मत्स्यपुराणम्/अध्यायः १७७
कालनेमिवृत्तान्तवर्णनम्।
मत्स्य उवाच।
दानवानामनीकेषु कालनेमिर्महासुरः।
विवर्द्धितमहातेजास्तपान्ते जलदो यथा ।। १७७.१
तं त्रैलोक्यान्तरगतं दृष्ट्वा ते दानवेश्वराः।
उत्तस्थुरपरिश्रान्ताः पीत्वामृतमनुत्तमम् ।। १७७.२
ते वीतभयसन्त्रासा मयतारपुरोगमाः।
तारकामयसंग्रामे सततं जितकाशिनः ।। १७७.३
रेजुरायोधनगता दानवाः युद्धकाङ्क्षिणः।
मन्त्रमभ्यसतान्तेषां व्यूहञ्च परिधावताम्।। १७७.४
प्रेक्षताञ्चाभवत् प्रीतिर्दानवं कालनेमिनम्।
ये तु तत्र मयस्यासन् मुख्या युद्धपुरःसराः ।। १७७.५
ते तु सर्वे भयन्त्यक्त्वा हृष्टा योद्धुमुपस्थिताः।
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ।। १७७.६
विप्रचित्तिसुतः श्वेनः खरलम्बावुभावपि।
अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च ।। १७७.७
स्वर्भानुश्चामर प्रख्यो वक्त्रयोधी महासुरः।
एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः ।। १७७.८
दानवाः कृतिनो जग्मुः कालनेमिं तमुद्धतम्।
ते गदाभिर्भुशुण्डीभिश्चक्रैरथ परश्वधैः ।। १७७.९
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः।
अश्मभिश्चाद्रिसदृशैः गण्डशैलैश्च दारुणैः ।। १७७.१०
पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायसैः।
घातनीभिः सुगुर्वीभिः शतघ्नीभिस्तथैव च ।। १७७.११
युगैर्यन्त्रैश्च निर्मुक्तैर्मार्गणैरुग्रताडितैः।
दौर्भिश्चायतदीप्तैश्च प्रासैः पाशैश्च मूर्च्छनैः ।। १७७.१२
भुजङ्गवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः।
वज्रैः प्रहरणीयैश्च दीव्यमानैश्च तोमरैः ।। १७७.१३
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः।
दैत्याः संदीप्तमनसः प्रगृहीतशरासनाः ।। १७७.१४
ततः पुरस्कृत्य तदा कालनेमिं महाहवे।
सा दीप्तशस्तप्रवरा दैत्यानां रुरुचे चमूः ।। १७७.१५
द्यौर्निमीलितसर्वाङ्ग घना नीलाम्बुदागमे।
देवतानामपि चमूः मुमुदे शक्रपालिता ।। १७७.१६
उपेता सितकृष्णाभ्यां ताराभ्यां चन्द्रसूर्ययोः।
वायुवेगवती सौम्या तारागणपताकिनी ।। १७७.१७
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी।
यमेन्द्रवरुणैर्गुप्ता धनदेव च धीमता ।। १७७.१८
सम्प्रदीप्ताग्नि नयना नारायण परायणा।
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।। १७७.१९
रराजास्त्रवती भीमा यक्षगन्धर्व शालिनी।
तयोश्चम्वोस्तदानीन्तु बभूव स समागमः ।। १७७.२०
द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये।
तद्युद्धमभवद् घोरं देवदानवसङ्कलम् ।। १७७.२१
क्षमा पराक्रमपरं दर्पस्य विनयस्य च।
निश्चक्रमुर्बलाभ्यान्तु भीमास्तत्र सुरासुराः ।। १७७.२२
पूर्वा पराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः।
ताभ्यां बलाभ्यां संदृष्टाश्चेरुस्ते देवदानवाः ।। १७७.२३
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः।
समाजघ्नुस्ततोभेरीः शङ्खान्दध्मुरनेकशः ।। १७७.२४
स शब्दोद्यां भुवं खञ्च दिशश्च समपूरयत्।
ज्याघात तलनिर्घोषो धनुषां कूजितानि च ।। १७७.२५
दुन्दुभीनाञ्च निनदो दैत्यमन्तर्दधुः स्वनम्।
तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ।। १७७.२६
बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः।
देवास्तु चाशनिं घोरं परिघांश्चोत्तमायसान् ।। १७७.२७
निस्त्रिंशान् ससृजुः संख्ये गदागुर्वीश्च दानवाः।
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।। १७७.२८
परिपेतुर्भृशं केचित् पुनः केचित्तु जघ्निरे।
ततो रथैः सतुरगैः र्विमानैश्चाशुगामिभिः ।। १७७.२९
समीयुस्ते सुसंरब्धा रोषादन्योन्यमाहवे।
संवर्तमानाः समरे सन्दष्टौष्ठ पुटाननाः ।। १७७.३०
रथारथैर्निरुध्यन्ते पादाताश्च पदातिभिः।
तेषां रथानान्तुमुलः स शब्दः शब्दवाहिनाम् ।। १७७.३१
नभोनभश्च हि यथा नभस्यैर्जलदस्वनैः।
बभञ्जुस्तु रथान् केचित् केचित् सम्पाटितारथैः ।। १७७.३२
सम्बाधमन्ये सम्प्राप्य न शेकुश्चलितुं रथान्।
अन्योन्यमन्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः ।। १७७.३३
संह्रादमानाभरणा जघ्नुस्तत्रापि चर्मिणः।
अस्त्रैरन्ये विनिर्भिन्ना वेमू रक्तं हतायुधि।। १७७.३४
क्षरज्जलानां सदृशाः जलदानां समागमे।
तैरस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।। १७७.३५
देवदानव संक्षुब्धं सङ्कुलं युद्धमाबभौ।
तद्दानव महामेघं देवायुध विराजितम् ।। १७७.३६
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ।
एतस्मिन्नन्तरे क्रुद्धः कालनेमिः स दानवः ।। १७७.३७
व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः।
तस्य विद्युच्चलापीडैः प्रदीप्त शनिवर्षिणः ।। १७७.३८
गात्रैर्नागगिरिप्रख्या विनिपेतुर्बलाहकाः
क्रोधान्निश्वसतस्तस्य भ्रूभेद स्वेदवर्षिणः ।। १७७.३९
साग्निस्फुलिङ्गप्रतता मुखान्निष्पेतुरर्चिषः।
तिर्यगूर्ध्वञ्च गगने ववृधुस्तस्य बाहवः।। १७७.४०
पर्वतादिव निष्क्रान्ताः पञ्चास्या इव पन्नगाः।
सोऽस्त्रजालैर्बहुविधैर्धनुभिः परिघैरपि ।। १७७.४१
दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव।
सोऽनिलोद्धूतवसनस्तस्थौ संग्रामलालसः ।। १७७.४२
सन्ध्या तपग्रस्तशिलः साक्षान्मेरुरिवाचलः।
ऊरुवेग प्रमथितैः शैलश्रृङ्गाग्र पादपैः ।। १७७.४३
अपातयद् देवगणान् वज्रेणेव महागिरीन्।
बहुभिः शस्त्रनिस्त्रिंश्छिन्नभिन्न शिरोरुहाः ।। १७७.४४
न शेकुश्चलितुं देवाः कालनेमिहता युधि।
मुष्टिभिर्निहताः केचित् केचित्तु विदलीकृताः ।। १७७.४५
यक्षगन्धर्व पतयः पेतुः सह महोरगैः।
तेन वित्रासिता देवाः समरे कालनेमिना ।। १७७.४६
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः।
तेन शक्रः सहस्राक्षः स्पन्दितः शरबन्धनैः ।। १७७.४७
ऐरावतगतः संख्ये चलितुं न शशाक ह।
निर्जलाम्भोद सदृशो निर्जलार्णव सप्रभः ।। १७७.४८
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे।
रणो वैश्रवणस्तेन परिघैः कामरूपिणा।। १७७.४९
वित्तदोऽपि कृतः संख्ये निर्जितः कालनेमिना।
यमः सर्वहरस्तेन मृत्युप्रहरणे रणे ।। १७७.५०
याम्यामवस्थां सन्त्यज्य भीतः स्वन्दिशमाविशत्।
स लोकपालानुत्सार्य कृत्वा तेषाञ्च कर्म्म तत् ।। १७७.५१
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा।
स नक्षत्र पथड्गत्वा दिव्यं स्वर्भानुदर्शनम् ।। १७७.५२
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत्।
चालयामास दीप्ताशं स्वर्गद्वारात् स भास्करम् ।। १७७.५३
सायनञ्चास्य विषयं जहार दिनकर्म्म च।
सोऽग्ने देवमुखं दृष्ट्वा चकारात्म मुखाश्रयम् ।। १७७.५४
वायुञ्च तरसा जित्वा चकारात्म वशानुगम्।
स समुद्रान् समानीय सर्वाश्च सरितो बलात् ।। १७७.५५
चकारात्ममुखे वीर्याद्देहभूताश्च सिन्धवः।
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।। १७७.५६
स स्वयम्भुवि वा भाति महाभूत पतिर्यथा।
सर्वलोकमयो दैत्यः सर्वभूत भयावहः ।। १७७.५७
स लोकपालैकवपुश्चन्द्रादित्य ग्रहात्मवान्।
स्तापयामास जगतीं सुगुप्तां धरणीधरैः ।। १७७.५८
पावकानिलसम्पातो रराज युधि दानवः।
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे ।
तं तुष्टुवुर्दैत्यगणा देवा इव पितामहम् ।। १७७.५९