मत्स्यपुराणम्/अध्यायः २३३
शान्तिविधानवर्णनम्।
गर्ग उवाच।
अतिवृष्टिरनावृष्टि दुर्भिक्षादि भयं मतम्।
अनृतौ तु दिवानन्ता वृष्टिर्ज्ञेया भयानका ।। २३३.१ ।।
अनभ्रे वैकृताश्चैव विज्ञेया राजमृत्यवे।
शीतोष्णानां विपर्यासे नृपाणां रिपुजं भयम् ।। २३३.२ ।।
शोणितं वर्षते यत्र तत्र शस्त्रभयम्भवेत्।
अङ्गारपांसु वर्षेषु नगरन्तद्विनश्यति ।। २३३.३ ।।
मज्जास्थिस्नेहमांसानां जनमारभयम्भवेत्।
फलं पुष्पन्तथा धान्यं परेणातिभयाय तु ।। २३३.४ ।।
पांसुजन्तु फलानाञ्च वर्षतो रोगजं भयम्।
छिद्रेवान्नप्रवर्षेण सस्यानां भीतिवर्द्धनम् ।। २३३.५ ।।
विरजस्के रवौ व्यभ्रे यदा च्छाया न दृश्यते।
दृश्यते तु प्रतीपा वा तत्र देशभयम्भवेत् ।। २३३.६ ।।
निरभ्रे वाथ रात्रौ वा श्वेतं याम्योत्तरेण तु।
इन्द्रायुधं तथा दृष्ट्वा उल्कापातं तथैव च ।। २३३.७ ।।
दिग्दाहपरिवैषौ च गन्धर्वनगरन्तथा।
परचक्र-भयं ब्रूयाद्देशोपद्रवमेव च ।। २३३.८ ।।
सूर्य्येन्दुपर्जन्यसमीरणानां यागस्तु कार्यो विधिवद् द्विजेन्द्र!
धनानि गौः काञ्चनदक्षिणा च देया द्विजानामघनाशहेतोः ।। २३३.९ ।।