मत्स्यपुराणम्/अध्यायः २९०
कल्पानां कीर्त्तनम्।
मनुरुवाच।
कल्पमानं त्वया प्रोक्तं मन्वन्तरयुगेषु च।
इदानीं कल्पनामानि समासात् कथयाच्युत! ।। २९०.१
मत्स्य उवाच।
कल्पानां कीर्तनं वक्ष्ये महापातकनाशनम्।
यस्यानुकीर्तनादेव वेदपुण्येन युज्यते ।। २९०.२
प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः।
वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३
रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः।
सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४
सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः।
तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५
त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः।
कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६
षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः।
आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७
मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः।
वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८
चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः।
पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९
सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः।
माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०
पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा।
इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ।। २९०.११
आदावेव हि माहात्म्यं यस्मिन्यस्य विधीयते।
तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पुरा ।। २९०.१२
सङ्कीर्णास्तामसाश्चैव राजसाः सात्विकास्तथा।
रजस्तमो मयास्तद्वदेते त्रिंशदुदाहृताः ।। २९०.१३
सङ्कीर्णेषु सरस्वत्याः पितृणां व्युष्टिरुच्यते।
अग्नेः शिवस्य माहात्म्यं तामसेषु दिवाकरे ।। २९०.१४
राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम्।
यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।। २९०.१५
तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते।
सात्विकेष्वधिकं तद्वद्विष्णोर्माहात्म्यमुत्तमम् ।। २९०.१६
तथैव योगसंसिद्धा गमिष्यन्ति परां गतिम्।
ब्राह्मं पाद्ममिमं यस्तु पठेत् पर्वणि पर्वणि ।। २९०.१७
तस्य धर्मे मतिर्ब्रह्म करोति विपुलां श्रियम्।
यस्तु दद्यादिमान् कृत्वा हैमान् पर्वणि पर्वणि ।। २९०.१८
ब्रह्मविष्णुपुरे वासं मुनिभिः पूज्यते दिवि।
सर्वपापक्षयकरं कल्पदानं यतो भवेत् ।। २९०.१९
मुनिरूपांस्ततः कृत्वा दद्यात् कल्पान् विचक्षणः।
पुराणसंहिता चेयं तव भूप! मयोदिता ।। २९०.२०
सर्वपापहरा नित्यमारोग्य श्रीफलप्रदा।
ब्रह्मसंवत्सरशतादेकाहं शैवमुच्यते ।। २९०.२१
शिववर्षशतादेकं निमेषं वैष्णवं विदुः।
यदा सविष्णुर्जागर्ति तदेदं चेष्टते जगत् ।। २९०.२२
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति।
इत्युक्त्वा देवदेवेशो मत्स्यरूपी जनार्दनः ।। २९०.२३
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत।
वैवस्वतो हि भगवान् विसृज्य विविधाः प्रजाः ।। २९०.२४
स्वान्तरं पालयामास मार्तण्डकुलवर्द्धनः।
यस्य मन्वन्तरञ्चैतदधुना चानुवर्तते ।। २९०.२५
पुण्यं पवित्रमेतद्वः कथितं मत्स्य भाषितम्।
पुराणं सर्वशास्राणां यदेतन्मूर्ध्नि संस्थितम्।। २९०.२६