मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







त्रिपुरे देवदानवयुद्धम्।

सूत उवाच।
मघवा तु निहन्तुं तानसुरानमरेश्वरः।
लोकपाला ययुः सर्वे गणपालाश्च सर्वशः।। १३८.१ ।।

ईश्वरामोदिताः सर्व उत्पेतुश्चाम्बरे तदा।
खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः।। १३८.२ ।।

प्रययुस्तत्परं हन्तुं शरीरमिव व्याधयः।
शङ्खाडम्बरनिर्घोषैः पणवान् पटहानपि।।
नादयन्तः पुरो देवा द्रृष्टास्त्रिपुरवासिभिः।। १३८.३ ।।

हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः।
आजग्मुः परमं क्षोभमत्ययेष्विवसागराः।। १३८.४ ।।

सुरतूर्य्यरवं श्रुत्वा दानवा भीमदर्शनाः।
निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः।। १३८.५ ।।

भूयोदीरितवीर्य्यास्ते परस्परकृतागसः।
पूर्वदेवैश्च देवाश्च सूदयन्तः परस्परम्।। १३८.६ ।।

आक्रोशेऽपि समप्रख्ये तेषां देहनिकृन्तनम्।
प्रवृत्तं युद्धमतुलं प्रहारकृतनिस्वनम्।। १३८.७ ।।

श्वसन्त इव नागेन्द्रा भ्रमन्त इव पक्षिणः।
गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः।। १३८.८ ।।

जृम्भन्त इव शार्दूलाः प्रवान्त इव वायवः।
प्रवृद्धोर्मि तरङ्गालाः क्षुभ्यन्त इव सागराः।। १३८.९ ।।

प्रमथाश्च महाशूरा दानवाश्च महाबलाः।
युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः।। १३९.१० ।।

कार्मुकाणां निकृष्टानां बभूवुर्दारुणा रवाः।।
कालानुगानां मेघानां यथा वियति वायुना।। १३८.११ ।।

आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतोह्यसि।
प्रहराशुस्थितोऽस्म्यत्र एहि दर्शय पौरुषम्।। १३८.१२ ।।

गृहाण च्छिन्धि भिन्धीति खाद मारय दारय।
इत्यन्योऽन्यमनूच्चार्य्य प्रययुर्यमसादनम्।। १३८.१३ ।।

खङ्गापवर्जिताः केचित्केचिच्छिन्नाः परश्वधैः।
केचिन्‌मुद्गरछूर्णाश्च केचिद्‌बाहुभिराहताः।। १३८.१४ ।।

पट्टिशैः सूदिताः केचित्केचिच्छूलविदारिताः।

दानवाः शरपुष्पाभाः सवना इव पर्वताः।
निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले।। १३८.१५ ।।

व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः।
सम्बभूवार्णवे शब्दः सजलाम्बुदनिस्वनः।। १३८.१६ ।।

तेन शब्देन मकरा नक्रास्तिमितिमिङिगलाः।
मत्ता लोहित गन्धेन क्षोभयन्तो महर्णवम्।। १३८.१७ ।।

परस्परेण कलहं कुर्वाणा भीममूर्त्तयः।
भ्रमन्ते भक्षयन्तश्च दानवानाञ्च लोहितम्।। १३८.१८ ।।

सरथान् सायुधान् साश्वान् सवस्त्राभारणावृतान्।
जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान्।। १३८.१९ ।।

मृधं यथा सुराणाञ्च प्रमथानां प्रवर्त्तते।
अम्बरेऽम्भसि च तथा युद्धं चक्रुर्जलेचराः।। १३८.२० ।।

यथा भ्रमन्ति प्रमथाः सदैत्यास्तथा भ्रमन्ते तिमयः सनक्राः।
यथैव छिन्दन्ति परस्परन्तु तथैव क्रन्दन्ति विभिन्नदेहाः।। १३८.२१ ।।

व्रणाननैरङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च।
कृतो मुहूर्त्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः।। १३८.२२ ।।

पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः।
निपीड्य तस्थौ महता बलेन युक्तोऽमराणां महता बलेन।। १३८.२३ ।।

तथोत्तरं सस्तनुजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः।
स्कन्दः पुरद्वारमथारुरोह वृद्धोऽस्तश्रृङ्गां प्रपतन्निवार्कः।। १३८.२४ ।।

यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च।
देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम्।। १३८.२५ ।।

दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः।
तद्दक्षिणद्वारमरेः पुरस्य रुद्धावतस्थौ भगवांस्त्रिनेत्रः।। १३८.२६ ।।

तुङ्गानि देश्यानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि।
प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः। १३८.२७ ।।

उत्पाट्य चोत्पाट्य गृहाणि तेषाम् सशैलमालासमवेदिकानि।
प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः।। १३८.२८ ।।

रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि।
गृहाणि हे नाथ! पितः! सुतेति भ्रातेति कान्तेति प्रियेति चापि।
उत्पाट्यमानेषु गृहेषु नार्य आनार्यशब्दान्विविधान् प्रचक्रुः।। १३८.२९ ।।

कलत्रपुत्रक्षयप्राणनाशे तस्मिन् पुरे युद्धमति प्रवृत्ते।
महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः।। १३८.३० ।।

परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च।
शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं द्रृढ़वैरबद्धम्।। १३८.३१ ।।

अन्योन्यमुद्दिश्य विमर्दता च प्रधावतां चैव विनिघ्नताञ्च।
शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागरान्तः।। १३८.३२ ।।

मार्गाः पुरे लोहितकर्दमालाः स्वर्णेकास्फाटिकभिन्नचित्राः।
कृता मुहूर्त्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्‌घ्रिकराः करालाः।। १३८.३३ ।।

कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः।
तस्मिन् क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण।। १३८.३४ ।।

स तत्र प्राकारगतांश्च भूतान् छातन्महानद्भुतवीर्य्यसत्वः।
चचार चाप्तेन्द्रियगर्वद्रृप्तः पुराद्‌विनिष्क्रम्य ररास घोरम्।। १३८.३५ ।।

ततः स दैत्योत्तम पर्वताभो यथाञ्जसा नाग इवाभिमत्तः।
निवारितो रुद्ररथं जिघृक्षुर्यथार्णवः सर्पति चातिवेलः।। १३८.३६ ।।

शेषः सुधन्वा गिरिशश्च देवश्चतुर्मुखो यः सत्रिलोचनश्च।
ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात् समुद्राः।। १३८.३७ ।।

शेषो गिरीशः सपितामहेशश्चोत्क्षुभ्यमाणः स रथेऽम्बरस्थः।
त्रिभेद सन्धीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान्।। १३८.३८ ।।

एकन्तु ऋग्वेदतुरङ्गमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम्।
तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गमभीक्षमाणः।। १३८.३९ ।।

तदा भवपदन्यासाद्धयस्य वृषभस्य च।
पेतुस्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना।। १३८.४० ।।

ततः प्रभृतिचाश्वानां स्तनादन्ता गवान्तथा।
गूढाः समभवंस्तेन चाद्रृश्यत्वमुपागताः।। १३८.४१ ।।

तारकाख्यस्तु भीमाख्यो रौद्ररक्तान्तरे क्षणः।
रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना।। १३८.४२ ।।

परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम्।
तक्षयामास वै तक्षा चन्दनं गन्धदो यथा।। १३८.४३ ।।

परश्वधहतः शूरः शैलादिः शरभो यथा।
दुद्राव खङ्गं निष्कृष्य तारकाख्यो गणेश्वरम्।। १३८.४४ ।।

यज्ञोपवीतमादाय चिच्छेद च निनाद च।
ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः।।
गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते।। १३८.४५ ।।

प्रमथा रसितं श्रुत्वा वादित्रस्वनमेव च।
पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयोऽब्रवीत्।। १३८.४६ ।।

बहुवदनवतां किमेव शब्दो नदतां श्रूयते भिन्नसागराभः।
वद वचनन्तडिमालिन् किङ्किमे तद्रणपाला युयुधुर्ययुर्गजेन्द्राः।। १३८.४७ ।।

इति मयवचनाङ्कुशार्दितस्तन्तडिमाली रविरिवांशुमाली।
रणशिरसि समागतः सुराणां निजगादेदमरिन्दमोऽतिहर्षात्।। १३८.४८ ।।

यमवरुणमहेन्द्र रुद्रवीर्यस्तवयशसो निधिर्धीरतारकाख्यः।
सकलसमरशीर्षपर्वतेन्द्रो युद्‌ध्वा यस्तपति हि तारको गणेन्द्रैः।। १३८.४९ ।।

मृदितमुपनिशम्य तारकाख्यम् रविदीप्तानलभीषणायताक्षम्।
हृषितसकलनेत्रलोमसत्वाः प्रमथास्तोयमुचो यथा नदन्ति।। १३८.५० ।।

इति सुहृदो वचनं निशम्य तत्वं तडिमालेः स मयस्तु वर्णमाली।
रणशिरस्यसिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम्।। १३८.५१ ।।

विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया।
करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम्।। १३८.५२ ।।

विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः।
गणान् जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः।। १३८.५३ ।।

येन येन ततो विद्युन्माली याति मयश्च सः।
तेन तेन पुरं शून्यं प्रमथोपहृतङ्‌कृतम्।। १३८.५४ ।।

अथ यमवरुणमृदङ्गघोषैः पणव डिण्डिम ज्या स्वन प्रघोषैः।
सकरतलपुटैश्च सिंहनादैर्भवमभिपूज्य सुरावतस्थुः।। १३८.५५ ।।

संपूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर्विभुः।
अभिष्टुतः सत्यरतैस्तपोधनैर्यथास्तश्रृङ्गाभिगतो दिवाकरः।। १३८.५६ ।।