मत्स्यपुराणम्/अध्यायः २३
सोमवंशाख्यानम्।
ऋषय ऊचुः।
सोमः पितॄणामधिपः कथं शास्त्रविशारदः।
तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः।। २३.१ ।।
सूत उवाच।
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा।
अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान् प्रभुः।। २३.२ ।।
यदानन्दकरं ब्रह्म जगत् क्लेशविनाशनम्।
ब्रह्मविष्ण्वर्करुद्राणामभ्यन्तरमतीन्द्रियम्।। २३.३ ।।
शान्तिकृच्छान्तमनसस्तदन्तर्नयने स्थितम्।
माहात्म्यात्तपसा विप्राः परमानन्दकारकम्।। २३.४ ।।
यस्मादुमापतिः सार्द्धमुमया तमधिष्ठितः।
तं द्रृष्ट्वा चाष्टमांशेन तस्मात् सोमोऽभविच्छिशुः।। २३.५ ।।
अधः सुस्राव नेत्राभ्यां धामतच्चाम्बु सम्भवम्।
दीपयद्विश्वमखिलं ज्योत्स्नया स चराचरम्।। २३.६ ।।
तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया।
गर्भोभूत्वोदरे तासामास्थितोऽब्द शतत्रयम्।। २३.७ ।।
आशास्तं मुमुचुर्गर्भमशक्ता धारणे ततः।
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः।। २३.८ ।।
युवानमकरोद् ब्रह्मा सर्वायुधधरं नरम्।
स्यन्दनेऽथ सहस्राश्वे वेदशक्तिमये प्रभुः।। २३.९ ।।
आरोप्य लोकमनयदात्मीयं सपितामहः।
तत्र ब्रह्मर्षिभिः प्रोक्तमस्मत् स्वामी भवत्वयम्।। २३.१0 ।।
पितृभिर्देवगन्धर्वैरोषधीभिस्तथैव च।
तुष्टुवुः सोमदेवत्यैर्ब्रह्माणं मन्त्रसंग्रहैः।। २३.११ ।।
स्तूयमानस्य तस्याभूदधिको धामसम्भवः।
तेजो वितानादभवद् भुवि दिव्यौषधीगणः।। २३ .१२ ।।
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा।
तेनौषधीशः सोमोऽभूद् द्विजेशश्चापि गद्यते।। २३.१३ ।।
वेदधामरसञ्चापि यदिदं चन्द्रमण्डलम्।
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा।। २३.१४ ।।
विंशतिञ्च तथा सप्तदक्षः प्राचेतसो ददौ।
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः।। २३.१५ ।।
ततः पाद्मसहस्राणां सहस्राणि दशैव तु।
तपश्चचार शीतांशु विष्णुध्यानैकतत्परः।। २३.१६ ।।
ततस्तुष्टस्तु भगवांस्तस्मै नारायणो हरिः।
वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः।। २३.१७ ।।
ततो वव्रे वरान् सोमः शक्रलोकं जयाम्यहम्।
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे।। २३.१८ ।।
राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः।
रक्षः पालः शिवोऽस्माकमास्तां शूलधरो हरः।। २३.१९ ।।
तथेत्युक्तः स आजह्ने राजसूयन्तु विष्णुना।
होतात्रिर्भृगुरध्वर्युरुद्गाताभूच्चतुर्मुखः।। २३.२0 ।।
ब्रह्मत्त्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्।
सदस्याः सनकाद्यास्तु राजसूय विधौ स्मृता।। २३.२१ ।।
चमसाध्वर्यवस्तत्र विश्वेदेवा दशैव तु।
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम्।। २३.२२ ।।
ततः समाप्तेऽवभृथे तद्रूपालोकनेच्छवः।
कामबाणाभि तप्ताङ्ग्यो नवदेव्यः सिषेविरे।। २३.२३ ।।
लक्ष्मीनारायणं त्यक्त्वा सिनीवाली च कर्दमम्।
द्युतिर्विभावसुं तद्वत्तुष्टिर्धातारमव्ययम्।। २३.२४ ।।
प्रभाप्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम्।
कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम्।। २३.२५ ।।
धृतिस्त्यक्त्वा पतिं नन्दिं सोममेवाभजंस्तदा।
स्वकीया इव सोमोऽपि कामयामास तास्तदा।। २३.२६ ।।
एवं कृतापचारस्य तासाम्भर्तृगणस्तदा।
न शशाङ्कापचाराय शापैः शस्त्रादिभिः पुनः।। २३.२७ ।।
तथाप्यराजत विधुर्दशधा भावयन् दिशः।
सोमः प्राप्याथ दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम्।।
सप्तलोकैकनाथत्वमवाप तपसा तदा ।। २३.२८ ।।
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणैश्च शोभितम्।
बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गेऽप्यतिदुर्बलाङ्गीम्।। २३.२९ ।।
भार्याञ्च तां देवगुरोरनङ्ग बाणाभिरामायतचारुनेत्राम्।
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ।। २३.३0 ।।
सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन।
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोऽपि।। २३.३१ ।।
न तृप्तिरासीच्च गृहेऽपि तस्य तारानुरक्तस्य सुखागमेषु।
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्यान निष्ठैकमना बभूव।। २३.३२ ।।
शशाक शापन्न च दातुमस्मै न मन्त्रशस्त्राग्नि विषैरशेषैः।
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागदीशः।।। २३.३३ ।।
स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्ग तप्तः।
स याच्यमानोऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः।। २३.३४ ।।
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः।।
ददौ यदा तान्न कथञ्चिदिन्दुस्तदा शिवः क्रोधपरो बभूव।। २३.३५ ।।
यो वामदेवः प्रथितः पृथिव्यामनेक रुद्रार्चित पादपद्मः।
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः।। २३.३६ ।।
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः।
युद्धाय सोमेन विशेषदीप्त तृतीय नेत्रानल भीमवक्त्राः।। २३.३७ ।।
सहैव जग्मुश्च गणेशकाद्या विंशच्चतुः षष्टिगणास्त्रयुक्ताः।
यक्षेश्वरः कोटिशतैरनेकैर्युतोऽन्वगात्स्यन्दन संस्थितानाम्।। २३.३८ ।।
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदेन।
लक्षैस्त्रिभिर्द्वादशभीरथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः।। २३.३९ ।।
नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः।
जग्मुर्भयं सप्त तथैव लोकाश्चचालभूर्द्वीपसमुद्रगर्भा।। २३.४0 ।।
स सोममेवाभ्यगमत्पिनाकी गृहीत दीप्तास्त्र विशालवह्नि।
अथाभवद् भीषणभीमसेन सैन्यद्वयस्यापि महाहवोऽसौ।। २३.४१ ।।
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णायुधास्त्रज्ज्वलनैकरूपः।
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ।। २३.४२ ।।
पतन्ति शस्त्राणि तथोज्वलानि स्वर्भूमि पातालमथादहन्ति।
रुद्रः कोपाद् ब्रह्मशीर्षं मुमोच सोमोऽपि सोमास्त्रममोघवीर्यम्।। २३.४३ ।।
तयोर्निपातेन समुद्र भूम्योरथान्तरिक्षस्य च भीतिरासीत्।
तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि।। २३.४४ ।।
अन्तः प्रविश्याथ कथं कथञ्चिन्निवारयामास सुरैः सहैव।
अकारणं किं क्षयकृज्जनानां सोम! त्वयापीत्थमकारिकार्यम्।। २३.४५ ।।
यस्मात् परस्त्री हरणाय सोम!त्वया कृतं युद्धमतीव भीमम्।
पापग्रहस्त्वं भविता जनेषु शान्तोऽप्यलं नूनमथासितान्ते।। २३.४६ ।।
भार्यामिमामर्पय वाक् पतेस्त्वं न चावमानोऽस्ति परस्वहारे।
सूत उवाच।
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः।। २३.४७ ।।
बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं स रुद्रः।