मत्स्यपुराणम्/अध्यायः १६६
प्रलयकालवर्णनम्।
मत्स्य उवाच।
भूत्वा नारायणो योगी सत्वमूर्तिर्विभावसुः!
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ।। १६६.१
ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः।
पर्वतानाञ्च सलिलं सर्वमादायरश्मिभिः ।। १६६.२
भित्वा गभस्तिभिश्चैव महीङ्गत्वा रसातलात्।
पातालजलमादाय पिबन्नु रसमुत्तमम् ।। १६६.३
मूत्रा सृक्क्लेदमन्यञ्च यदस्ति प्राणिषु ध्रुवम्।
तत् सर्वमरविन्दाक्षमादत्ते पुरुषोत्तमः ।। १६६.४
वायुश्च भगवान् भूत्वा विधुन्वानोऽखिलं जगत्।
प्राणापानसमानाद्यात् वायूनाकर्षते हरिः ।। १६६.५
ततो देवगणाः सर्वे भूतान्येव च यानि तु।
गन्धोघ्राणं शरीरञ्च पृथिवीं संश्रिताः गुणाः। ।। १६६.६
जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः।
रूपं चक्षुर्विपाकञ्च ज्योतिरेवाश्रिताः गुणाः ।। १६६.७
स्पर्शः प्राणश्च चेष्टा च पवने संश्रिताः गुणाः।
शब्दः श्रोत्रञ्च खान्येव गगने संश्रिताः गुणाः ।। १६६.८
लोकमाया भगवता मुहूर्त्तेन विनाशिता।
मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ।। १६६.९
तं वरेण्यं परमेष्ठि हृषीकेशमुपाश्रिताः।
ततो भगवतस्तस्य रश्मिभिः परिवारितः ।। १६६.१०
वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रिताः।
तेषां सङ्घर्षणोद्भूतः पावकः शतधा ज्वलन् ।। १६६.११
अदहच्च तदा सर्वं वृतः सम्वर्तकोऽनलः।
सपर्वतद्रुमान् गुल्मान् लतावल्लीस्तृणानि च ।। १६६.१२
विमानानि च दिव्यानि पुराणि विविधानि च।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ।। १६६.१३
भस्मीकृत्वा ततः सर्वान् लोकान् लोकगुरुर्हरिः।
भूयो निर्वापयामास युगान्तेन च कर्मणा ।। १६६.१४
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ।। १६६.१५
ततः क्षीरनिकायेन स्वादुना परमाम्भसा।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ।। १६६.१६
तेन रोधेन संच्छन्ना पयसां वर्षतो धरा।
एकार्णवजलीभूता सर्व सत्वविवर्जिता ।। १६६.१७
महासत्वान्यपि विभुं प्रष्टान्यमितौजसम्।
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ।। १६६.१८
संशोषमात्मना कृत्वा समुद्रानपि देहिनः।
दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः ।। १६६.१९
पौराणां रूपमास्थाय स्वपित्यमितविक्रमः।
एकार्णव जलव्यापी योगी योगमुपाश्रितः ।। १६६.२०
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ।। १६६.२१
कश्चैव पुरुषो नाम किं योगः कश्च योगवान्।
असौ कियन्तं कालञ्च एकार्णव विधिं प्रभुः ।। १६६.२२
करिष्यतीति भगवानिति कश्चिन्न बुध्यते।
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः ।। १६६.२३
तस्य न ज्ञायते किञ्चित्तमृते देवसत्तमम्।
नमः क्षितिः पवनमपः प्रकाशं प्रजापतिं भुवनधरं सुरेश्वरम्।
पितामहं श्रुतिनिलयमहामुनिं प्रशाम्य भूयः शयनं ह्यरोचयम् ।। १६६.२४