मत्स्यपुराणम्/अध्यायः २७०
मण्डपलक्षणवर्णनम्।
सूत उवाच।
अथातः संप्रवक्ष्यामि मण्डपानान्तु लक्षणम्।
मण्डपप्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ।। २७०.१
विविधा मण्डपाः कार्या ज्येष्ठमध्यकनीयसः।
नामतस्तान् प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः ।। २७०.२
पुष्पकः पुष्पभद्रश्च सुव्रतोऽमृतनन्दनः।
कौशल्यो बुद्धि संकीर्णो गजभद्रो जयावहः ।। २७०.३
श्रीवत्सो विजयश्चैव वास्तुकीर्तिः श्रुतिजयः।
यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुमर्दनः ।। २७०.४
भागपञ्चो नन्दनञ्च मानवो मानभद्रकः।
सुग्रीवो हरितश्चैव कणिकारः शतर्द्धिकः ।। २७०.५
सिंहश्च श्यामभद्रश्च सुभद्रश्च तथैव च।
सप्तविंशतिराख्याता लक्षणं श्रृणुत! द्विजाः! ।। २७०.६
स्तम्भा यत्र चतुःषष्टि पुष्पकः समुदाहृतः।
द्विषष्टिपुष्पभद्रस्तु षष्टिः सुव्रत उच्यते ।। २७०.७
अष्टपञ्चाशकसस्तम्भः कथ्यते मृतनन्दनः।
कौशल्यः षट्चपञ्चाशच्चतुः पञ्चाशता पुनः ।। २७०.८
नाम्ना तु बुद्धिसंकीर्णो द्विहीनो गजभद्रकः।
जयावहस्तु पश्चाशत् श्रीवत्सस्तद्विहीनकः ।। २७०.९
विजयस्तद्विहीनः स्यात् वास्तुकीर्तिस्तथैव च ।
द्वाभ्यामेव प्रहीयेत ततः श्रुतिजयोऽपरः ।। २७०.१०
चत्वारिंशद्यज्ञभद्रस्तद्विहीनो विशालकः।
षट्त्रिंशच्चैव सुश्लिष्टो द्विहीनः शत्रुमर्द्दनः ।। २७०.११
द्वात्रिंशद् भागपञ्चस्तु(?) त्रिंशद्भिर्नन्दनः स्मृतः।
अष्टाविंशन् मानवस्तु मानभद्रो द्विहीनकः ।। २७०.१२
चतुर्विंशस्तु सुग्रीवो द्वाविंशो वर्षणो मतः।
विंशतिः कर्णिकारः स्यादष्टादश शतर्धिकः ।। २७०.१३
सिंहो भवेद् विहीनश्च श्यामभद्रो द्विहीनकः।
सुभद्रस्तु तथा प्रोक्तो द्वादशस्तम्भ उच्यते ।। २७०.१४
मण्डपाः कथितास्तुभ्यं यथावल्लक्षणान्विताः ।
त्रिकोणं वृतमर्द्धन्तु ह्यष्टकोणं द्विरष्टकम् ।। २७०.१५*
चतुः कोणन्तु कर्तव्यं संस्थानं मण्डपस्य तु।
राज्यञ्च विजयश्चैव आयुवर्द्धनमेव च ।। २७०.१६
पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादि क्रमाद् भवेत्।
एवं तु शुभदाः प्रोक्ताश्चान्यथा त्वशुभावहाः ।। २७०.१७
चतुःषष्टिपदं कृत्वा मध्ये द्वारं प्रकल्पयेत्।
विस्ताराद् द्विगुणोच्छ्रायं तत्त्रिभागः कटिर्भवेत् ।। २७०.१८
विस्तारार्द्धो भवेद् गर्भो भित्तयोऽन्याः समन्ततः।
गर्भपादेन विस्तीर्णं द्वारं त्रिगुणमायतम् ।। २७०.१९
तथा द्विगुणविस्तीर्ण मुखस्तद्वदुदुम्बरः।
विस्तारपादप्रतिमं बाहुल्यं शाखयोऽस्मृतम्(?)।। २७०.२०
त्रिपञ्चसप्तनवभिः शाकाभिर्द्वारमिष्यते।
कनिष्ठमध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत् ।। २७०.२१
अङ्गुलानां शतं सार्द्धं चत्वारिंशत् तथोन्नतम्।
त्रिशद्विंशोत्तरं चान्यद्धन्यमुत्तममेव च ।। २७०.२२
शतञ्चाशीतिसहितं वातनिर्गमने भवेत्।
अधिकं दशभिस्तद्वत् तथा षोड़शभिः शतम् ।। २७०.२३
शतमानं तृतीयञ्च नवत्याशीतिभिस्तथा।
दश द्वाराणि चैतानि क्रमेणोक्तानि सर्वदा ।। २७०.२४
अन्यानि वर्जनीयानि मनसोद्वेगदानि तु।
द्वारवेधं प्रयत्नेन सर्ववास्तुषु वर्जयेत् ।। २७०.२५
वृक्ष कोण ब्रमिद्वारस्तम्भ कूपध्वजादपि।
कुड्यश्वभ्रेण वा विद्धं द्वारं न शुभदम्भवेत् ।। २७०.२६
क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा।
दौर्भाग्यं बन्धनं रोगो दारिद्य्रं कलहं तथा ।। २७०.२७
विरोधश्चार्थनाशश्च सर्वं वेधाद् भवेत् क्रमात्।
पूर्वेण फलिनो वृक्षाः क्षीरवृक्षास्तु दक्षिणे ।। २७०.२८
पश्चिमेन जलं श्रेष्ठं पद्मोत्पलविभूषितम्।
उत्तरे सरलैस्तालैः शुभा स्यात् पुष्पवाटिका ।। २७०.२९
सर्वतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव च।
पार्श्वतश्चापि कर्त्तव्यं परिवारादिकालयम् ।। २७०.३०
याम्ये तपोवनस्थानमुत्तरे मातृका गृहम्।
महानसं तथाग्नेये नैर्ऋत्येऽथ विनायकम् ।। २७०.३१
वारुणे श्रीनिवासस्तु वायव्ये गृहमालिका।
उत्तरे यज्ञशाला तु निर्माल्य स्थानमुत्तरे ।। २७०.३२
वारुणे सोमदैवत्ये बलिनिर्वपणं स्मृतम्।
पुरतो वृषभस्थानं शेषे स्यात् कुसुमायुधः ।। २७०.३३
जलं वापि तथैशाने विष्णुस्तु जलशाय्यपि।
एवमायतनं कुर्यात् कुण्डमण्डपसंयुतम् ।। २७०.३४
घण्टा वितानक सतोरण चित्रयुक्तं।
नित्योत्सवप्रमुदितेन जनेन सार्धम्।।
यः कारयेत् सुरगृहं विविधध्वजाङ्कं।
श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ।। २७०.३५
एवं गृहार्चनविधावपि शक्तितः स्यात्।
संस्थापनं सकलमन्त्रविधानयुक्तम् ।।
गोवस्न काञ्चन हिरण्यधराप्रधान।
देयं गुरुद्विजवरेषु तथान्नदानम्।। २७०.३६।।
२७०.१५
टिप्पणी
सौम्ययूपस्य38 दण्डो यदाऽष्टांशः स यजमानाय प्रीतिकामार्थः । कदाचित् तत्कलांशेनांशान् छिन्दन्ति सोऽपराविद्यायां वृषस्तम्भः । अग्निस्तम्भो भवति काम्यानुसारतः शिलायां वा उदुम्बरदारवीयः । शिलायूपो ध्रुवेति शिल्पकाश्यप ज्ञेयम् । यज्ञार्थ सौम्ययूपो , विष्णुयज्ञार्थमष्टांशयूपः, काम्यकर्मार्थे षोडशांश इति ध्येयम्39 । - वास्तुसूत्रोपनिषत् २.१५