मत्स्यपुराणम्/अध्यायः १८२
वारणसीमाहात्म्यम्।
सूत उवाच।
कैलासपृष्ठमासीनं स्कन्दं ब्रह्म विदाम्वरम्।
पृच्छन्ति ऋषयः सर्वे सनकाद्या स्तपोधना ।। १८२.१ ।।
तथा राजर्षयः सर्वे ये भक्तास्तु महेश्वरे।
ब्रूहि त्वं स्कन्द! भूलोके यत्र नित्यं भवः स्थितः ।। १८२.२ ।।
स्कन्द उवाच।
महात्मा सर्वभूतात्मा देवदेवः सनातनः।
घोररूपं समास्थाय दुष्करं देवदानवैः ।। १८२.३ ।।
आभूतसम्प्लवं यावत् स्थाणु भूतस्थितः प्रभुः।
गुह्यानां परमं गुह्यमविमुक्तमिति स्मृतम् ।। १८२.४ ।।
अविमुक्ते सदा सिद्धिर्यत्र नित्यं व्यवस्थितः।
अस्य क्षेत्रस्य माहात्म्यं यदुक्तंत्वीश्वरेण तु ।। १८२.५ ।।
स्थानान्तरं पवित्रञ्च तीर्थमायतनं तथा।
श्मशान संस्थितं वेश्म दिव्यमन्तर्हितञ्च यत् ।। १८२.६ ।।
भूलोकेनैव संयुक्तमन्तरिक्षे शिवालयम्।
अयुक्तास्तु न पश्यन्ति युक्ताः पश्यन्ति चेतसा ।। १८२.७ ।।
ब्रह्मचर्यव्रतोपेताः सिद्धा वेदान्तकोविदाः।
आदेहपतनाद्यावत् तत्क्षेत्रं यो न मुञ्चति ।। १८२.८ ।।
ब्रह्मचर्यव्रतैः सम्यक् सम्यगिष्टं मुखैर्भवेत्।
अपापात्मागतिः सर्वा यातूक्ता च क्रियावताम् ।। १८२.९ ।।
यस्तत्र निवसेद्विप्रो संयुक्तात्मा समाहितः।
त्रिकालमपि भुञ्जानो वायुभक्षसमो भवेत् ।। १८२.१० ।।
निमेषमात्रमपि यो ह्यविमुक्ते तु भक्तिमान्।
ब्रह्मचर्यसमायुक्तः परमं प्राप्नुयात्तपः ।। १८२.११ ।।
यत्र मासं वसेद्धीरोः लघ्वाहारो जितेन्द्रियः।
सम्यक् तेन व्रतं चीर्णं दिव्यं पाशुपतं महत् ।। १८२.१२ ।।
जन्ममृत्युभयन्तीर्त्वा स याति परमाङ्गतिम्।
नैश्रेयसीं गतिं पुण्यां तथा योग गतिं व्रजेत् ।। १८२.१३ ।।
न हि योगगतिर्दिव्या जन्मान्तर शतैरपि।
तस्य क्षेत्रस्य माहात्म्यात् ब्रह्महत्या निवर्तते ।। १८२.१४ ।।
ब्रह्महा योऽभिगच्छेत्तु अविमुक्तं कदाचन।
तस्य क्षेत्रस्य माहात्म्यात् ब्रह्महत्या निवर्तते ।। १८२.१५ ।।
आदेह पतनाद्यावत् क्षेत्रं यो न विमुञ्चति।
न केवलं ब्रह्महत्या प्राक्कृता च निवर्तते ।। १८२.१६ ।।
प्राप्य विश्वेश्वरं देवं न सा भूयोऽभिजायते।
अनन्यमानसोभूत्वा यो विमुक्तं न मुञ्चति ।। १८२.१७ ।।
तस्य दैवः सदा तुष्टः सर्वान् कामान् प्रयच्छति।
द्वारं यत् साङ्ख्ययोगानां स तत्र वसति प्रभुः ।। १८२.१८ ।।
सगणो हि भवो देवो भक्तानामनुकम्पया।
अविमुक्तं परं क्षेत्रमविमुक्ते परा गतिः।। १८२.१९ ।।
अविमुक्ते परा सिद्धिरविमुक्ते परं पदम्।
अविमुक्तं निषेवेत देवर्षिगणसेवितम् ।। १८२.२० ।।
यदीच्छेन्मानवो धीमान् न पुनर्जायते क्वचित्।
मेरोः शक्तो गुणान्वक्तुं द्वीपानाञ्च तथैव च ।। १८२.२१ ।।
समुद्राणाञ्च सर्वेषां नाविमुक्तस्य शक्यते।
अन्तकाले मनुष्याणां छिद्यमानेषु मर्मसु ।। १८२.२२ ।।
वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते।
अविमुक्ते ह्यन्तकाले भक्तानामीश्वरः स्वयम् ।। १८२.२३ ।।
कर्मभिः प्रेर्यमाणानां कर्णजापं प्रयच्छति।
मणिकर्ण्यां त्यजन्देहं गतिमिष्टां व्रजेन्नरः ।। १८२.२४ ।।
ईश्वरप्रेरितो याति दुष्प्रापमकृतात्मभिः।
अशाश्वतमिदं ज्ञात्वा मानुषं बहुकिल्बिषम् ।। १८२.२५ ।।
अविमुक्तं निषेवेत संसारभयमोचनम्।
योगक्षेमप्रदं दिव्यं बहुविघ्नविनाशनम् ।। १८२.२६ ।।
विघ्नैश्चालोड्यमानोऽपि यो ऽविमुक्तं न मुञ्चति।
स मुञ्चति जरा मृत्युं जन्म चैतदशाश्वतम्
अविमुक्ते प्रसादात्तु शिवसायुज्यमाप्नुयात् ।। १८२.२७ ।।