मत्स्यपुराणम्/अध्यायः २७९
कामधेनुमहादानविधिवर्णनम्।
अथातः सम्प्रवक्ष्यामि कामदेनु विधं परम्।
सर्वकामप्रदं नृणां महापातकनाशनम् ।। २७९.१
लोकेशावाहनं तद्वद्धोमः कार्योऽधिवासनम्।
तुला पुरुषवत् कुर्यात् कुण्डमण्डपवेदिकम् ।। २७९.२
स्वल्पत्वेकाग्निवत् कुर्यात् गुरुरेकः समाहितः।
काञ्चनस्यातिशुद्धस्य धेनुवत्सञ्च कारयेत् ।। २७९.३
उत्तमा पलसाहस्री तदर्धेन तु मध्यमा।
कनीयसी तदर्धेन कामधेनुः प्रकीर्तिताः ।। २७९.४
शक्तितस्त्रिपलादूर्ध्वमशक्तोऽपीह कारयेत्।
वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थ समन्वितम् ।। २७९.५
न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम्।
कुम्भाष्टकसमोपेतां नानाफल समन्विताम् ।। २७९.६
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत्।
इक्षुदण्डाष्टकं तद्वन्नानाफल समन्वितम्।
भाजनञ्चासनं तद्वत् ताम्रदोहनकं तथा ।। २७९.७
कौशेयवस्त्रद्वयसंयुताङ्गां दीपातपत्राभरणाभिरामाम्।
सचामरां कुण्डलिनी सघण्टां सुवर्णश्रृङ्गीं परिरूप्यपादाम् ।। २७९.८
रसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः।
अजाजिकुस्तुम्बुरुशर्करादिभिर्वितानकञ्चोपरि पञ्चवर्णम् ।। २७९.९
स्नातस्ततोमङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः।
आवाहयेत्तां गुरुणोक्तमन्त्रैः द्विजाय दद्यादथ दर्भपाणिः ।। २७९.१०
त्वं सर्वदेवगणमन्दिरमङ्गभूता विश्वेश्वरि त्रिपथगोदधिपर्वतानाम्।
त्वद्दानशस्त्रशकलीकृतपापकौघः प्राप्तोऽस्मि निर्वृत्तिमतीव परां नमामि।। २७९.११
लोके यथेप्सितफलार्थविदायिनीं त्वामासाद्य को हि भुवि दुःखमुपैति मर्त्यः।
संसारदुःखशमनाय यतस्व कामं त्वां कामधेनुमिति देवगणा वदन्ति ।। २७९.१२
आमन्त्र्य शीलकुलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात्।
प्राप्नोति धाम स पुरन्दरदेवजुष्टं कन्यागणैः परिवृतः पदमिन्दुमौलेः ।। २७९.१३