मत्स्यपुराणम्/अध्यायः ८६
सुवर्णाचलदानवर्णनम्।
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्।
यस्य प्रदानाद्भवनं वैरिञ्च्यं याति मानवः।। ८६.१ ।।
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः।
तदर्द्धेनाधमस्तद्वदल्पवित्तोऽपि शक्तितः।
दद्यादेकपलादूद्र्ध्वं यथाशक्या विमत्सरः।। ८६.२ ।।
धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुङ्गवः।
विष्कम्भशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्।। ८६.३ ।।
नमस्ते ब्रह्म बीजाय ब्रह्मगर्भाय ते नमः।
यस्मादनन्तफलदस्तस्मात्पाहि नगोत्तम।। ८६.४ ।।
यस्मादग्नेरपत्यं त्वं यस्मात् पुण्यं जगत्पते।
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम।। ८६.५ ।।
अनेन विधिना यस्तु दद्यात् कनकपर्वतम्।।८६.६
स याति परमं ब्रह्म लोकमानन्दकारकम्।
तत्र कल्पशतं तिष्ठेत् ततो याति पराङ्गतिम्।। ८६.६ ।।