मत्स्यपुराणम्/अध्यायः ११३
द्वीपसमुद्रपर्वतानां वर्णनम्।
ऋषय ऊचुः।
कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो!।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः।। ११३.१ ।।
महाभूमिप्रमाणञ्च लोकालोकस्तथैव च।
पर्याप्तिं परिमाणञ्च गतिश्चन्द्रार्कयोस्तथा।। ११३.२ ।।
एतद् ब्रवीहि नः सर्वं विस्तरेण यथार्थवित्।
त्वदुक्तमेतत् सकलं श्रोतुमिच्छामहे वयम्।। ११३.३ ।।
सूत उवाच।
द्वीपभेदसहस्राणि सप्तचान्तर्गतानिच।
न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत्।। ११३.४ ।।
सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह।
तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते।। ११३.५ ।।
अचिन्त्याः खलु ये भावास्तांस्तु तर्केण साधयेत्।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्।। ११३.६ ।।
सप्तवर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम्।
विस्तरं मण्डलं यच्च योजनैस्तं निबोधत।। ११३.७ ।।
योजनानां सहस्राणि शतं द्वीपस्य विस्तरः।
नानाजनपदाकीर्णं पुरैश्च विवधैः शुभैः।। ११३.८ ।।
सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम्।
सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः।। ११३.९ ।।
पर्वतप्रसवाभिश्च नदीभिस्तु समन्ततः।
प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः।। ११३.१० ।।
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ।
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्।। ११३.११ ।।
चातुर्वर्ण्यस्तु सौवर्णोमेरुश्चोल्वमयः स्मृतः।
चतुर्विंशत्सहस्राणि विस्तीर्णश्च चतुर्दिशम्।। ११३.१२ ।।
वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः।
नानावर्णैः समः पाश्वैः प्रजापतिगुणान्वितः।। ११३.१३ ।।
नाभिबन्धनसम्भूतो ब्रह्मणो व्यक्तजन्मनः।
पर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै।। ११३.१४ ।।
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते।
भृङ्गिपत्रनिभश्चैव पश्चिमेन समन्वितः।।
तेनास्य शूद्रता सिद्धा मेरोर्नामार्थकर्म्मतः।। ११३.१५ ।।
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः।
तेनास्य क्षत्रभावः स्यादितिवर्णाः प्रकीर्त्तिताः।। ११३.१६ ।।
नलश्च वैढूर्यमयः श्वेतः पीतो हिरण्मयः।
मयूरबर्हवर्णश्च शातकौम्भः स श्रृङ्गवान्।। ११३.१७ ।।
एते पर्वतराजानः सिद्धचारणसेविताः।
तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते।। ११३.१८ ।।
मध्ये त्विलावृतं नाम महामेरोः समन्ततः।
चतुर्विशत्सहस्राणि विस्तीर्णो योजनैः समः।। ११३.१९ ।।
मध्ये तस्य महामेरुर्विधूम इव पावकः।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्।। ११३.२० ।।
वर्षाणि यानि सप्तात्र तेषां वा वर्षपर्वताः।
द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम्।। ११३.२१ ।।
जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते।
नीलश्च निषधश्चैव तेषां हीनाश्च ये परे।। ११३.२२ ।।
श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः।
जम्बूद्वीपप्रमाणेन ऋषभः परिकीर्त्यते।। ११३.२३ ।।
तस्माद्द्वादशभागेन हेमकूटोऽपि हीयते।
हिमवान् विंशभागेन तस्मादेव प्रहीयते।।
अष्टाशीतिसहस्राणि हेमकूटो महागिरिः।। ११३.२४ ।।
अशीतिर्हिमवांश्चैल आयतः पूर्वपश्चिमे!।
द्वीपस्य मण्डलीभावाद्ध्रासवृद्धी प्रकीर्त्तिते।। ११३.२५ ।।
वर्षाणां पर्वतानाञ्च यथाभेदं तथोत्तरम्।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै।। ११३.२६ ।।
प्रपातविषमेस्तैस्तु पर्वतैरावृतानि तु।
सप्त तानि नदीभेदैरगम्यानि परस्परम्।। ११३.२७ ।।
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः।
इमं हैमवतं वर्षं भारतं नाम विश्रुतम्।। ११३.२८ ।।
हेमकूटं परं तस्मान्नाम्ना किं पुरुषं स्मृतम्।
हेमकूटाच्च निषधं हरिवर्षं तदुच्यते।। ११३.२९ ।।
हरिवर्षात्परञ्चापि मेरोस्तु तदिलावृतम्।
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्।। ११३.३० ।।
रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम्।
हिरण्यकात्परञ्चैव श्रृङ्गशाकं कुरं स्मृतम्।। ११३.३१ ।।
धनुः संस्थे तु विज्ञेयो देवर्षे! दक्षिणोत्तरे।
दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम्।। ११३.३२ ।।
पूर्वतो निषधस्येदं वेद्यर्द्धं दक्षिणं स्मृतम्।
परन्त्विलावृतं पश्चाद्वेद्यर्द्धन्तु तदुत्तरम्।। ११३.३३ ।।
तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम्।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु।। ११३.३४ ।।
उद्गायतो महाशैलो माल्यवान् नाम पर्वतः।
द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः।। ११३.३५ ।।
माल्यवान् वै सहस्रैक आनील निषधायतः।
द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः।। ११३.३६ ।।
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः।
चातुर्वर्ण्यसमोवर्णश्चतुरस्रः समुच्छ्रिता।। ११३.३७ ।।
नानावर्णः सपार्श्वेषु पूर्वान्ते श्वेत उच्यते।
पीतन्तु दक्षिणं तस्य भृङ्गिपत्रनिभम्परम्।
उत्तरं तस्य रक्तं वा इति वर्णसमन्वितः।। ११३.३८ ।।
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः।
आदित्यतरुणाभासो विधूम इव पावकः।। ११३.३९ ।।
योजनानां सहस्राणि चतुराशीति उच्छ्रितः।
प्रविष्टः षोड़शाधस्तादष्टाविंशतिविस्तृतः।। ११३.४० ।।
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः।। ११३.४१ ।।
भुवनैरावृतः सर्वैर्जातरूपपरिष्कृतैः।
तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः।।
शैलराजे प्रमोदन्ते सर्वतोऽप्सरसाङ्गणैः।। ११३.४२ ।।
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः।
यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः।। ११३.४३ ।।
भद्राश्वं भारतञ्चैव केतुमालञ्च पश्चिमे।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः।। ११३.४४ ।।
विष्कम्भपर्वतास्तद्वन्मन्दरो गन्धमादनः।
विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषितः।। ११३.४५ ।।
अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम्।
तेषामुपरि चत्वारि सरांसि च वनानि च।। ११३.४६ ।।
तथा भद्रकदम्बस्तु पर्वते गन्धमादने।
जम्बूवृक्षस्तथाश्वत्थो विपुलोऽथ वटः परम्।। ११३.४७ ।।
गन्धमादनपार्श्वे तु पश्चिमेऽमरगण्डिकः।
द्वात्रिंशति सहस्राणि योजनैः सर्वतः समः।। ११३.४८ ।।
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः।
तत्र कालानलाः सर्वे महासत्वा महाबलाः।। ११३.४९ ।।
स्त्रियश्चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः।
तत्र दिव्यो महावृक्षः पनसः पत्रभासुरः।। ११३.५० ।।
तस्य पीत्वा फलरसं संजीवन्ति समायुतम्।
तस्य माल्यवतः पार्श्वे पूर्वे पूर्वातुगण्डिका
द्वात्रिंशच्च सहस्राणि तत्राणि शतमुच्यते।। ११३.५१ ।।
भद्रश्च तत्र विज्ञेयो नित्यं मुदितमानसः।
भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः।। ११३.५२ ।।
तत्र ते पुरुषाः श्वेता महासत्वा महाबलाः।
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः।। ११३.५३ ।।
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः।
चन्द्रशीतलगात्राश्च स्त्रियोह्युत्पलगन्धिकाः।। ११३.३४ ।।
दशवर्षसहस्राणि आयुस्तेषामनामयम्।
कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः।। ११३.५५ ।।
सूत उवाच।
इत्युक्तवान् ऋषीन् ब्रह्मा वर्षाणि च निसर्गतः।
पूर्वं ममानुग्रहकृद्भूयः किं वर्णयामि वः।। ११३.५६ ।।
एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै।। ११३.५७ ।।
ऋषय ऊचुः।
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने!।
उत्तराणाञ्च वर्षाणां पर्वतानाञ्च सर्वशः।। ११३.५८ ।।
आख्याहिनो यथातथ्यं ये च पर्वतवासिनः।
एवमुक्तस्तु ऋषिभिस्तेभ्यस्त्वाख्यातवान् पुनः।। ११३.५९ ।।
सूत उवाच।
श्रृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया।
दक्षिणेन तु नीलस्य निषधस्योत्तरेणतु।। ११३.६० ।।
वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः।
रतिप्रधाना विमला जायन्ते यत्र मानवाः।।
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः।। ११३.६१ ।।
तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान्।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि।। ११३.६२ ।।
दशवर्षसहस्राणि दशवर्षशतानि च।
जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः।। ११३.६३ ।।
उत्तरेण तु श्वेतस्य पार्श्वे श्रृङ्गस्य दक्षिणे।
वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी।। ११३.६४ ।।
महाबला महासत्वा नित्यं मुदितमानसाः।
शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः।। ११३.६५ ।।
एकादशसहस्राणि वर्षाणां ते नरोत्तमाः।
आयुः प्रमाणां जीवन्ति शतानि दशपञ्च च।। ११३.६६ ।।
तस्मिन् वर्षे महावृक्षौ लिकुचः पत्रसंश्रयः।
तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः।। ११३.६७ ।।
श्रृङ्गसाह्वस्य श्रृह्गाणि त्रीणि तानि महान्ति वै।
एकं मणियुतं तत्र एकन्तु कनकान्वितम्।।
सर्वरत्नमयं चैकं भुवनैरुपशोभितम्।। ११३.६८ ।।
उत्तरे चास्य श्रृङ्गस्य समुद्रान्ते च दक्षिणे।
कुरवस्तत्रतद्वर्षं पुण्यं सिद्धनिषेवितम्।। ११३.६९ ।।
तत्र वृक्षा मधुफला दिव्यामृतमयापगाः।
वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च।। ११३.७० ।।
सर्वकामप्रदातारः केचिद् वृक्षा मनोरमाः।
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः।।
ये रक्षन्ति सदा क्षीरं षट्पञ्चामृतोपमम्।। ११३.७१ ।।
सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनबालुका।
सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः।। ११३.७२ ।।
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः।
शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः।। ११३.७३ ।।
मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः।
तेषान्ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम्।। ११३.७४ ।।
एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै।। ११३.७५ ।।
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम्।
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः।। ११३.७६ ।।
दशवर्षसहस्राणि दशवर्षशतानि च।
जीवन्ति च महासत्वा न चान्या स्त्री प्रवर्त्तते।। ११३.७७ ।।
सूत उवाच।
एवमेव निसर्गो वै वर्षाणां भारते युगे।
द्रृष्टः परमधर्मज्ञाः किम्भूयः कथयामि वः।। ११३.७८ ।।
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता।
उत्तरश्रवणे भूयः पप्रच्छ्रुः सूतनन्दनम्।। ११३.७९ ।।