मत्स्यपुराणम्/अध्यायः १५२
तारकासुरोपाख्याने देवासुरयुद्धवर्णनम्।
सूत उवाच।
तस्मिन् विनिहते दैत्ये ग्रसने लोकनायके।
निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ।। १५२.१
पट्टिशैर्मुशलैः पाशैर्गदाभिः कुशलैरपि।
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ।। १५२.२
तानस्त्रान् दानवैर्मुक्तान् चित्रयोधी जनार्दनः।
एकैकं शतशश्चक्रे बाणैरग्निद्विजोपमैः ।। १५२.३
ततः क्षीणायुधप्राया दानवा भ्रान्तचेतसः।
अस्त्राण्यादातुमभवन्न समर्था यदा रणे।। १५२.४
तदा मृतैर्गजैरश्वैर्जनार्दनमयोधयन्।
समन्तात् कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ।। १५२.५
बहु कृत्वा वपुर्विष्णुः किञ्चिच्छ्रान्त भुजोऽभवत्।
उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ।। १५२.६
गरुत्मन्! कच्चिदश्रान्तस्त्वमस्मिन्नपि साम्प्रतम्।
यद्यश्रान्तोऽसि तद्याहि मथनस्य रथम्प्रति ।। १५२.७
श्रान्तोऽस्यथ मुहूर्तन्त्वं रणादपसृतो भव।
इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ।। १५२.८
आससाद रणे दैत्यं मथनं घोरदर्शनम्।
दैत्यस्त्वभिमुखं दृष्ट्वा शङ्ख वक्र गदाधरम् ।। १५२.९
जघान भिन्दिपालेन शितबाणेन वक्षसि।
तत् प्रहारमचिन्त्यैव विष्णुस्तस्मिन् महाहवे ।। १५२.१०
जघान पञ्चभिर्बाणैर्मार्जितैश्च शिलाशितैः।
पुनर्दशभिराकृष्टैः तं तताड स्तनान्तरै ।। १५२.११
विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत।
स मुहूर्तं समाश्वास्य जग्राह परिघन्तदा ।। १५३.१२
जघ्ने जनार्दने चापि परिघेणाग्निवर्चसा।
विष्णुस्तेन प्रहारेण किञ्चिदाघूर्णितोऽभवत् ।। १५३.१३
ततः क्रोधविवृत्ताक्षो गदाञ्जग्राह माधवः।
मथनं सरथं रोषान्निष्पिपेषाथ रोषितः ।। १५२.१४
स पपाताथ दैत्येन्द्रः क्षयकालेऽचलो यथा।
यस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ।। १५२.१५
अवसादं ययुर्दैत्याः कर्दमे करिणो यथा।
ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ।। १५२.१६
कोपरक्ततया नाम महिषो दानवेश्वरः।
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ।। १५२.१७
तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्।
शक्त्या च गरुडं वीरो महिषोऽभ्यहनद्धृदि।। १५२.१८
ततो व्यावृत्तवदनं महाचलगुहानिभम्।
यस्तु मैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ।। १५२.१९
अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम्।
वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ।। १५२.२०
महिषस्याथ ससृजे बाणौघं गरुडध्वजः।
पिधाय वदनं दिव्यैर्दिव्यास्त्रपरिमन्त्रितैः।। १५२.२१
स तैर्बाणैरभिहतो महिषोऽचलसन्निभः।
परिवर्तितकायोऽधः पपात न ममार च ।। १५२.२२
महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः।
महिषासुर!मत्तस्त्वं वधन्नास्त्रैरिहार्हसि ।। १५२.२३
योषिद्वध्यः पुरोक्तोऽसि साक्षात् कमलयोनिना
उत्तिष्ठ जीवितं रक्ष गच्छास्मात् सङ्गराद् द्रुतम् ।। १५२.२४
तस्मिन् पराङ्मुखे दैत्ये महिषे शुम्भदानवः।
सन्दष्टौष्ठपुटः कोपाद् भ्रुकुटी कुटिलाननः ।। १५२.२५
निर्मथ्य पाणिना पाणि धनुरादाय भैरवम्।
सज्जञ्चकार स धनुः शरांश्चाशी- विषोपमान् ।। १५२.२६
स चित्रयोधी दृढमुष्टिपातस्ततस्तु विष्णुं गरुडञ्च दैत्यः।
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः ।। १५२.२७
विष्णुश्च दैत्येन्द्रशराहतोऽपि भुशुण्डिमादाय कृतान्त तुल्याम्।
तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्रं धरणीधराभम् ।। १५२.२८
तस्मादवप्लुत्य हताच्च मेषाद् भूमौ पदातिः स तु दैत्यनाथः।
ततो महीस्थस्य हरिः शरौघान् मुमोच कालानल तुल्यभासः ।। १५२.२९
शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम्।
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ।। १५२.३०
स तेन बिद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः।
ततोऽस्य किञ्चिच्चलितस्य धैर्यादुवाच शङ्खाम्बुज शार्ङ्गपाणिः ।। १५२.३१
कुमारिवध्योऽसि रणं विमुञ्च शुम्भासुर! स्वल्पतरैरहोभिः।
वधं न मत्तोऽर्हसि चेह मूढ! वृथैव किं युद्धसमुत्सुकोऽसि ।। १५२.३२
शुम्भो वचा विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम्।
गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ।। १५२.३३
जम्भोऽपि विष्णुं परिघेण मूर्ध्नि प्ररुष्टरत्नौघ विचित्रभासा।
तौ दानवाभ्यां विषमैः प्रहारैर्निपेतुरुर्व्यां घनपावकाभौ ।। १५२.३४
तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः।
धनूंषि चास्फोट्य खुराभिघातैर्व्यदारयन् भूमिमपि प्रचण्डाः।
वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ।। १५२.३५
अथ संज्ञामवाप्याशु गरुडोऽपि स केशवः।
पराङ्मुखो रणात्तस्मात् पलायत महाजवः।।१५२.३६