मत्स्यपुराणम्/अध्यायः ७१
अशून्यशयनव्रतकथनम् ।
ब्रह्मोवाच।
भगवन् पुरुषस्येह स्त्रियाश्च विराहादिकम्।
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद।। ७१.१ ।।
श्रीभगवानुवाच।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः।
क्षीरार्णवे सपत्नीकः सदा वसति केशवः।। ७१.२ ।।
तस्यां संपूज्य गोविन्दं सर्वान् कामान् समश्नुते।
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्।। ७१.३ ।।
अशून्यशयनं नाम द्वितीया सम्प्रकीर्त्तिता।
तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः।। ७१.४ ।।
श्रीवत्सधारिन्! श्रीकान्त! श्रीधामन्!श्रीपतेऽव्यय!।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्म्मार्थकामदम्।। ७१.५ ।।
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम!।
पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम्।। ७१.६ ।।
लक्ष्म्या वियुज्य ते देव! न कदाचिद्यथा भवान्।
तथा कलत्र सम्बन्धो देव! मा मे वियुज्यताम्।। ७१.७ ।।
लक्ष्म्या न शून्यो वरद! श्य्यां त्वं शयनं गतः।
शय्याममाप्यशून्यास्तु तथैव मधुसूदन!।। ७१.८ ।।
गीतवादित्रनिर्घोषं देवदेवस्य कीर्त्तयेत्।
घण्टाभवेदशक्तस्य सर्ववाद्यमयी यतः।। ७१.९ ।।
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्।
नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम्।। ७१.१० ।।
ततः प्रभावे सञ्जाते लक्ष्मीपतिसमन्विताम्।
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्।। ७१.११ ।।
पादुकोपानहच्छत्रचामरासनसंयुताम्।
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्।। ७१.१२ ।।
सोपधानकविश्रामां फलैर्नानाविधैर्युताम्।
तथाभरणधान्यैश्च यथाशक्त्या समन्विताम्।। ७१.१३ ।।
अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने।
दातव्या वेदविदुषे भावेनापतिताय च।। ७१.१४ ।।
तत्रोपविश्यदाम्पत्यमलङ्कृत्य विधानतः।
पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितम्।। ७१.१५ ।।
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्।
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्।। ७१.१६ ।।
एवं यस्तु पुमान् कुर्य्यादशून्यशयनं हरेः।
वित्तशाठ्येन रहितो नारायणपरायणः।। ७१.१७ ।।
नारीवा विधवा ब्रह्मन्! यावच्चन्द्रार्कतारकम्।
न विरूपौ न शोकार्त्ती दम्पती भवतः क्वचित्।। ७१.१८ ।।
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह!।
सप्तकल्पसहस्राणि सप्तकल्पशतानि च।।
कुर्वन्नशून्यशयनं विष्णुलोके महीयते।। ७१.१९ ।।