मत्स्यपुराणम्/अध्यायः ३०
ययातिचरित्रम्।
शौनक उवाच।
अथ दीर्घेण कालेन देवयानी नृपोत्तम्।
वनं तदेव निर्याता क्रीड़ार्थं वरवर्णिनी।। ३०.१ ।।
तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा।
तमेव दश सप्राप्ता यथा कामं चचार सा।। ३०.२ ।।
ताभिः सखीभिः सहिताः सर्वाभिर्मुदिता भृशम्।
क्रीड़न्त्योऽभिरताः सर्व्वाः पिबन्त्यो मधु माधवम्।। ३०.३ ।।
खादन्त्यो विविधान् भक्ष्यान् फलानि विविधानि च।
पुनश्च नाहुषो राजा मृगलिप्सुर्यद्रृच्छया।। ३०.४ ।।
तमेव देशं संप्राप्तो जललिप्सुः प्रतर्षितः।
ददर्श देवयानीञ्च शर्मिष्ठान्ताश्च योषितः।। ३०.५ ।।
पिबन्त्यो ललनास्तश्च दिव्याभरणभूषिताः।
उपिविष्टाञ्च दद्रृशे देवयानीं शुचिस्मिताम्।। ३०.६ ।।
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराननाम्।
शर्मिष्टया सेव्यमानां पादसम्वाहनादिभिः।। ३०.७ ।।
ययातिरुवाच।
द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतोह्यहम्।। ३०.८ ।।
देवयान्युवाच।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिपः!।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्।। ३०.९ ।।
इयं च मे सखी दासी यत्राहं तत्र गामिनी।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः।। ३०.१० ।।
ययातिरुवाच।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी।
असुरेन्द्रसुता सुभ्रु! परं कौतूहलं हि मे।। ३०.११ ।।
देवयान्युवाच।
सर्वमेव नरव्याघ्र!विधानमनुवर्त्तते।
विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथा।। ३०.१२ ।।
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च।
किं नामा त्वं कुतश्चासि कस्य पुत्रश्च शंसमे।। ३०.१३ ।।
ययातिरुवाच।
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः।
राजाहं राजपुत्रश्च ययातिरितिविश्रुतः।। ३०.१४ ।।
देवयान्युवाच।
केन चार्थेन नृपते! ह्येनं देशं समागतः।
जिघृक्षुर्व्वारि यत्किञ्चिदथवा मृगलिप्सया।। ३०.१५ ।।
ययातिरुवाच।
मृगलिप्सुरहं भद्रे! पानीयार्थमिहागतः।
बहुधाप्यनुयुक्तोऽस्मि त्वमनुज्ञातुमर्हसि।। ३०.१६ ।।
देवयान्युवाच।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह।
त्वदधीनास्मि भद्रं ते सखे! भर्त्ता च मे भव।। ३०.१७ ।।
ययातिरुवाच।
विध्यौशनसि भद्रं ते न त्वदर्होऽस्मि भामिनि।
अविवाह्याः स्म राजानो देवयानि! पितुस्तव।। ३०.१८ ।।
देवयान्युवाच।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम्।
ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम्।। ३०.१९ ।।
ययातिरुवाच।
एकदेहोद्भवा वर्णा श्चत्वारोऽपि वरानने।
पृथग्धर्म्माः पृथक् शौचास्तेषां वै ब्राह्मणो वरः।। ३०.२० ।।
देवयान्युवाच।
पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा।
त्वमेनमग्रहीदग्रे वृणोमि त्वामहं ततः।। ३०.२१ ।।
कथं तु मे मनस्विन्याः पाणिमन्यः पुमान् स्पृशेत्।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया।। ३०.२२ ।।
ययातिरुवाच।
क्रुद्धादाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्।
दुराधर्षतरो विप्रः पुरुषेण विजानता।। ३०.२३ ।।
देवयान्युवाच।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ।। ३०.२४ ।।
ययातिरुवाच।
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च बध्यते।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः।। ३०.२५ ।।
दुराधर्षतरो विप्रस्तस्मात् भीरु! मतो मम।
अतोऽदत्ताञ्च पित्रा त्वां भद्रे!न विवहाम्यहम्।। ३०.२६ ।।
देवयान्युवाच।
दत्तां वहस्व पित्रा मां त्वं हि राजन्! वृतो मया।
अयाचतो भयं नास्ति दत्ताञ्च प्रतिगृह्णतः।। ३०.२७ ।।
शौनक उवाच।
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः।
सर्वं निवेदयामास धात्री तस्मै यथातथम्।। ३०.२८ ।।
श्रुत्वैव च स राजानं दर्शयामास भार्गवः।
द्रृष्ट्वैवमागतं विप्रं ययातिः पृथिवीपतिः।। ३०.२९ ।।
देवयान्युवाच।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्।
नमस्ते देहि मामस्मै लोकेनान्यं पतिं वृणे।। ३०.३० ।।
ववन्दे ब्राह्मणं काव्यं प्राञ्चलिः प्रणतः स्थितः।
तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना।। ३०.३१ ।।
शुक्र उवाच।
वृतोऽनया पतिर्वीर! सुतया त्वं ममेष्टया।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज!।। ३०.३२ ।।
ययातिरुवाच।
अधर्मो मां स्पृशेदेवं पापमस्याश्च भार्गव!।
वर्णसंकरतो ब्रह्मन्! इति त्वां प्रवृणोम्यहम्।। ३०.३३ ।।
शुक्र उवाच।
अधर्मात् त्वां विमुञ्चामि वरं वरय चेप्सितम्।
अस्मिन् विवाहे त्वं श्लाघ्यो रहो पापन्नुदामि ते।। ३०.३४ ।।
वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम्।
अनया सह संप्रीतिमतुलां समवाप्नुहि।। ३०.३५ ।।
इयं चापि कुमारी ते शर्मिष्ठ वार्षपर्वणी।
संपूज्य सन्ततं राजन्! न चैनां शयनेह्वयः।। ३०.३६ ।।
शौनक उवाच।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्।
जगाम स्वपुरं हृष्टः सोऽनुज्ञातो महात्मना।। ३०.३७ ।।