मत्स्यपुराणम्/अध्यायः ११७
हिमवद्वर्णनम्।
सूत उवाच।
आलोकयन्नदीं पुण्यान्तत्समीपहृतश्रमः।
स गच्छन्नेव दद्रृशे हिमवन्तं महागिरिम्।। ११७.१ ।।
खमुल्लिखद्भिः बहुभिर्वृतं श्रृङ्गैस्तु पाण्डुरैः।
पक्षिणामपि सञ्चारैर्विना सिद्धगतिं शुभम्।। ११७.२ ।।
नदीप्रवाहसञ्जातमहाशब्देः समन्ततः।
असंश्रुतान्यशब्दन्तं शीततोयं मनोरमम्।। ११७.३ ।।
देवदारुवनैर्नीलैः कृताधोवसनं शुभम्।
मेघोत्तरीयकं शैलं दद्रृशे स नराधिपः।। ११७.४ ।।
श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित्।
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम्।। ११७.५ ।।
चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा।
शीतप्रदं निदाघेऽपि शिलाविकटसङ्कटम्।।
सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित्।। ११७.६ ।।
क्वचित्संपृष्टसूर्य्यांशुं क्वचिच्च तमसावृतम्।
दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत्।। ११७.७ ।।
क्वचिद्विद्याधरगणैः क्रीड़द्भिरुपशोभितम्।
उपगीतं तथा मुख्यैः किन्नराणाङ्गणैः क्वचित्।। ११७.८ ।।
आपानभूमौ गलितैर्गन्धर्वाप्सरसां क्वचित्।
पुष्पैः सन्तानकादीनां दिव्यैस्तमुपशोभितम्।। ११७.९ ।।
सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित्।
मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम्।। ११७.१० ।।
निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः।
क्वचिच्च कुसुमैर्युक्तमत्यन्तरुचिरं शुभम्।। ११७.११ ।।
तपस्विशरणं शैलं कामिनामतिदुर्लभम्।
मृगैर्यथानुचरितन्दन्तिभिन्नमहाद्रुमम्।। ११७.१२ ।।
यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम्।
द्रृश्यते न च संस्रान्तं गजानामाकुलं कुलम्।। ११७.१३ ।।
तटाश्च तापसैर्यत्र कुञ्जदेशैरलङ्कृताः।
रत्नैर्यस्यसमुत्पन्नैस्त्रैलोक्यं समलङ्कृतम्।। ११७.१४ ।।
अहीनशरणं नित्यमहीनजनसेवितम्।
अहीनः पश्यति गिरिमहीनं रत्नसम्पदा।। ११७.१५ ।।
अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः।
यस्य दर्शनमात्रेण सर्वकल्मषनाशनम्।। ११७.१६ ।।
महाप्रपातसम्पातप्रपातादिगताम्बुभिः।
वायुनीतैः सदा तृप्तिकृतदेशं क्वचित् क्वचित्।। ११७.१७ ।।
समालब्धजलैः शृङ्गैः क्वचिच्चापि समुच्छ्रितैः।
नित्यर्क ताप विषमैरगम्यैर्मनसा युतम्।। ११७.१८ ।।
देवदारुमहावृक्षव्रजशाखानिरन्तरैः।
वंशस्तम्बवनाकारैः प्रदेशेरुपशोभितम्।। ११७.१९ ।।
हिमच्छत्रमहाशृङ्गं प्रपातशतनिर्झरम्।
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम्।। ११७.२० ।।
द्रृष्टैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः।
बभ्राम तत्रैव मुदा समेतस्थानं तदा किञ्चिदथाससाद।। ११७.२१ ।।