मत्स्यपुराणम्/अध्यायः २६९
प्रासादविधिनिर्णयवर्णनम्।
सूत उवाच।
एवं वास्तुबलिं कृत्वा भजेत् षोड़शभागिकम्।
तस्य मध्ये चतुर्भिस्तु भागैर्गर्भन्तु कारयेत् ।। २६९.१
भागद्वादशकं सार्द्धं ततस्तु परिकल्पयेत्।
चतुर्दिक्षु तथा ज्ञेयं निर्गमं तु ततो बुधैः ।। २६९.२
चतुर्भागेन भित्तीनामुच्छ्रायः स्यात् प्रमाणतः।
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्राय प्रमाणतः ।। २६९.३
शिखरार्द्धस्य चार्धेन विधेया तु प्रदक्षिणा।
गर्भसूत्रद्वयं चाग्रे विस्तारो मण्डपस्य तु ।। २६९.४
आयतः स्यात् त्रिभिर्भागैर्भद्रयुक्तः सुशोभनः।
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ।। २६९.५
भागमेकं गृहीत्वा तु प्राग्ग्रीवं कल्पयेद् बुधः।
गर्भसूत्रसमाद् भागादग्रतो मुखमण्डपः ।। २६९.६
एतत्सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम्।
तथान्यन्तु प्रवक्ष्यामि प्रासादं लिङ्गमानतः ।। २६९.७
लिङ्गपूजा प्रमाणेन कर्तव्या पीठिका बुधैः।
पिण्डकार्द्धे विभागः स्यात् तन्मानेन तु भित्तयः ।। २६९.८
बाह्यभित्तिप्रमाणेन उत्सेधस्तु भवेत् पुनः।
भित्त्युच्छ्रायात्तु द्विगुणः शिखरस्य समुच्छ्रयः ।। २६९.९
शिखरस्य चतुर्भागात् कर्तव्या च प्रदक्षिणा।
प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् ।। २६९.१०
तस्य वार्द्धेन कर्तव्यस्त्वग्रतो मुखमण्डपः।
प्रासादान् निर्गतौ कार्यौ कपालौ गर्भमानतः ।। २६९.११
ऊर्ध्वं भित्युच्छ्रयात् तस्य मञ्जरींन्तु प्रकल्पयेत्।
मञ्जर्यां श्चार्द्धभागेन शुकनासां प्रकल्पयेत् ।। २६९.१२
ऊर्ध्वं तथार्द्धभागेन वेदी बन्धो भवेदिह।
वेद्याश्चोपरि यच्छेषं कण्ठश्चामलसारकः ।। २६९.१३
एवं विभज्य प्रासादं शोभनं कारयेद् बुधः।
अथान्यच्च प्रवक्ष्यामि प्रासादस्येह लक्षणम् ।। २६९.१४
गर्भमानप्रमाणेन प्रासादं श्रृणु तद्विजाः!।
विभज्य नवधा गर्भं मध्ये स्याल्लिङ्ग पीठिका ।। २६९.१५
पादाष्टकं तु रुचिरं पार्श्वतः परिकल्पयेत्।
मानेन तेन विस्तारो भित्तीनान्तु विधीयते ।। २६९.१६
पादं पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत्।
स एव शिखरस्यापि द्विगुणः स्यात् समुच्छ्रयः ।। २६९.१७
चतुर्धा शिकरं भज्य अर्द्धभागद्वयस्य तु।
शुकनासं प्रकुर्वीत तुतीये वेदिका मता ।। २६९.१८
कण्ठमामलसारं तु चतुर्थे परिकल्पयेत्।
कपालयोस्तु संहारो द्विगुणोऽत्र विधीयते ।। २६९.१९
शोभनैः पत्रवल्लीभि रण्डकैश्च विभूषितः।
प्रासादोऽयं तुतीयस्तु मया तुभ्यं निवेदितः ।। २६९.२०
सूत उवाच।
सामान्यमपरं तद्वत् प्रासादं श्रृणु तद्विजाः! ।
त्रिभेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ।। २६९.२१
रथाङ्कस्तेन मानेन बाह्य भागविनिर्गतः।
नेमीपादेन विस्तीर्णा प्रासादः स्यात् समन्ततः ।। २६९.२२
गर्भन्तु द्विगुणं कुर्यात् तस्यामानं भवेदिह।
स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ।। २६९.२३
प्राग्ग्रीवः पञ्चभागेन नित्कासस्तस्य चोच्यते।
कारयेत् सुषिरं तद्वत् प्राकारस्य त्रिभागतः ।। २६९.२४
प्राग्ग्रीवं पञ्चभागेन निष्काषेण विशेषतः।
कुर्य्यादापञ्चभागेन प्राग् ग्रीवे कर्णमूलतः ।। २६९.२५
स्थापयेत्कनकं तत्र गर्भान्ते द्वारमूलतः।
एवन्तु त्रिविधं कुर्यात् ज्येष्ठमध्य कनीयसम् ।। २६९.२६
लिङ्गमानानुभेदेन रूपभेदेन वा पुनः।
एते समासतः प्रोक्ता नामतः श्रृणुताधुना ।। २६९.२७
मेरुमन्दरकैलासकुम्भसिंहमृगास्तथा।
विमानच्छन्दकस्तद्वच्चतुरस्रस्तथैव च ।। २६९.२८
अष्टास्रः षोडशास्रश्च वर्तुलः सर्वभद्रकः।
सिंहास्यो नन्दनश्चैव नन्दिवर्धनकस्तथा ।। २६९.२९
हंसोवृषः सुवर्णेशः पद्मकोऽथ समुद्गकः।
प्रासादा नामतः प्रोक्ता विभागं श्रृणु तद्विजाः! ।। २६९.३०
शतश्रृङ्गश्चतुर्द्वारो भूमिका षोड़शोच्छ्रितः।
नानाविचित्रशिखरे मेरुः प्रासाद उच्यते ।। २६९.३१
मन्दरो द्वादश प्रोक्तः कैलासो नवभूमिकः।
विमानच्छन्दकस्तद्वदनेकशिखराननः ।। २६९.३२
स चाष्टभूमिकस्तद्वत् सप्तभिर्नन्दिवर्धनः।
विषाणकसमायुक्तो नन्दनः स उदाहृतः ।। २६९.३३
षोडशास्रसमायुक्तो नानारूपसमन्वितः।
अनेकशिखरस्तद्वत् सर्वतो भद्र उच्यते ।। २६९.३४
चित्रशालासमोपेतो विज्ञेयः पञ्चभूमिकः।
वलभीच्छन्दकस्तद्वदनेक शिखराननः ।। २६९.३५
वृषस्योच्छ्रायतस्तुल्यो मण्डलश्चास्रवर्जितः।
सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमस्तथा ।। २६९.३६
कुम्भः कुम्भाकृतिस्तद्वद् भूमिका नवकोच्छ्रयः।
अङ्गलीपुटसंस्थानः पञ्चाण्डक विभूषितः ।। २६९.३७
षोड़शास्रः समन्ताच्च विज्ञेयः स समुद्गकः।
पार्श्वयोश्चन्द्रशालेऽस्य उच्छ्रायो भूमिकाद्वयम् ।। २६९.३८
तथैव पद्मकः प्रोक्तः उच्छ्रायो भूमिकात्रयम्।
षोड़शास्रः स विज्ञेयो विचित्रशिखरः शुभः ।। २६९.३९
मृगराजस्तु विख्यातश्चन्द्रशाला विभूषितः।
प्राग्ग्रीवेण विशालेन भूमिकासु षडुन्नतः ।। २६९.४०
अनेकश्चन्द्रशालश्च गजः प्रासाद इष्यते।
पर्यस्त गृहराजो वै गरुड़ो नाम नामतः ।। २६९.४१
सप्तभूम्युच्छ्रयस्तद्वच्चन्द्रशाला-त्रयान्वितः।
भूमिकाषड़शीतिस्तु बाह्यतः सर्वतो भवेत् ।। २६९.४२
तथान्यो गरुड़स्तद्वदुच्छ्रयाद्दशभूमिकः।
भूमिका षोड़शास्रस्तु भूमिद्वयमथाधिकः ।। २६९.४३
पद्मतुल्यप्रमाणेन श्रीवृक्षक इति स्मृतः।
पञ्चाण्डको द्विभूमिश्च गर्भे हस्तचतुष्टयम्।। २६९.४४
वृषो भवति नाम्नायं प्रासादः सार्वकामिकः।
सप्तकाः पञ्चकाश्चैव प्रासादा वै मयोदिताः ।। २६९.४५
सिंहास्येन समाज्ञेया ये चान्ये तत्प्रमाणकाः।
चन्द्रशालैः समोपेताः सर्वे प्राग्ग्रीवसंयुताः
ऐष्टका दारवाश्चैव शैला वा स्युः सतोरणाः ।। २६९.४६
मेरुः पञ्चाशद् हस्तः स्यान्मन्दरः पञ्चहीनकः।
चत्वारिंशत्तु कैलास श्चतुस्त्रिंशद् विमानकः ।। २६९.४७
नन्दिवर्द्धनकस्तद्वद् द्वात्रिंशत् समुदाहृतः।
त्रिंशतानन्दनः प्रोक्तः सर्वतोभद्रकस्तथा ।। २६९.४८
वर्तुलः पद्मकश्चैव विंशद्धस्त उदाहृतः।
गजः सिंहश्च कुम्भश्च वलभी च्छन्दकस्तथा ।। २६९.४९
एते षोड़शहस्ताः स्युः चत्वारो देववल्लभाः।
कैलासो मृगराजश्च विमान-च्छन्दकोमतः ।। २६९.५०
एते द्वादश हस्ताः स्यु रेतेषामिह मन्मतम्।
गरुड़ोऽष्टकरो ज्ञेयो हंसो दश उदाहृतः ।। २६९.५१
एवमेते प्रमाणेन कर्तव्याः शुभलक्षणाः।
यक्षराक्षसनागानं मातृहस्तान् प्रशंस्यते ।। २६९.५२
तथा मेर्वादयः सप्त ज्येष्ठ लिङ्गे शुभावहाः।
श्रीवृक्षकादयश्चाष्टौ मध्यमस्य प्रकीर्तिताः ।।
तथा हंसादयः पञ्च कन्यसे शुभदा मताः ।। २६९.५३
वलभीच्छन्दके गौरी जटामुकुट-धारिणी।
वरदा भयदा तद्वत् साक्षसूत्रकमण्डलुः।। २६९.५४
गृहे तु रक्तमुकुटा उत्पलाङ्कुशधारिणी।
वरदा भयदा चापि पूजनीया सभर्तृका ।। २६९.५५
तपोवनस्थामितरां तां तु संपूजयेद् बुधः।
देव्या विनायकस्तद्वत् वलभीच्छन्दके शुभः ।। २६९.५६