मत्स्यपुराणम्/अध्यायः २६८
प्रासादविधिनिर्णयवर्णनम्।
ऋषय ऊचुः।
प्रासादाः कीदृशाः सूत! कर्तव्या भूतिमिच्छता।
प्रमाणं लक्षणं तद्वत् वद विस्तरतोऽधुना ।। २६८.१
सूत उवाच।
अथातः संप्रवक्ष्यामि प्रासाद विधि निर्णयम्।
वास्तौ परीक्षिते सम्यग् वास्तु देह विचक्षणः ।। २६८.२
वास्तूपशमनं कुर्यात् समिद्भिर्बलिकर्मणा।
जीर्णोद्धारे ततोद्याने तथा गृहनिवेशने।। २६८.३
नव प्रासादभवने प्रासाद परिवर्तने।
द्वाराभिवर्तने तद्वत्प्रासादेषु गृहेषु च ।। २६८.४
वास्तूपशमनं कुर्यात् पूर्वमेव विचक्षणः।
एकाशीतिपदं लिख्य वास्तु मध्ये च पृष्ठतः ।। २६८.५
होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके।
यवैः कृष्णतिलैस्तद्वत् समिद्भिः क्षीरवृक्षकैः ।। २६८.६
पालाशैः खादिरैश्चापि मधुसर्पिसमन्वितैः ।
कुशदूर्वामयैर्वापि मधुसर्पिसमन्वितैः ।। २६८.७
कार्यस्तु पञ्चभिर्बिल्वैः बिल्व-बीजैरथापि वा।
होमान्ते भक्ष्यभोज्यैस्तु वास्तुदेशे बलिं हरेत् ।। २६८.८
तद्वद् विशेष नैवेद्यमेवं दद्यात् क्रमेण तु।
ईशकोणे घृतान्नन्तु शिखिने विनिवेदयेत् ।। २६८.९
ओदनं सफलं दद्यात् पर्जन्याय घृतान्वितम्।
जयाय च ध्वजान् प्रीतान् पैष्टं कूर्मञ्च सन्न्यसेत् ।। २६८.१०
इन्द्राय पञ्चरत्नानि पैष्टञ्च कुलिशं तथा।
वितानकञ्च सूर्याय धूम्रं सक्तुं तथैव च ।। २६८.११
सत्याय घृतगोधूमं मत्स्यं दद्याद् भृशाय च।
शष्कुलीश्चान्तरिक्षाय दद्यात् सक्तुंश्च वायवे ।। २६८.१२
लाजाः पूष्णे तु दातव्याः वितथे चणकौदकम्।
गृहक्षतायमध्वन्नं यमाय पिशितौदनम् ।। २६८.१३
गन्धौदनञ्च गन्धर्वे भृङ्गराजस्य भृंगिकाम्।
मृगाय यावकं दद्यात्पितृभ्यः कृसरामता ।। २६८.१४
दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा।
सुग्रीवे पुष्पकं दद्यात् पुष्पदन्ताय पायसम् ।। २६८.१५
कुशस्तम्बेन संयुक्तं तथा पद्मञ्च वारुणम्।
पिष्टं हिरण्मयं दद्यादासुराय सुरा मता ।। २६८.१६
घृतौदनञ्च शोषाय यवान्नं पापयक्ष्मणे।
घृतलड्डुकांस्तु रोगाय नागे पुष्पफलानि तु ।। २६८.१७
सर्पिर्मुख्याय दातव्यं मुद्गौदनमतः परम्।
भल्लाटस्थानके दद्यात् सोमायघृतपायसम् ।। २६८.१८
भगाय शालिकं पिष्टमदित्यै पोलिकास्तथा।
दित्यैतु पूरिका दद्यादित्येवं बाह्यतो बलिः ।। २६८.१९
क्षीरं यमाय दातव्यमापवत्साय वै दधि।
सावित्रे लड्डुकान् दद्यात् समरीचं कुशौदनम् ।। २६८.२०
सवितुर्गुड़पूपांस्तु जयाय घृतचन्दनम्।
विवस्वते पुनर्दद्याद् रक्तचन्दनपायसम् ।। २६८.२१
हरितालौदनं दद्यादिन्द्राय घृतसंयुतम्।
घृतौदनञ्च मित्राय रुद्राय घृतपायसम् ।। २६८.२२
आमं पक्वं तथा मांसं देयं स्याद्राजयक्ष्मणे।
पृथ्वीधराय मांसानि कूष्माण्डानि च दापयेत् ।। २६८.२३
शर्करा पायसं दद्यादर्यम्णे पुनरेव हि।
पञ्चगव्यं यवां श्चैव तिलाक्षतमयं चरुम् ।। २६८.२४
भक्ष्यं भोज्यञ्च विविधं ब्रह्मणे विनिवेदयेत्।
एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।। २६८.२५
सर्वेभ्यः काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम्।
राक्षसीनां बलिर्देयो अपि यादृक् यथा श्रुणु ।। २६८.२६
मांसोदनं घृतं पद्म केसरं रुधिरान्वितम्।
ईशानभागमाश्रित्य चरक्यै विनिवेदयेत् ।। २६८.२७
मांसौदनञ्च रुधिरं हरिद्रौदनमेव च।
आग्नेयीं दिशमाश्रित्यं विदार्यै विनिवेदयेत् ।। २६८.२८
दध्योदनं स रुधिरमस्थिखण्डैश्च संयुतम्।
पीतरक्तं बलिं दद्यात् पूतनायै सरक्षसे ।। २६८.२९
वायव्यां पापराक्षस्यै मत्स्यमांसं सुरासवम्।
पायसञ्चापि दातव्यं स्वनाम्ना सर्वतः क्रमात् ।। २६८.३०
नमस्कारान्त युक्तेन प्रणवाद्येन संयुतः।
ततः सर्वौषधी-स्नानं यजमानस्य कारयेत् ।। २६८.३१
द्विजान् सुपुजयेद् भक्त्या ये चान्ये गृहमागताः।
एतद्वास्तूपशमनं कृत्वा कर्म समारभेत् ।। २६८.३२
प्रासादभवनोद्यान प्रारम्भे विनिवर्तने।
पुरुवेश्मप्रवेशेषु सर्वदोषापनुत्तये ।। २६८.३३
रक्षोघ्नपावमानेन सूक्तेन भवनादिकम्।
नृत्यमङ्गलवाद्येन कुर्य्यात् ब्राह्मणवाचनम् ।। २६८.३४
अनेन विधिना यस्तु प्रतिसम्वत्सरं बुधः।
गुहे वायतने कुर्य्यान्न स दुःखमवाप्नुयात् ।। २६८.३५
न च व्याधिभयं तस्य न च बन्धु धनक्षयः।
जीवेद्वर्षशतं स्वर्गे कल्पमेकञ्च तिष्ठति ।। २६८.३६