मत्स्यपुराणम्/अध्यायः ५६
कृष्णाष्टमीव्रतकथनम्।
श्रीभगवानुवाच।
कृष्णाष्टमीमथो वक्ष्ये सर्वपापाप्रणाशिनीम्।
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः।। ५६.१ ।।
शङ्करं मार्गशिरसि शम्भुं पौषेऽभिपूजयेत्।
माघे महेश्वरं देवं महादेवञ्च फाल्गुने।। ५६.२ ।।
स्थाणुं चैत्रे शिवं तद्वद्वैशाखे त्वर्चयेन्नरः।
ज्यैष्ठे पशुपतिं चार्चेदाषाढ़े उग्रमर्चयेत्।। ५६.३ ।।
पूजयेत् श्रावणे सर्वं नभस्ये त्र्यम्बकं तथा।
हरमाश्वयुजे मासि तथेशानञ्च कार्तिके।। ५६.४ ।।
कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद् द्विजान्।
गो भूहिरण्यवासोभिः शिवभक्तानुपोषितः।। ५६.५ ।।
गोमूत्रघृतगोक्षीर तिलान् यवकुशोदकम्।
गोश्रृङ्गोदशिरीषार्क बिल्वपत्रदधीनि च।।
पञ्चगव्यञ्च सम्प्राश्य शङ्करं पूजयेन्निशि।। ५६.६ ।।
अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च।
पलाशं जम्बुवृक्षञ्च विदुषञ्च महर्षयः।। ५६.७ ।।
मार्गशीर्षाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात्।
एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत्।। ५६.८ ।।
देवाय दद्यादर्घ्यं च कृष्णाङ्गं कृष्णवाससम्।
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ।। ५६.९ ।।
द्विजानामुदकुम्भांश्च पञ्चरत्न समन्वितान्।
गावः कृष्णाः सुवर्णञ्च वासांसि विविधानि च
अशक्तस्तु पुनर्दद्याद् नामेकामपि शक्तितः।। ५६.१० ।।
न वित्तशठ्यं कुर्वीत कुर्वन् दोषमवाप्नुयात्।
कृष्णाष्टमीमुपोष्येव सप्तकल्पशतत्रयम्।।
पुमान् स्रम्पूजितो देवैः शिवलोके महीयते।। ५६.११ ।।