासु सुप्तवच्च विचेष्टते ।। २६१.३१ ।।
कथासु दोषं क्षिपति वाक्यभङ्गं करोति च।
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तनेऽपि च ।। २६१.३२ ।।
दृष्टिं क्षिपति चान्यत्र क्रियमाणे च कर्मणि।
विरक्तलक्षणं चैतत् श्रृणु रक्तस्य लक्षणम् ।। २६१.३३ ।।
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्।
कुशलादि परिप्रश्नं संप्रयच्छति चासनम् ।। २६१.३४ ।।
विविक्तदर्शने चास्य रहस्येनं न शङ्कते।
जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम् ।। २६१.३५ ।।
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते।
उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा।। २६१.३६ ।।
कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा।
इति रक्तस्य कर्तव्या सेवा रविकुलोद्वह! ।। २६१.३७ ।।
मित्रं न चापत्सु तथा च भृत्या भजन्ति ये निर्गुणमप्रमेयम्।
विभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ।। २६१.३८ ।।