मत्स्यपुराणम्/अध्यायः १५६
पार्वतीतपश्चर्यावर्णनम्।
सूत उवाच।
देवीं सापश्यदायान्तीं सतीं मातुर्विभूषिताम्।
कुसुमामोदिनीं नाम तस्य शैलस्य देवताम् ।। १५६.१
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा।
क्व पुत्रि! गच्छसीत्युच्चैरालिङ्ग्योवाच देवता ।। १५६.२
सा चास्यै सर्वमाचख्यौ सङ्करात् कोपकारणम्।
पुनश्चोवाच गिरिजा देवतां मातृसम्मताम् ।। १५६.३
उमोवाच।
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते!।
सर्वतः सन्निधानन्ते मम चातीव वत्सला ।। १५६.४
अतस्तु ते प्रवक्ष्यामि यद्विधेयं तदा धिया।
अन्यस्त्री संप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः॥ १५६.५
रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ।
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयाऽनघे!।। १५६.६
ततोऽहं संविधास्यामि यत्कृत्यं तदनन्तरम्।
इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ।। १५६.७
उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम्।
अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ।। १५६.८
ततो विभूषणान्यस्य वृक्षवल्कल घारिणी।
ग्रीष्मे पञ्चाग्निसन्तप्ता वर्षासु च जलोषिता ।। १५६.९
वन्याहारा निराहारा शुष्का स्थण्डिलशायिनी।
एवं साधयती तत्र तपसा संव्यवस्थिता ।। १५६.१०
ज्ञात्वा तु त्वां गिरिसुतां दैत्यस्तत्रान्तरे वशी।
अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ।। १५६.११
देवान्सर्वान् विजित्याजौ बकभ्राता रणोत्कटः।
आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः ।। १५६.१२
आजगामामररिपुः पुरन्त्रिपुरघातिनः।
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ।। १५६.१३
विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना।
हते तदान्धके दैत्ये गिरिशेनामरद्विषि ।। १५६.१४
आडिश्चकार विपुलं तपः परमदारुणम्।
हते तदान्धके दैत्ये गिरिशेनामरद्विषि ।। १५६.१५
किमाडे! दानवश्रेष्ठ! तपसा प्राप्तुमिच्छसि।
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ।। १५६.१६
ब्रह्मोवाच।
न कश्चिच्च विना मृत्युं नरो दानव! विद्यते।
यतस्ततोऽपि दैत्येन्द्र! मृत्युः प्राप्य शरीरिणा ।। १५६.१७
इत्युक्तौ दैत्यसिंहस्तु प्रोवाचाम्बुजसम्भवम्।
रूपस्य परिवर्तो मे यदा स्यात् पद्मसम्भव।। १५६.१८
तदा मृत्युर्मम भवेदन्यथात्वमरोह्यहम्।
इत्युक्तस्तु तदोवाच तुष्टः कमलसम्भवः ।। १५६.१९
यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति।
तदा ते भविता मृत्युरन्यथा न भविष्यति ।। १५६,२०
इत्युक्तोऽमरतां मेने दैत्यसूनुर्महाबलः।
तस्मिन् काले तु संस्मृत्य तद्वधोपायमात्मनः ।। १५६.२१
परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा।
भुजङ्गरूपी रन्ध्रेण प्रविवेश दृशः पथम् ।। १५६.२२
परिहृत्य गणेशस्य दानवोऽसौ सुदुर्जयः।
अलक्षितो गणेशेन प्रविष्टोऽथ पुरान्तकम् ।।१५६.२३
भुजङ्गरूपं सन्त्यज्य बभूवाथ महासुरः।
उमारूपी छलयितुं गिरिशं मूढ़चेतनः ।। १५६.२४
कृत्वा मायान्ततोरूपमप्रतर्क्य मनोहरम्।
सर्वावयव संपूर्णं सर्वाभिज्ञान संवृतम् ।। १५६.२५
कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान् दृढ़ान्।
तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ।। १५६.२६
कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम्।
पापो रम्याकृतिश्चित्र भूषणाम्बर भुषितः ।। १५६.२७
तं दृष्ट्वा गिरिशस्तुष्टस्तदालिङ्ग्य महासुरम्।
मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ।। १५६.२८
अपृच्छत् साधु ते भावो गिरिपुत्रि! न कृत्रिमः।
यात्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनि!।। १५६.२९
त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम्।
प्राप्ता प्रसन्नवदना युक्तमेवं विधन्त्वयि ।। १५६.३०
इत्युक्तो दानवेन्द्रस्तु तदा भाषत् स्मयं श्छनैः।
न चाबुद्ध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ।। १५६.३१
देव्युवाच।
यातास्म्यहं तपश्चर्तुं वल्भ्यायत वातुलम्।
रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदन्तिकम् ।। १५६.३२
इत्युक्तः शङ्करः शङ्कां काञ्चित् प्राप्यावधारयत्।
हृदयेन समाधाय देवः प्रहसिताननः ।। १५६.३३
कुपिता मयि तन्वङ्गी प्रकृत्या च दृढ़व्रता।
अप्राप्तकामा संप्राप्ता किमेतत् संशयो मम ।। १५६.३४
इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन्।
नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम् ।। १५६.३५
लोमावर्तन्तु रचितं ततो देवः पिनाकधृक्।
अबुध्यद्दानवीमायामाकारं गूहयंस्ततः ।। १५६.३६
मेढ्रे वज्रास्त्रमादाय दानवं तमशातयत्।
अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम् ।। १५६.३७
हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्।
अपरिच्छिन्न तत्वार्था शैलपुत्र्यै न्यवेदयत् ।। १५६.३८
दूतेन मारुतेनाशु गामिना नगदेवता।
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना ।।
अशपद्वीरकं पुत्रं हृदयेन विदूयता ।। १५६.३९