मत्स्यपुराणम्/अध्यायः १८६
नर्मदामाहात्म्यप्रारम्भः।
ऋषय ऊचुः।
माहात्म्यमविमुक्तस्य यथावत् कथितन्त्वया।
इदानीं नर्मदायास्तु माहात्म्यं वद सत्तम ! ॥ १८६.१ ॥
यत्रोङ्कारस्य माहात्म्यं कपिला सङ्गमस्य च।
अमरेशस्य चैवाहुर्माहात्म्यं पापनाशनम् ॥ १८६.२ ॥
कथं प्रलयकाले तु न नष्टा नर्मदा पुरा।
मार्कण्डेयश्च भगवान्न विनष्टस्तदा किल ॥
त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद ॥ १८६.३ ॥
सूत उवाच।
एतदेव पुरा पृष्टः पाण्डवेन महात्मना।
नर्मदायास्तु माहात्म्यं मार्कण्डेयो महामुनिः॥ १८६.४ ॥
उग्रेण तपसा युक्तो वनस्थो वनवासिना।
पृष्टः पूर्वां महागाथां धर्मपुत्रेण धीमता ॥ ११८६.५ ॥
युधिष्ठर उवाच।
श्रुता मे विविधा धर्मास्त्वत्प्रसादाद्द्विजोत्तम!।
भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत! ॥ १८६.६ ॥
कथमेषा महापुण्या नदी सर्वत्र विश्रुता।
नर्मदा नाम विख्याता तन्मे ब्रूहि महामुने! ॥ १८६.७ ॥
मार्कण्डेय उवाच।
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ १८६.८ ॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्।
तदेतद्धि महाराज! तत्सर्वं कथयामि ते ॥ १८६.९ ॥
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ १८६.१० ॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ १८६.११ ॥
कलिङ्गदेशे पश्चार्दे पर्वतेऽमरकण्टके।
पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा ॥ १८६.१२ ॥
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः।
तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः ॥ १८६.१३ ॥
तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १८६.१४ ॥
जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि।
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ १८६.१५ ॥
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता।
स्नात्वा यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥ १८६.१६ ॥
प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः।
पश्चिमे पर्वतस्यान्ते स्वयं देवो महेश्वरः ॥ १८६.१७ ॥
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः।
पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः ॥ १८६.१८ ॥
तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः।
आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ॥ १८६.१९ ॥
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते।
अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥ १८६.२० ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.२१ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते।
पुनः स्मरति तत्तीर्थं गमनं तत्र रोचते ॥ १८६.२२ ॥
कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.२३ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.२४ ॥
सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.२५ ॥
सर्वहिंसा निवृत्तस्तु सर्वभूतहिते रतः।
परं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.२६ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावहितो मम।
शतवर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.२७ ॥
अप्सरोगणसंकीर्णे सिद्धचारण सेविते।
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ॥ १८६.२८ ॥
क्रीड़ते देवलोकस्थो दैवतैः सह मोदते।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ १८६.२९ ॥
गृहन्तु लभते स वै नानारत्नविभूषितम्।
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितैः ॥ १८६.३० ॥
आलेख्यसहितं दिव्यं दासीदाससमन्वितम्।
मत्तमातड्गशब्दैश्च हयानां हेषितेन च ॥ १८६.३१ ॥
क्षुभ्यते तस्य तद्द्वारं इन्द्रस्य भवनं यथा।
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ॥ १८६.३२ ॥
तस्मिन् गृहे वसित्वा तु क्रीड़ाभोग-समन्विते।
जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ १८६.३३ ॥
एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके।
अग्नौ विषजले वापि तथा चैव ह्यनाशके ॥ १८६.३४ ॥
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा।
पतनं कुरुते यस्तु अमरेशे नराधिप! ॥ १८६.३५ ॥
कन्यानां त्रिसहस्राणि एकैकस्यापि चापरे।
तिष्ठन्ति भुवने तस्य प्रेषणं प्रार्थयन्ति च ॥ १८६.३६ ॥
दिव्यभोगैः सुसम्पन्नः क्रीड़ते कालमक्षयम्।
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिताः ॥ १८६.३७ ॥
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः।
प्रीतः सोऽस्य भवेत् सर्वो रुद्रकोटिर्नसंशयः ॥ १८६.३८ ॥
पश्चिमे पर्वतस्यान्ते ह्ययं देवो महेश्वरः।
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ॥ १८६.३९ ॥
पितृकार्यश्च कुर्वीत विधिवन्नियतेन्द्रियः।
तिलोदकेन विधिवत्तर्पयेत् पितृदेवताः ॥ १८६.४० ॥
आसप्तमं कुलन्तस्य स्वर्गे मोदेत पाण्डव!।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ १८६.४१ ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.४२ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते।
पुनः स्मरति तीर्थार्थं गमनं तत्र रोचते ॥ १८६.४३ ॥
तारयेत्तु कुलान् सप्त रुद्रलोकं स गच्छति।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.४४ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.४५ ॥
पर्वतस्य समन्तान्तु तिष्ठत्यमरकण्टके।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.४६ ॥
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः।
एवं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.४७ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावाहितो मम।
शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.४८ ॥
पृथिव्यामासमुद्राणामीदृशो नैव जायते।
यादृशोऽयं नृपश्रेष्ठ! पर्वतेऽमरकण्टके ॥ १८६.४९ ॥
तावत्तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ १८६.५० ॥
तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा।
पितरो दशवर्षापि तर्पितास्तु भवन्ति वै ॥ १८६.५१ ॥
दक्षिणे नर्मदाकूले कपिलेति महानदी।
सकलार्जुन-संच्छन्ना नातिदूरे व्यवस्थिता ॥ १८६.५२ ॥
सापि पुण्या महाभागा त्रिषु लोकेषु विश्रुता।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ १८६.५३ ॥
पुराणे श्रूयते राजन्! सर्वं कोटिगुणं भवेत्।
तस्यास्तीरेतु ये वृक्षाः पतिताः कालपर्ययात् ॥ १८६.५४ ॥
नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति परङ्गतिम्।
द्वितीया तु महाभागा विशल्यकरणी शुभा ॥ १८६.५५ ॥
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात्।
तत्र देवगणा सर्वेऽते किन्नरमहोरगाः ॥ १८६.५६ ॥
यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः।
सर्वे समागतास्तत्र पर्वतेऽमरकण्टके ॥ १८६.५७ ॥
तैश्च सर्वैः समागम्य मुनिभिश्च तपोधनैः।
नर्मदामाश्रिता पुण्या विशल्या नाम नामतः ॥ १८६.५८ ॥
उत्पादिता महाभागा सर्वपापप्रणाशिनी।
तत्र स्नात्वा नरो राजन्! ब्रह्मचारी जितेन्द्रियः ॥ १८६.५९ ॥
उपोष्य रजनीमेकां कुलानान्तारयेच्छतम्।
कपिला च विशल्या तु श्रूयते राजसत्तम! ॥ १८६.६० ॥
ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया।
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ १८६.६१ ॥
अनाशकन्तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप!।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ १८६.६२ ॥
नर्मदायास्तु राजेन्द्र! पुराणे यन्मया श्रुतम्।
यत्र तत्र नरः स्नात्वा चाश्वमेधफलं लभेत् ॥ १८६.६३ ॥
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते।
सरस्वत्याञ्च गङ्गायां नर्मदायां युधिष्ठिर!॥ १८६.६४ ॥
समं स्नानं च दानञ्च यथा मे शङ्करोऽब्रवीत्।
परित्यजति यः प्राणान् पर्वतेऽमरकण्टके ॥ १८६.६५ ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते।
नर्मदाया जलं पुण्यं केनोर्मिभिरलङ्कृतम् ॥ १८६.६६ ॥
पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते।
नर्मदा पर्वतः पुण्या नर्मदा पाण्डुनन्दन! ॥ १८६.६७ ॥
त्रयाणामपि लोकानां पुण्या ह्येषा महानदी।
वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने ॥ १८६.६८ ॥
एतेषु सर्वस्थानेषु द्विजाः स्युः संशितव्रताः।
श्रुतं दशगुणं पुण्यं नर्मदो दधिसङ्गमे ॥ १८६.६९ ॥
ऋषय ऊचुः। माहात्म्यमविमुक्तस्य यथावत् कथितन्त्वया। इदानीं नर्मदायास्तु माहात्म्यं वद सत्तम ! ॥ १८६.१ ॥
यत्रोङ्कारस्य माहात्म्यं कपिला सङ्गमस्य च। अमरेशस्य चैवाहुर्माहात्म्यं पापनाशनम् ॥ १८६.२ ॥
कथं प्रलयकाले तु न नष्टा नर्मदा पुरा। मार्कण्डेयश्च भगवान्न विनष्टस्तदा किल ॥ त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद ॥ १८६.३ ॥
सूत उवाच। एतदेव पुरा पृष्टः पाण्डवेन महात्मना। नर्मदायास्तु माहात्म्यं मार्कण्डेयो महामुनिः॥ १८६.४ ॥
उग्रेण तपसा युक्तो वनस्थो वनवासिना। पृष्टः पूर्वां महागाथां धर्मपुत्रेण धीमता ॥ ११८६.५ ॥
युधिष्ठर उवाच। श्रुता मे विविधा धर्मास्त्वत्प्रसादाद्द्विजोत्तम!। भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत! ॥ १८६.६ ॥
कथमेषा महापुण्या नदी सर्वत्र विश्रुता। नर्मदा नाम विख्याता तन्मे ब्रूहि महामुने! ॥ १८६.७ ॥
मार्कण्डेय उवाच। नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी। तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ १८६.८ ॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्। तदेतद्धि महाराज! तत्सर्वं कथयामि ते ॥ १८६.९ ॥
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती। ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ १८६.१० ॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्। सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ १८६.११ ॥
कलिङ्गदेशे पश्चार्दे पर्वतेऽमरकण्टके। पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा ॥ १८६.१२ ॥
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः। तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः ॥ १८६.१३ ॥
तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः। उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १८६.१४ ॥
जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ १८६.१५ ॥
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता। स्नात्वा यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥ १८६.१६ ॥
प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः। पश्चिमे पर्वतस्यान्ते स्वयं देवो महेश्वरः ॥ १८६.१७ ॥
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः। पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः ॥ १८६.१८ ॥
तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः। आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ॥ १८६.१९ ॥
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते। अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥ १८६.२० ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः। ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.२१ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनः स्मरति तत्तीर्थं गमनं तत्र रोचते ॥ १८६.२२ ॥
कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.२३ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता। षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.२४ ॥
सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.२५ ॥
सर्वहिंसा निवृत्तस्तु सर्वभूतहिते रतः। परं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.२६ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावहितो मम। शतवर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.२७ ॥
अप्सरोगणसंकीर्णे सिद्धचारण सेविते। दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ॥ १८६.२८ ॥
क्रीड़ते देवलोकस्थो दैवतैः सह मोदते। ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ १८६.२९ ॥
गृहन्तु लभते स वै नानारत्नविभूषितम्। स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितैः ॥ १८६.३० ॥
आलेख्यसहितं दिव्यं दासीदाससमन्वितम्। मत्तमातड्गशब्दैश्च हयानां हेषितेन च ॥ १८६.३१ ॥
क्षुभ्यते तस्य तद्द्वारं इन्द्रस्य भवनं यथा। राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ॥ १८६.३२ ॥
तस्मिन् गृहे वसित्वा तु क्रीड़ाभोग-समन्विते। जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ १८६.३३ ॥
एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके। अग्नौ विषजले वापि तथा चैव ह्यनाशके ॥ १८६.३४ ॥
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा। पतनं कुरुते यस्तु अमरेशे नराधिप! ॥ १८६.३५ ॥
कन्यानां त्रिसहस्राणि एकैकस्यापि चापरे। तिष्ठन्ति भुवने तस्य प्रेषणं प्रार्थयन्ति च ॥ १८६.३६ ॥
दिव्यभोगैः सुसम्पन्नः क्रीड़ते कालमक्षयम्। पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिताः ॥ १८६.३७ ॥
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः। प्रीतः सोऽस्य भवेत् सर्वो रुद्रकोटिर्नसंशयः ॥ १८६.३८ ॥
पश्चिमे पर्वतस्यान्ते ह्ययं देवो महेश्वरः। तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ॥ १८६.३९ ॥
पितृकार्यश्च कुर्वीत विधिवन्नियतेन्द्रियः। तिलोदकेन विधिवत्तर्पयेत् पितृदेवताः ॥ १८६.४० ॥
आसप्तमं कुलन्तस्य स्वर्गे मोदेत पाण्डव!। षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ १८६.४१ ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः । ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.४२ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनः स्मरति तीर्थार्थं गमनं तत्र रोचते ॥ १८६.४३ ॥
तारयेत्तु कुलान् सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.४४ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता। षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.४५ ॥
पर्वतस्य समन्तान्तु तिष्ठत्यमरकण्टके। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.४६ ॥
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः। एवं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.४७ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावाहितो मम। शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.४८ ॥
पृथिव्यामासमुद्राणामीदृशो नैव जायते। यादृशोऽयं नृपश्रेष्ठ! पर्वतेऽमरकण्टके ॥ १८६.४९ ॥
तावत्तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे। ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ १८६.५० ॥
तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा। पितरो दशवर्षापि तर्पितास्तु भवन्ति वै ॥ १८६.५१ ॥
दक्षिणे नर्मदाकूले कपिलेति महानदी। सकलार्जुन-संच्छन्ना नातिदूरे व्यवस्थिता ॥ १८६.५२ ॥
सापि पुण्या महाभागा त्रिषु लोकेषु विश्रुता। तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ १८६.५३ ॥
पुराणे श्रूयते राजन्! सर्वं कोटिगुणं भवेत्। तस्यास्तीरेतु ये वृक्षाः पतिताः कालपर्ययात् ॥ १८६.५४ ॥
नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति परङ्गतिम्। द्वितीया तु महाभागा विशल्यकरणी शुभा ॥ १८६.५५ ॥
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात्। तत्र देवगणा सर्वेऽते किन्नरमहोरगाः ॥ १८६.५६ ॥
यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः। सर्वे समागतास्तत्र पर्वतेऽमरकण्टके ॥ १८६.५७ ॥
तैश्च सर्वैः समागम्य मुनिभिश्च तपोधनैः। नर्मदामाश्रिता पुण्या विशल्या नाम नामतः ॥ १८६.५८ ॥
उत्पादिता महाभागा सर्वपापप्रणाशिनी। तत्र स्नात्वा नरो राजन्! ब्रह्मचारी जितेन्द्रियः ॥ १८६.५९ ॥
उपोष्य रजनीमेकां कुलानान्तारयेच्छतम्। कपिला च विशल्या तु श्रूयते राजसत्तम! ॥ १८६.६० ॥
ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया। तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ १८६.६१ ॥
अनाशकन्तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप!। सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ १८६.६२ ॥
नर्मदायास्तु राजेन्द्र! पुराणे यन्मया श्रुतम्। यत्र तत्र नरः स्नात्वा चाश्वमेधफलं लभेत् ॥ १८६.६३ ॥
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते। सरस्वत्याञ्च गङ्गायां नर्मदायां युधिष्ठिर!॥ १८६.६४ ॥
समं स्नानं च दानञ्च यथा मे शङ्करोऽब्रवीत्। परित्यजति यः प्राणान् पर्वतेऽमरकण्टके ॥ १८६.६५ ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते। नर्मदाया जलं पुण्यं केनोर्मिभिरलङ्कृतम् ॥ १८६.६६ ॥
पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते। नर्मदा पर्वतः पुण्या नर्मदा पाण्डुनन्दन! ॥ १८६.६७ ॥
त्रयाणामपि लोकानां पुण्या ह्येषा महानदी। वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने ॥ १८६.६८ ॥
एतेषु सर्वस्थानेषु द्विजाः स्युः संशितव्रताः। श्रुतं दशगुणं पुण्यं नर्मदो दधिसङ्गमे ॥ १८६.६९ ॥
</poem>