मत्स्यपुराणम्/अध्यायः २६७
देवप्रतिष्ठाविधिवर्णनम्।
सूत उवाच।
अथातः संप्रवक्ष्यामि देवस्नपनमुत्तमम्।
अर्घस्यापि समासेन श्रृणुत्वं विधिमुत्तमम् ।। २६७.१
दध्यक्षतकुशाग्राणि क्षीरं दूर्वा तथा मधु।
यवाः सिद्धार्थकास्तद्वदष्टाङ्गोऽर्घः फलैः सह ।। २६७.२
गजाश्वरथ्यावल्मीकवराहोत्खातमण्डलाम्।
अग्न्यागारात्तथा तीर्थाद् व्रजाद् गोमण्डलादपि ।। २६७.३
कुम्भे तु मृत्तिकां दद्यादुद्धृतासीति मन्त्रवित्।
शन्नोदेवीत्यपां मन्त्रमापोहिष्ठेति वै तथा ।। २६७.४
सावित्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राव्णोति वै दधि ।। २६७.५
तेजोसीति घृतं तद्वद्देवस्यत्वेति चोदकम्।
कुशमिश्रं क्षिपेद्विद्वान् पञ्चगव्यं भवेत्ततः ।। २६७.६
स्नाप्याथ पञ्चगव्येन दघ्ना शुद्धेन वै ततः।
दधिक्राव्णोति मन्त्रेण स्नापयेद् रत्नवारिणा ।। २६७.७
कुशाम्भसा ततः स्नानं देवस्यत्वेति कारयेत्।
फलोदकेन च स्नानमग्न आयाहि कारयेत् ।। २६७.८
ततस्तु गन्धतोयेन सावित्र्या चाभिमन्त्रयेत्।
ततो घटसहस्रेण सहस्रार्द्धेन वा पुनः ।। २६७.९
तस्याप्यर्धेन वा कुर्यात् सपादेन शतेन वा।
चतुः षष्ट्या ततोर्धेन तदर्धार्धेन वा पुनः ।। २६७.१०
चतुर्भिरथवा कुर्याद् धटानामल्पवित्तवान्।
सौवर्णै राजतैर्वापि ताम्रैर्वा रीतिकोद्भवैः ।। २६७.११
कांस्यैर्वा पार्थिवैर्वापि स्नपनं शक्तितो भवेत्।
सहदेवी वचाव्याघ्री बला चातिबला तथा ।। २६७.१२
शङ्खपुष्पी तथा सिंही ह्यष्टमी च सुवर्चला।
महौषध्यष्टकं ह्येतत् महास्नानेषु योजयेत् ।। २६७.१३
यवगोधूमनीवार तिलश्यामाकशालयः।
प्रियङ्गवो व्रीहयश्च स्नानेषु परिकल्पिताः ।। २६७.१४
स्वस्तिकं पद्मकं शङ्खमुत्पलं कमलं तथा।
श्रीवत्सं दर्पणन्तद्वन्नन्द्यावर्तमथाष्टकम् ।। २६७.१५
एतानि गोमयैः कुर्य्यान् मृदा च शुभया ततः।
पञ्चवर्णादिकं तद्वत् पञ्चवर्णं रजस्तथा ।। २६७.१६
दूर्वा कृष्णतिलान् दद्यान्नीराजनविधिं ततः।
एवं नीराजनं कृत्वा दद्यादाचमनं बुधः ।। २६७.१७
मन्दाकिन्यास्तु यद्वारि सर्वपापापहं शुभम्।
ततो वस्त्रयुगं दद्यात् मन्त्रेणानेन यत्नतः ।। २६७.१८
देवसूत्रसमायुक्ते यज्ञदानसमन्विते।
सर्ववर्णे शुभे देव वाससी ते विनिर्मिते ।। २६७.१९
ततस्तु चन्दनं दद्यात् समं कर्पूरकुङ्कुमैः।
इममुच्चारयेन्मन्त्रं दर्भपाणिः प्रयत्नतः ।। २६७.२०
शरीरन्ते न जानामि चेष्टां नैव च नैव च।
मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् ।। २६७.२१
चत्वारिंशत्ततो दीपान् दद्याच्चैव प्रदक्षिणान्।
त्वं सूर्यचन्द्रज्योतींषि विद्युदग्निस्तथैव च ।। २६७.२२
त्वमेव सर्वज्योतींषि दीपोऽयं प्रतिगृह्यताम्।
ततस्त्वनेन मन्त्रेण धूपं दद्याद्विचक्षणः ।। २६७.२३
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। २६७.२४
ततस्त्वाभरणं दद्यान् महाभूषाय ते नमः।
अनेन विधिना कृत्वा सप्तरात्रं महोत्सवम् ।। २६७.२५
देवकुम्भैस्ततः कुर्याद् यजमानोऽभिषेचनम्।
चतुर्भिरष्टभिर्वापि द्वाभ्यामेकेन वा पुनः ।। २६७.२६
स पञ्चरत्नकलशैः सितवस्त्राभिवेष्टितैः।
देवस्यत्वेति मन्त्रेण साम्ना चाथर्वणेन च ।। २६७.२७
अभिषेके च ये मन्त्रा नवग्रहमखे स्मृताः।
सिताम्बरधरः स्नात्वा देवान् संपूज्य यत्नतः ।। २६७.२८
स्थापकं पूजयेद् भक्त्या वस्त्रालङ्कारभूषणैः।
यज्ञभाण्डानि सर्वाणि मण्डपोपस्करादिकम् ।। २६७.२९
यच्चान्यदपि तद् गेहे तदाचार्याय दापयेत्।
सुप्रसन्ने गुरौ यस्मात्तुष्यन्ते सर्वदेवताः ।। २६७.३०
नैतद्विशीलेन च दाम्भिकेन न लिङ्गिना स्थापनमत्र कार्यम्।
विप्रेण कार्यं श्रुतिपारगेण गृहस्थधर्माभि रतेन नित्यम् ।। २६७.३१
पाखण्डिनं यस्तु करोति भक्त्या विहाय विप्रान् श्रुतिधर्मयुक्तान्।
गुरुं प्रतिष्ठादिषु तत्र नूनं कुलक्षयः स्यादचिरादपूज्यः ।। २६७.३२
स्थानं पिशाचैः परिगृह्यते वा अपूज्यतां यात्यचिरेण शोकः।
विप्रैः कृतं यच्छुभदं कुले स्यात् प्रपूज्यतां याति चिरञ्च कालम् ।। २६७.३३