मत्स्यपुराणम्/अध्यायः २८१
अश्वरथाख्यमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः संप्रवक्ष्यामि महादानमनुत्तमम्।
पुण्यमश्वरथं नाम महापातकनाशनम् ।। २८१.१
पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्।
लोकेशावाहनं कुर्यात् तुला पुरुषदानवत् ।। २८१.२
ऋत्विक्मण्डपसम्भारभूषणाच्छादनादिकम्।
कृष्णाजिने तिलान् कृत्वा काञ्चनं स्थापयेत् रथम् ।। २८१.३
अष्टाश्वं चतुरश्वं वा चतुश्चक्रं सकूबरम्।
ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ।। २८१.४
लोकपालाष्टकं तद्वत् पद्मरागदलान्वितम्।
चतुरः पूर्णकलशान् धान्यान्यष्टादशैव तु ।। २८१.५
कौशेयवस्त्र संयुक्तमुपरिष्टाद्वितानकम्।
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ।। २८१.६
यो यद्भक्तः पुमान् कुर्यात् स तन्नाम्नाधिवासनम्।
छत्र चामर कौशेय वस्त्रोपानह पादुकम् ।। २८१.७
गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम्।
आभारात्त्रिपलादूर्ध्वं शक्तितः कारयेद् बुधः ।। २८१.८
अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः।
द्वाभ्यामपि युतं दद्याद्धेमसिंहध्वजान्वितम् ।। २८१.९
चक्ररक्षावुभौ तस्य तुरगस्था यथाश्विनौ।
पुण्यकालमथावाप्य पूर्ववत्स्नापितौ द्विजैः ।। २८१.१०
त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः।
शुक्लमाल्याम्बरो दद्यादिमं मन्त्रमुदीरयेत् ।। २८१.११
नमो नमः पापविनाशनाय विश्वात्मने वेदतुरङ्गमाय।
धाम्नामधीशाय दिवाकराय पापौघदावानल! देहि शान्तिम् ।। २८१.१२
वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम्।
यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ।। २८१.१३
इति तुरगरथप्रदानमेकं भवभयसूदनमत्र यः करोति।
स कलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः ।। २८१.१४
देदीप्यमानवपुषां विजितप्रभावमाक्रम्य मण्डलमखण्डितचण्डभानोः।
सिद्धाङ्गनानयनषट्पद पीयमान वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते ।। २८१.१५
इति पठति श्रृणोति वा य इत्थं कनकतुरगरथप्रदानमस्मिन्।
न स नरकपुरं व्रजेत् कदाचिन्नरक रिपोर्भवनं प्रयाति भूयः ।। २८१.१६