मत्स्यपुराणम्/अध्यायः २५६
भवननिर्माणवर्णनम्।
सूत उवाच।
उदगादिप्लवं वास्तु समानशिखरं तथा।
परीक्ष्य पूर्ववत्कुर्य्यात् स्तम्भोच्छ्रायं विचक्षणः ।। २५६.१
न देवधूर्तसचिव चत्वाराणां समन्ततः।
कारयेद्भवनं प्राज्ञो दुःखशोकभयं ततः ।। २५६.२
तस्य प्रदेशाश्चत्वार स्तथोत्सर्गोऽग्रतः शुभः।
पृष्ठतः पृष्ठभागस्तु सव्यावर्तः प्रशस्यते ।। २५६.३
अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा।
सर्वकामफलो नॄणां सम्पूर्णो नाम वामतः ।। २५६.४
एवं प्रदेशमालोक्य यत्नेन गृहमारभेत्।
अथ सांवत्सरे प्रोक्ते मुहूर्ते शुभलक्षणे ।। २५६.५
रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम्।
चतुर्भिब्राह्मणैः स्तम्भं कारयित्वा सुपूजितम् ।। २५६.६
शुक्लाम्बरधरः शिल्पि सहितो वेदपारगैः।
स्नापितं विन्यसेत्तद्वत् सर्वौषधिसमन्वितम् ।। २५६.७
नानाक्षतसमोपेतं वस्त्रालङ्कारसंयुतम्।
ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःखनैः ।। २५६.८
पायसं भोजयेद्विप्रान् होमन्तु मधुसर्पिषा।
वास्तोष्पते प्रतिजानीहि मन्त्रेणानेन सर्वदा ।। २५६.९
सूत्रपाते तथा कार्य्यमेवं स्तम्भोदये पुनः।
द्वारवंशोच्छ्रये तद्वत् प्रवेशसमये तथा ।। २५६.१०
वास्तूपशमने तद्वत् वास्तुयज्ञस्तु पञ्चधा।
ईशाने सूत्रपातः स्यादाग्नेये स्तम्भरोपणम् ।। २५६.११
प्रदक्षिणञ्च कुर्वीत वास्तोः पदविलेखनम्।
तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे ।। २५६.१२
प्रवालरत्नकनक फलं पिष्ट्वा कृतोदकम्।
सर्ववास्तुविभागेषु शस्तं पदविलेपने ।। २५६.१३
न भस्माङ्गार काष्ठेन नखशस्त्रेण चर्मभिः।
न श्रृङ्गास्थिकपालैश्च क्वचिद्वास्तु विलेखयेत् ।। २५६.१४
एभिर्विलिखितं कुर्य्याद्दुःखशोकभयादिकम्।
यदा गृहप्रवेशः स्याच्छिल्पी तत्रापि लक्षयेत् ।। २५६.१५
स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलप्रदम्।
आदित्याभिमुखं रौति शकुनिः पुरुषं यदि ।। २५६.१६
तुल्यकालं स्पृशेदङ्गं गृहभर्तुर्यदात्मनः ।
वास्त्वङ्गे तद्विजानीयान्नरशल्यं भयप्रदम् ।। २५६.१७
अङ्कनानन्तरं यत्र हस्त्यश्व श्वापदं भवेत्।
तदङ्गसम्भवं विन्द्यात्तत्र शल्यं विचक्षणः ।। २५६.१८
प्रसार्यमाणे सूत्रे तु श्वा गोमायुर्विलङ्घिते।
तत्तु शल्यं विजानीयात् खरशब्देति भैरवे ।। २५६.१९
यदीशाने तु दिग्भागे मधुरं रौति वायसः।
धनं तत्र विजानीयाद् भागे वा स्वाम्यधिष्ठिते ।। २५६.२०
सूत्रच्छेदे भवेत् मृत्युर्व्याधिः कीले त्वधोमुखे।
अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् ।। २५६.२१
कम्बुशल्येषु जानीयात् पौंश्चल्यं स्त्रीषु वास्तुवित्।
गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे ।। २५६.२२
स्तम्भे स्कन्धच्युते कुम्भे शिरोरोगं विनिर्दिशेत्।
कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् ।। २५६.२३
मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः।
करसङ्ख्या विनाशे तु नाशं गृहपतेर्विदुः ।। २५६.२४
विजौषधि विहीने तु भूतेभ्यो भयमादिशेत्।
ततः प्रदक्षिणेनान्यान् न्यसेत्स्तम्भान्विचक्षणः ।। २५६.२५
यस्माद् भयकरं नॄणां योजिताह्यप्रदक्षिणम्।
रक्षां कुर्वीत यत्नेन स्तम्बोपद्रवनाशिनीम् ।। २५६.२६
तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत्।
प्रागुदक्प्रवणं कुर्य्याद्दिङ्मूढन्तु न कारयेत् ।। २५६.२७
स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा।
दिङ्मूढे कुलनाशः स्यान्न च संवर्द्धयेत् गृहम् ।। २५६.२८
यदि संवर्द्धयेद् गेहं सर्वदिक्षु विवर्द्धयेत्।
पूर्वेण वर्द्धितं वास्तु कुर्याद्वैराणि सर्वदा।। २५६.२९
दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संशयः।
पश्चाद्विवृद्धं यद्वास्तु तदर्थक्षयकारक ।। २५६.३०
वर्द्धापितं तथा सौम्ये बहुसन्तापकारकम्।
आन्नेये यत्र वृद्धिः स्यात् तदग्निभयदं भवेत् ।। २५६.३१
वर्द्धितं राक्षसे कोणे शिशुक्षयकरं भवेत्।
बद्ध्वापि तन्तु वायव्ये वातव्याधि-प्रकोपकृत् ।। २५६.३२
ईशान्यां अन्नहानिः स्यात् वास्तौ संवर्द्धिते सदा।
ईशाने देवतागारं तथा शान्तिगृहं भवेत् ।। २५६.३३
महानसन्तथाग्नेये तत्पार्श्वेचोत्तरे जलम्।
गृहस्योपस्करं सर्वं नैऋत्ये स्थापयेद् बुधः ।। २५६.३४
वधस्थानं बहिः कुर्यात् स्नानमण्डपमेव च।
धनधान्यञ्च वायव्ये कर्मशालान्ततो बहिः ।।
एवं वास्तु विशेषः स्यात् गृहभर्तुः शुभावहः ।। २५६.३५