मत्स्यपुराणम्/अध्यायः ११५
पुरूरवसः पूर्वजन्मवृत्तान्तवर्णनम्।
मनुरुवाच।
चरितं बुधपुत्रस्य जनार्दन! मया श्रुतम्।
श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः।। ११५.१ ।।
धेन्वाः प्रसूतमानायाः फलं दानस्य मे श्रुतम्।
कृष्णाजिनप्रदानञ्च वृषोत्सर्गस्तथैव च।। ११५.२ ।।
श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव!
कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः।। ११५.३ ।।
केन कर्म्मविपाकेन स तु राजा पुरूरवाः।
अवाप ताद्रृशं रूपं सौभाग्यमपि चोत्तमम्।। ११५.४ ।।
देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान्।
उर्वशीसङ्गता त्यक्त्वा सर्वभावेन तं नृपम्।। ११५.५ ।।
मत्स्य उवाच।
शृणु कर्म्मविपाकेन येन राजा पुरूरवाः।
अवाप ताद्रृशं रूपं सौभाग्यमपि चोत्तमम्।। ११५.६ ।।
अतीते जन्मनि पुरा योऽयं राजा पुरूरवाः।
पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः।। ११५.७ ।।
चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः।
स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः।। ११५.८ ।।
पुरूरवा मद्रपतिः कर्म्मणा केन पार्थिवः।
बभूव कर्म्मणा केन रूपवांश्चैव सूतज!।। ११५.९ ।।
सूत उवाच।
द्विजग्रामे द्विजश्रेष्ठे नाम्ना चासीत् पुरूरवाः।
नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः।। ११५.१० ।।
स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः।
तस्मिन् जन्मन्यसौ विप्रो द्वादश्यान्तु सदानघ!।। ११५.११ ।।
उपोष्य पूजयामास राज्यकामो जनार्दनम्।
चकार सोपवासश्च स्नानमभ्यङ्गपूर्वकम्।। ११५.१२ ।।
उपवासफलात्प्राप्तं राज्यं मद्रेशकण्टकम्।
उपोषितस्तथाभ्यङ्गाद् रूपहीनो व्यजायत।। ११५.१३ ।।
उपोषितैर्नरैस्तस्मात् स्नानमभ्यङ्गपूर्वकम्।
वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप!।। ११५.१४ ।।
एतद्वः कथितं सर्वं यद्वृत्तं पूर्वजन्मनि।
मद्रेश्वरस्य चरितं शृणु तस्य महीपतेः।। ११५.१५ ।।
तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः।
जनानुरागो नैवासीद्रूपहीनस्य तस्य वै।। ११५.१६ ।।
रूपकामः स मद्रेशास्तपसे कृतनिश्चयः।
राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम्।। ११५.१७ ।।
व्यवसायद्वितीयस्तु पद्भ्यामेव महायशाः।
द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम्।।
ऐरावतीति विख्यातान्ददर्शातिमनोरमाम्।। ११५.१८ ।।
तुहिनगिरि महौघ वेगान्तुहिन गभस्ति समान शीतलोदाम्।
तुहिन सदृश हैमवर्ण पुञ्जान्तु हिनयशाः सरितं ददर्श राजा।।११५.१९।।